#################################################### MUKTABODHA INDOLOGICAL RESEARCH INSTITUTE Use of this material (e-texts) is covered by Creative Commons license BY-NC 4.0 Catalog number: M00010 Uniform title: āṣṭaprakaraṇa tattvaprakāśa Main title: āṣṭaprakaraṇam tattvaprakāśaḥ Secondary title: tatvaprakāśikā-tatvasaṃgraha-tatvatrayanirṇayāḥ savyākhyāḥ aghoraśivācārya Author : bhojadeva Commentator : aghoraśiva Editor : kṛṣṇa śāstrī Description: E-text of the tattvaprakāśaḥ from the from tatvaprakasika-tatvasaṃgraha-tatvatrayanirṇayāḥ savyākhyāḥ aghoraśivācarya of the devakottai series. Notes: Data-entered by the staff of Muktabodha under the supervision of Mark Dyczkowski. Revision 0: December 12, 2007 Publisher : śivāgamasiddhāntaparipālanasaṅgham Publication year : 1923 Publication city : Publication country : India #################################################### तत्त्वप्रकाशः श्रीकुमारकृतया तात्पर्यदीपिकया श्रीमदघोरशिवाचार्यप्रणीतया वृत्त्या च सहितः | चिद्घन एको व्यापी नित्यः सततोदितः प्रभुः शान्तः | जयति जगदेकबीजं सर्वानुग्राहकः शम्भुः || १ || तात्पर्यदीपिका नमः शर्वाय देवाय कारणत्रयहेतवे | निर्मलाय सदानन्दचित्स्वरूपाय शम्भवे || शक्तिं सदाशिवं चेशं नत्वा देवीं सरस्वतीम् | तत्त्वप्रकाशतात्पर्यदीपिका क्रियते मया || प्रारिप्सितस्यास्य शास्त्रस्याविघ्नेन परिसमाप्तिप्रचयगमनाद्यर्थं इष्टदेवतास्तुतिं करोति- चिद्धन इति | नन्विष्टदेवतास्तुतिनमस्कारादेः शास्त्रपरिसमाप्तिप्रचयगमनादिहेतुता कुतोऽवगम्यते ? शिष्टाचारानुमितादागमादिति ब्रूमः | शास्त्राद्यारम्भे शिष्टैरिष्टदेवतास्तुतिनमस्कारादेः क्रियमाणस्य तदिष्टपरिसमाप्त्यादिहेतुतां विना न सम्भवः | तेनास्य तद्धेतुत्वम् तच्चागमादेवावगम्यते, अन्यस्य प्रमाणस्यात्रासम्भवात् | तथा- मङ्गलाचारयुक्तानां विनिपातो न विद्यते इति स्मृतेश्च तदवगमः | तथा परिसमाप्तेः कादाचित्कतया कारणापेक्षा | तच्चान्यस्यासम्भवान्नमस्कारादिजनितो धर्मविशेष इति कल्प्यते | कथं तस्य तद्धेतुत्वमिति चेत्, उच्यते- नमस्कारादिः कायिको वाचिको मानसो वा धर्मविशेषं सम्पादयन् विघ्नहेतुभूतमधर्मं पर्यस्य परिसमाप्त्यादिहेतुतामधिगच्छति, तस्येष्टत्वादिष्ट - हेतुत्वाच्च धर्मस्येति | कथं तर्हि क्वचित् कृते नमस्कारे परिसमाप्त्यभाव इति चेत्, तद्वैगुण्यादिति ब्रूमः | यथा कारीर्यादौ वृष्ट्यादिसाधनेऽनुष्थिते वृष्ट्याद्यभावात् तद्वैगुण्यकल्पना प्रतिबन्धकाधर्मप्राचुर्यकल्पना वा, एवमत्रापीति न विरोधः | कथं तर्हि नमस्काराद्यभावे क्वचित् परिसमाप्तिः, कारणाभावे कार्योत्पत्त्यसम्भवा-दिति चेत्, नैवम् | तत्र वाचिकनमस्काराभावेऽपि कायिकमानसादेरनुमेयत्वात्, अन्यथा परिसमाप्तेरसम्भव इति | ननु तर्हि स एवास्त्वत्रापि, किं वाचिकेन ग्रन्थप्राचुर्यसम्पादकेनेति चेत्, नैवम् | वाचिके प्रयोजनान्तरसम्भवेन तदुपादानात् | तथा हि - यस्तु विस्मृत्येष्टदेवतास्तुतिनमस्कारादिं श्रवणे प्रवर्तते, तेनाप्याद्यश्लोकत्रयपाठमात्रादेव नमस्कारः कृतो भवतीति प्रयोजनान्तरसम्भवात् तदुपादानमिति न कश्चिद् विरोधः | अथपदार्थः - चिद्घन इति चैतन्यघनः, चैतन्यसारः, चिन्मात्र इति यावत् | अथैष एव परमानन्दोऽनन्तरोऽपारो विज्ञानघनः इत्यादिश्रूतेः, आद्यन्तरहितं शुद्धं चिदानन्दमयं शिवम् इत्यादिस्मृतेश्च भगवतः शम्भोश्चिद्रूपत्वं सिद्धम् | तथा शिवेन सूत्रकर्त्रा - चैतन्यमात्मा (१|१) इत्यनेन प्रथमसूत्रेणात्मनश्चैतन्यरूपत्वमुपवर्णितमित्युपपन्नं चिद्घन इति | एक इति | अद्वितीय इत्यर्थः | एकमेवाद्वितीयम् (छा० उ० ६|३|१), अहमेकः प्रथममासं वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्तः (अथ० उ० १) इत्यादिश्रुतेः | तथा - एको रुद्रो न द्वितीयाय तस्थे (३|२) इति श्वेताश्वतरे | एक एव रुद्रो न द्वितीयाय तस्थे (तै० सं० १|८|६|१) इति त्रैयम्बकाध्याये | नीलरुद्रे च - सर्वो रुद्रस्तस्मै रुद्राय नमोऽस्तु (तै० आ० १०|१६|१) इत्यादिनाऽद्वितीयत्वप्रतिपादनादुपपन्नं शिवाद्वितीयत्वमिति | न च प्रत्यक्षादिप्रमाणैरनेकार्थावभासादनुपपन्नं शिवाद्वितीयत्वमिति वाच्यम्, एकस्याप्यवस्थानभेदेनानेकधा भासनोपपत्तेः | यथैकस्यैव मृत्पिण्डस्य घटशरावकुम्भकुड्यमृदङ्गाद्यात्मनाऽवस्थानभेद-वशेनानेकधा भासनम्, सुवर्णपिण्डस्यैकस्यैवाङ्गुलीयकरुचककटकमु-कुटाद्यवस्थानभेदवशेन, एवमेकस्यैव सतो रुद्रस्य घटः सन् पटः सन् कुसूलः सन् अस्तीत्यादि प्रत्यक्षतोऽखिलरूपतयाऽवभासस्य एकं सद् विप्रा बहुधा वदन्ति (ऋ० १|१६४|४६), एकं सन्तं बहुधा कल्पयन्ति (ऋ० १०|११४|५) इत्यादिश्रुतितश्चावस्थानभेदवशेनानेकधा भासनमुपपद्यत इति न प्रत्यक्षादिविरोधसम्भवः, अपौरुषेयतयाऽसम्भवद्दोषेण स्वतःप्र-माणभूतेन प्रबलेन वेदराशिना शिवाद्वितीयत्वस्य सिद्धत्वात्, तद्विपरीतदुर्बलप्रत्यक्षादिसिद्धानेकत्वस्य बाध्यत्वाच्च | तथा हि वेद- वाक्यानामपौरुषेयत्वं प्रतिपाद्यते | तेनाप्रामाण्यकारणानाम- ज्ञानरागद्वेषादीनां वेदवाक्येऽसम्भवादप्रामाण्यासम्भवः | नहि शब्दे स्वतो दोषः सम्भवति, आप्तानाप्तवाक्ययोः प्रामाण्याप्रामाण्य-नियमसम्भावनात् | नहि वक्तृगतदोषदभावानुसारं विना स्वतो दोषगुणाभ्यां प्रामाण्याप्रामाण्ययोरभ्युपगमे तन्नियमः सम्भवति, आप्त्यनाप्त्योस्तदकारणत्वात् | नित्यस्य वेदराशेरनाप्तकृतत्वा-भावेनाप्रामाण्यासम्भवात्, स्वतः प्रमाणत्वे सति तत्सिद्धशिवाद्वितीयत्वस्य प्रबलप्रमाणसिद्धत्वान्न प्रत्यक्षादिविरोधसम्भवः | न च कर्त्रभावेन गुणस्याप्यभावात् प्रामाण्यस्याप्यभाव इति वाच्यम्, व्युत्पन्नपदपदार्थस्य तद्वाक्यश्रवणसमन्तरमेव तदर्थविषयप्रमोत्पत्तेरुपलम्भात् | गुणसद्भावश्च न प्रामाण्यकारणम्, अप्रामाण्यकारणभूतदोषपरिहारार्थत्वादिति | तथा तत्परवेदसिद्धत्वाच्च शिवाद्वितीयताप्रतिपादकस्य वाक्यस्य तत्र तात्पर्यं षड्विधलिङ्गसद्भा-वादवगम्यते | तदुक्तं न्यायविद्भिः - आदिमध्यान्तसङ्गानमभ्यासोऽपूर्वता फलम् | अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये || इति | एतानि लिङ्गानि रुद्राद्वितीयताप्रतिपादकश्रुतौ सन्त्येव | तथा हि - शर्वो वै रुद्रः (म० ना० उ० १०|११), पुरुषो वै रुद्रः (म० ना० उ० १०|११), सर्वो ह्येष रुद्रः (तै० आ० १०|१६||१) इत्यादिमध्यान्तसङ्गानाख्यं तात्पर्यलिङ्गमुपलभ्यते | तथा सर्वो वै रुद्रः (तै० आ० १०|१६|१), सर्वो ह्येष रुद्रः (तै० आ० १०|१६|१) इत्यसकृदुपदेशादभ्यासलक्षणं च तात्पर्यलिङ्गं सिद्धम् | तथा - विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् (म० ना० उ० १०|११), सर्वो ह्येष रुद्रः (तै० आ० १०|१६|१) इत्यादिश्रुतार्थ-स्वरूपं च तात्पर्यलिङ्गं सिध्यति | तथा तमेवं विद्वानमृत इह भवति (तै० आ० ३|१|३), विद्यया विन्दतेऽमृतम् (के० उ० २|४), आत्मा ज्ञातव्यः, तरति शोकमात्मवित् (छा० उ० ७|१|३), न च पुनरावर्तते (छा० उ० ८|१५|१), भूयश्चान्ते विश्वमायानिवृत्तिः (श्वे० उ० १|१०), य एवैक उद्भवे सम्भवे च (श्वे० उ० ३|१), य एतं विदुरमृतास्ते भवन्ति (श्वे० उ० ३|१) इत्यादिभिः शिवात्मैकत्वज्ञानस्य फलश्रवणात् तत्प्रतिपादकश्रुतीनां तत्र तात्पर्यसिद्धिः | तत्र को मोहः कः शोक एकत्वमनुपश्यतः (ई० उ० ७) इति स्तुत्यर्थवादसद्भावादेकत्वे तच्छ्रुतेस्तात्पर्यं सिध्यति | तथा - य एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति, अविदुषस्त्वथ तस्य भयं भवति (तै० उ० २|७) इत्यादिनिन्दार्थवादसद्भावाच्च तत्सिद्धिः | तथा - सर्वो वै रुद्रः (तै० आ० १०|१६|१) इत्यादिवाक्यसिद्धं रुद्रस्य सर्वात्मकत्वं वाक्यान्तरेण पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम् (श्वे० उ० ३|१५; ऋ० ८|४|१७) इत्यनेन विरुध्येत | तत्र पुरुषो वै रुद्रः (म० ना० १०|११) इत्यविरोधोपपादनादुपपत्त्याख्यं च तात्पर्यलिङ्गं सिध्यति | तथा सदेव सोम्येदमग्र आसीत् (छा० उ० ६|२|१) इत्यादिवाक्यान्तरसिद्धसदद्वितीयत्वविरोधं च परिहरद् रुद्रः सन् (महाना० १३|२) इति वाक्यमुपपादकम् | तथा वेदाहमेतं पुरुषं महान्तम् (श्वे० उ० ३|७) इत्यादिना नान्यः पन्था अयनाय विद्यते (श्वे० उ० ३|७) इत्यन्तेन श्रुतिवाक्येन सिद्धमहापुरुषाद्वयत्वविरोधं च रुद्रः सन् महः (महाना० १३|२) इति वाक्यं परिहरदुपपादकम् | तेन सुतरां रुद्राद्वितीयत्वेऽस्याः श्रुतेस्तात्पर्यसिद्धिः | तदेतदनुवादसिद्धं शिवाद्वितीयत्वमाश्रयणीयम्, अन्यथा तदानर्थक्यादिति | तदुक्तमार्याकारेण - अज्ञातोऽर्थः फलवानसकृत् सम्भावितश्च दृष्टान्तैः | पौर्वापर्यानुगतः श्रुतः कथं कथ्यते तथा नेति || इति | तस्मान्न प्रत्यक्षादिना दुर्बलेन बाधावकाश इति | प्रधान इति वा, न वा ओजीयो रुद्र ! त्वदस्ति (ऋ० २|३३|१०; तै० आ० ४|५|७), भीषास्माद् वातः पवते भीषोदेति सूर्यः | भीषास्मादग्निचेन्द्रश्च मृत्युर्धावति पञ्चमः || (तै० उ० २|७ - ८) इत्यादितैत्तिरीयात् श्वेताश्वतराच्च सर्वप्राधान्यं भगवतो महेश्वरस्य रुद्रस्यावगम्यते | तथाहि - य एवैको जालवानीशत ईशनीभिः सर्वान् लोकानीशत ईशनीभिः (श्वे० उ० ३|१) इत्यादि | सर्वस्मादधिकत्वं ये न वदन्ति पिनाकिनः | साधारणं स्मरन्त्येनं सदारस्त्वं समाविश || (२|६|५८-५९) इत्युक्तं लैङ्गे पुराणे | तस्मात् तत्प्राधान्यं श्रद्धातव्यमिति | व्यापोऽस्यास्तीति व्यापी, सर्वगत इत्यर्थः | अगत्वा सर्वमूर्तसंयोगित्वं सर्वगतत्वं | अगमनं च सर्वत्र सद्भावाद् गगनवदिति, आकाशवत् सर्वगतश्च नित्यः इत्यादिश्रुतेः | स हि सर्वेषु भूतेषु स्थावरेषु चरेषु च | वसत्येको महावीर्यो नानाभावसमन्वितः || इत्यादिस्मृतेश्च | न चाकाशवदेवास्य जडत्वमिति वाच्यम्, चिद्रूपताप्रतिपादकश्रुतिविरोधात् | अथवा व्यापित्वं सर्वस्वरूपत्वमेकत्वे हेतुतयोक्तम् | तच्च - स इज्ज्योतिः स यजमान आसीत् सो मातरिश्वा स उदेति सूर्यः | स चन्द्रमाः स पृथ्वी जलाषः स आकाशो विश्वा भुवना विवेश || इति मूर्त्यष्टकप्रतिपादकलिङ्गसूक्तिश्रुतिसिद्धम् | नित्य इति अविनाशीत्यर्थः | क्षरं प्रधानममृताक्षरं हरः (१|१०) इति श्वेताश्वतरश्रुतेः | कालत्रयव्यापित्वं वा नित्यत्वं तद्राहित्यं वा, सर्वेषु कालेष्वनुसन्ततात्मा इत्यादि-श्रुतेः, परस्त्रिकालादकलो हि दृष्टः (६|५) इत्यादिश्वेताश्वतरश्रुतेश्च तदवगमः | सततोदित इति | सततं सर्वदा उदयः प्रकाशो यस्यासौ तथोक्तः | अनुदितास्तमितप्रकाशः, स्वयंप्रकाश इत्यर्थः | अत्रायं पुरुषः स्वयंज्योतिः (बृ० उ० ४|३|९) इति श्रुतेः, सर्वगः पुरुषः परः (२|२|१७) इतीश्वरगीतास्मृतेश्च तदवगमः | प्रभुरिति | कर्तृकर्मकरणादिसकलकारकार्थवाहित्वरूपाप्रतिहतैश्वर्यं प्रभुत्वम् | तच्च - यथोर्णनाभिः सृजत्येवमेवासौ सृजति (मु० उ० १|१|७) इति श्रुतेः, संसारहेतुः संसारी मोक्षहेतुश्च निर्वृतः, प्रजायसे जनयसि जन्यसे मुहुः इत्यादिस्मृतितश्च सिद्धम् | करणादिं विना सकलकार्यजनकत्वं वा तच्च- आत्मा वा इदमेकमेवाग्र आसीन्नान्यत् किञ्चन मिषत् | स ईक्षत लोकान्नु सृजा इति | स इमा|ल्लोकानसृजत (ऐ० उ० १|१) इत्यादिश्रुत्यवगतम् | निष्क्रियकर्तृत्वं वा | यथा मणिरयस्कान्तसान्निध्यादुपकारकः | अयसश्चलतस्तद्वच्छिवोऽप्यस्येति सूरयः || (शि० पु० ७|१|३१|८९), यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते | मनसो नोपकर्तृत्वात् तहासौ परमेश्वरः || इत्यादिपुराणागमादवगतं तस्य तत्प्रभुत्वम्, श्रमाद्यसम्भवात् | सव्यापारकर्तृत्वस्याप्रभुत्व-रूपता च श्रमादियोगात् | तत्र हेतुमाह - शान्त इति | सर्वव्यापाररहितः शिवो यतः, अतोऽसौ प्रभुरिति | अथवा जगत्सृष्टिस्थितिध्वंसादिकर्मसम्बन्धवशात् कर्मवश्यशरीरादिप्रसङ्गेन या संसारित्वप्रसक्तिर्भगवतः, सा च निषिध्यते - शान्त इति | सर्वक्रियारहिततयोदासीनस्वभावस्य परमेश्वरस्य सर्वज्ञस्य न परगतक्रियया संसारसंभव इति, निष्कलं निष्क्रियं शान्तं निर्गुणं तं निरञ्जनम् (श्वे० उ० ६|१९) इत्यादिश्रुतेस्तदवगमात् | तथा - पश्यन्ति ऋषयो मुक्ताः स्वात्मानं परमार्थतः | विकारहीनं निर्दुःखानन्दमात्मानमव्ययम् || (२|२|१३) इतीश्वरगीतास्मृतेश्च | मुक्त इति वा, तदेकमजमव्यक्तं नित्यलुप्तमलुप्तदृक् इत्यादिश्रुतेः, अहं ब्रह्माव्ययः शान्तो निर्मलो निष्क्रियोऽव्ययः | एकाकी भगवान् मुक्तः केवलः परमेश्वरः || (ई० गी० २|८|२) इत्यादिस्मृतेश्च तदवगमः | जयतीति | सर्वोत्कर्षेण वर्तत इत्यर्थः | यस्मात् परं नापरमस्ति किञ्चित् (श्वे० उ० ३|९), अणोरणीयान् महतो महीयान् (कठो० २|२०) इत्यादिश्रुतेस्तदवगमात् | सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः | मनसश्चाप्यहङ्कारमहङ्कारान्महान् परः || महतः परमव्यक्तमव्यक्तात् पुरुषः परः | पुरुषाद् भगवान् प्राणस्तस्य सर्वमिदं जगत् || प्राणात् परतरं व्योम व्योमातीतोऽग्निरीश्वरः | ईश्वरान्न परं किञ्चित् (ई० गी० २|३|१८-२०) इत्यादिस्मृतेश्च | स्वोपासकानां श्रवणाद्युपजातपरमार्थदर्शने ज्ञानादेरभिभवादभिभवो वा जयतेरर्थः | तथा सर्वमात्मनो वशे कृत्वा वर्तत इति वशीकारो वा | तथा लयोदये निखिलकार्यजालं स्वात्मन्येव स्वीकृत्यास्त इति स्वीकारो वा | जगदेकबीजमिति | जगतः कालादेः कार्यजातस्य एकं प्रधानं बीजं कारणम्, मूलकारणमिति यावत् | अथवा जगतामेकः कर्ता च बीजमुपादानं चेति जगदेकबीजम्, निमित्तोपादानभूत इति यावत् | यतो वा इमानि भूतानि जायन्ते यत् प्रयन्त्यभिसंविशन्ति (तै० उ० ३|१), एको रुद्रो मृत्युरव्यक्तमेकं बीजं विश्वं देव एकः स एव (ई० गी० २|८|१६) इत्यादिश्रुतेः, अस्माद्धि जायते सर्वमत्रैव प्रविलीयते (२|२|६) इतीश्वरगीतास्मृतेश्च परमेश्वरस्य जगदुपादानभावो गम्यते | तथा - द्यावाभूमी जनयन् देव एकः (ऋ० १०|८१|३), भुवनस्य पितरं गीर्भिराभिः (ऋ० ६|४९|१०), स विश्वकृद् विश्वविदात्मयोनिः (श्वे० उ० ६|१६) इत्यादिश्रुतेः, सर्गकाले च करोति सर्गम् इत्यादिस्मृतेश्च तस्य निमित्तभावोऽवगम्य इति मायाशरीरस्य परमेश्वरस्य जगन्निमित्तत्वोपादानत्वे सम्भवत इति न विकारित्वादिप्रसङ्गः | सर्वानुग्राहक इति | सर्वेषां चेतनानामचेतनानां चानुग्रहं मोक्षा (द्यं?ख्यं) करोतीति तथोक्तः | वक्ष्यति च - मुक्तिमणूनाम् (श्लो० ३५) इति | ननु यदि स्वप्रयोजनार्थमनुग्रहकरणम्, तर्हि सर्वानन्दत्वहानिः, तत्साध्यसुखस्य तदुत्पत्तेः प्रागसत्त्वात् | स्वप्रयोजनाभावे तु प्रवृत्त्यसंभवः | तदुक्तं न्यायविद्भिः - प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते | यदि प्रयोजनोद्देशो हीयेतानन्दरूपता || इति | नैवम्, करुणया स्वभावतो वा प्रवृत्त्युपपत्तेः | ननु यदि करुणयाऽनुग्रहकरणम्, तर्हि मोक्षमेवासौ सृजेत्, न संसारात्मकं जगत्सर्जनम्, तस्यान्याययत्वात् | तथा हि - दुःखदर्शनपूर्वकं करुणया प्रवर्तमानानां तद्दुःखसंप्रहाणायैव प्रवृत्तिरुचिता, न तद्दुःखसम्पादनाय | अतो न युक्तं दुःखात्मकं जगत्सर्जनम् | नैवम्, अज्ञाननिवृत्त्यात्मकस्यापवर्गस्य ज्ञानतत्कारणाद्यपेक्षत्वेन जगत्सर्जनोपपत्तेः | तथा हि - ज्ञानं तावदपरोक्षभूतमपवर्गकारणम् | आपरोक्ष्यं च निदिध्यासनेनाविद्यासंस्कारतिरस्कारे सत्युद्भवति | निदिध्यासनं च श्रवणमननाभ्यां शिवात्मज्ञाने संजाते सम्भवति | ते चान्तःकरणशुद्धितः संजायेते | सा काम्यप्रतिषिद्धकर्मपरिहारेण नित्यनैमित्तिककर्मानुष्ठानाद् भवति | तदनुष्ठानं पशुसस्यराजरक्षादिपूर्वकम् | अतो यदिदं तत् सर्वं मोक्षशेषमिति न व्यर्थं जगत्सर्जनम् | कामनाश्रुतयश्चैहिकफलाः चित्रया यजेत पशुकामः (तै० सं० २|४|६|१) इत्यादय ऐहिकफलनिविष्टचित्तान् विप्रान् वैदिकमार्गे प्रवर्तयितुं प्रवृत्ताः, स्वर्गफलाश्च तदुत्सुकानिति | ये च शत्रुनाशोत्सुकास्तान् वैदिकमार्गे प्रवर्तयितुं श्येना (चि?जि) राद्यभिचारकर्मविधयश्चेति | ततश्च विहितस्नानपापक्षयकर्मा- नुष्ठानान्वाधानाग्निहोत्रादिना क्रमात् मनश्शुद्धिसम्भवे सति कामनानिवृत्तौ नित्यनैमित्तिककर्मानुष्ठानाद् आत्मविविदिषारूपान्तःकरणशुद्ध्युद्भवे श्रवणमननाभ्यां शिवात्मज्ञाने संजाते निदिध्यासनाभ्यासाद् अविद्यातत्संस्कारापनयनान्तरं शिवात्मापरोक्ष्ये सति मोक्ष इति | तदुक्तं मोक्षधर्मादौ - सर्वत्र विहितो धर्मः स्वर्गः सत्यफलोदयः | बहुद्वारस्य धर्मस्य नेहास्ति विफला क्रिया || (म० भा० १२|१७४|२) इति | अत्र ये महेश्वरनियुक्ते श्रौते स्मार्ते वा कर्मणि प्रवर्तन्ते, ते मुच्यन्ते; ये तु न प्रवर्तन्ते, ते संसरन्ति | तदुक्तमैतरेयोपनिषदादौ - एष पन्था एतत्कर्म तस्मान्न प्रमाद्येत नातीयाद् न ह्यत्यायत् पूर्वे येऽत्यायंस्ते पराबभूवुः (१|१|१) इत्यादि | अनुग्रहस्वभावत्वाद्वा प्रवृत्तिः | तदा च तस्य कारणापेक्षितया न सकलजगन्मोक्षप्रसङ्गः | तदुक्तं श्रीवायवीये - अनुग्रहस्वभावत्वे न सर्वान् मोचयेच्छिवः | स्वभावोऽपि हि भावानां भाविनोऽर्थस्य कारणम् || नहि स्वभावतोऽसन्तमर्थं कर्तैव साधयेत् | यथा विकासयत्येव रविः पद्मानि भानुभिः || समं न विकसन्त्येव स्वस्वभावानुरोधतः | एवं पक्कमलानेव मोचयेन्न शिवः परान् || (शि० वा० १|३१|५५-५७) इत्यादि | शम्भुरिति | शंसुखं तस्मिन् भवतीतिशम्भुः, स्वयमानन्दरूप इत्यर्थः | विज्ञानमानन्दं ब्रह्म (बृ० उ० ३|९|२८) इत्यादिश्रुतेः, आनन्दमजमव्यक्तं निष्कलं तदुदाहृतम् इत्यादीश्वरगीतास्मृतेश्च तदवगमः | ननु शिवस्यानन्दमयत्वे प्रीत्यात्मकसत्त्वगुणरूपत्वेन सगुणत्वात् परिणामादिदोषप्रसङ्गः | तथा हि सांख्याचार्यैरुक्तम् - प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः | अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः || (सां० का० १२) इति | नैवम् | प्रीत्यानन्दशब्दयोर्भिन्नार्थत्वात् | तथाहि - विषयेन्द्रियसम्प्रयोगजन्यानित्यसातिशयसुखं प्रीतिशब्देनोच्यते, सततैकरूपनित्यनिरतिशयात्मस्वभावसुखमानन्दशब्दवाच्यमिति नोक्तदोषावकाश इत्येके | अन्ये तु सत्त्वगुणे निर्मले पुण्यहेतुना विषयेन्द्रियसंप्रयोगेण परिणते नित्यसुखमेव प्रतिबिम्बितं प्रीतिशब्देनोपदिष्टम्, एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति (बृ० उ० ४|३|३२) इति श्रुतेः सत्त्वगुणस्य न सुखात्मता, सुखप्रतिबिम्बाश्रयतया सुखरूपत्वाभिधानमिति मन्यते || १ || वृत्तिः शिवं प्रणम्य षट्त्रिंशत्तत्त्वातीतं सशक्तिकम् | व्याख्यां तत्त्वप्रकाशस्य स्फुटां लघ्वीं करोम्यहम् || अद्वैतवासनाविष्टैः सिद्धान्तज्ञानवर्जितैः | व्याख्यातोऽत्रान्यथाऽन्यैर्यत् स ततोऽस्माकमुद्यमः || तत्र तावदाचार्यः प्रारिप्सितस्य प्रकरणस्याविघ्नपरिसमाप्त्यर्थं सिधान्तशास्त्रप्रवृत्तिनिमित्तं सकलतत्त्वातीतं निष्कलं परमशिवमाद्ययाऽऽर्यया स्तौति - चिद्घन इति | चिच्छब्देनात्र ज्ञानक्रिये वक्ष्येते | तदुक्तं श्रीमन्मृगेन्द्रे - चैतन्यं दृक्क्रियारूपम् (वि० २|५) इति | चिदेव घनं देहो यस्य स चिद्घनः | न तु कर्मकालादीश्वरवादिनामिव जडः, अचेतनस्य चेतनाधिष्ठानं विना प्रवृत्त्ययोगात् | न चास्य बैन्दवशरीराद्युपगमोयुक्तः, अनीश्वरत्वप्रसङ्गात् | तस्य च कर्त्रन्तरापेक्षायां स्वकर्तृकत्वेऽन्यकर्तृकत्वे वाऽनवस्थाप्रसङ्गाच्च | एकः अद्वितीयः | न त्वनेकेश्वरपक्षोऽपि युक्तः, रथादीनामप्यनेककर्तृकाणामेकेच्छानुवर्तनं विनाऽनुत्पत्तेः | यदुक्तम् - बहवो यत्र नेतारः सर्व पण्डितमानिनः | तथा महत्त्वमिच्छन्ति दद्व्यक्तमवसीदति || इति | अनेन प्रवाहेश्वरपक्षोऽपि निरस्तः, ऐश्वर्यस्य स्वरूपव्यक्तिलाभात्मकत्वेन विनाशानुपपत्तेः | व्यापी सर्वगतः न तु क्षपणकादीनामिव शरीरपरिमितः, सङ्कोचविकासधर्मी वा, तादृशस्याचेतनत्वानित्यत्वादिदोषप्रसङ्गात् | नित्यः आद्यन्तरहितः | न तु बौद्धादीनामिव क्षणिकः, उत्पत्तिकाल एव नश्यतस्तस्य जगत्कर्तृकत्वासंभवात् | ननु मुक्तात्मानोऽप्येवंभूता एवात आह - सततोदितः | नित्यमुक्तः | न तु मुक्तात्मान इवेश्वरान्तरप्रसादमुक्तः, अनवस्थाप्रसङ्गात् | प्रभुः प्रभवनशीलः | न त्वीश्वरान्तरप्रेर्य इत्यर्थः | प्रागुक्तादेव हेतोः | नाप्यकर्ता, जगत्कर्तृत्वेनैवास्य सिद्धेः | शान्तः रागद्वेषादिरहितः, मोहो मदश्च रागश्च विषादः शोष एव च | वैचित्र्यं चैव हर्षश्च सप्तैते सहजा मलाः || (म० पा०, वि० ६|१०३-१०४) तत्कारणस्य मलादेरसंभवात् | किं पुनरेवंभूतस्येश्वरस्य सद्भावे प्रमाणमिति चेदत आह- जगदेकबीजमिति | जगतः निमित्तकर्ता | अयमभिप्रायः - सन्निवेशादिमत्त्वेन जगतः कार्यत्वं बुद्ध्वा तस्य निमित्तं कारणमीश्वराख्यं कार्यत्वेन हेतुनाऽनुमीयते | यद्यत् सावयवं तत्तत् कार्यम्, यद्यत् कार्यं तत्तत् सकर्तृकमिति न्यायात् | यच्छ्रूयते - (पौष्करागमस्य श्लोकोऽयमिति लु० सं०, भा० २, पृ०, १२० इत्यतोऽवसीयते) विवादाध्यासितं विश्वं विश्ववित्कर्तृपूर्वकम् | कार्यत्वादावयोः सिद्धं कार्यं कुम्भादिकं यथा || इति | श्रीमन्मतङ्गेऽपि - निमित्तकारणं त्वीशः (वि० ६|९९) इति | अयं चेश्वरवादोऽस्माभिर्मृगेन्द्रवृत्तिदीपिकायामुक्तस्तत एवावधार्यः | सर्वानुग्राहकः | अनुग्रहश्चात्रोपलक्षणं सृष्ट्यादेरपि | अतश्च सृष्टिस्थितिसंहारतिरोभावानुग्रहाख्यैः पञ्चभिः कृत्यैः सर्वेषामात्मनां भोगमोक्षप्रद इत्यर्थः | सर्वकर्तृत्वादेव चास्य सर्वज्ञत्वं सिद्धम्, अज्ञातस्य कारणासंभवात् | उक्तं च - सर्वज्ञः सर्वकर्तृत्वात् साधनाङ्गफलैः सह | यो यज्जानाति कुरुते स तदेवेति सुस्थितम् || (मृ० वि० ५|१३) इति | एवंभूतः शम्भुः परमेश्वरो जयति सर्वोत्कर्षेण वर्तते, प्रोक्तैरेव हेतुभिरिति || १ || नोदयति यन्न नश्यति निर्वाति न निर्वृतिं प्रयच्छति च | ज्ञानक्रियास्वभावं तत्तेजः शाम्भवं जयति || २ || तात्पर्यदीपिका अस्य प्रथमश्लोकस्य सकलशास्त्रार्थसंग्रहरूपत्वाद् एतत्सूचितामिष्टदेवतास्तुतिमुत्तरश्लोकेन विवृणोति | अथवा इष्टदेवतास्तुतिच्छलेन निष्कलं प्राप्यं शिवतत्त्वमभिधाय तत्प्राप्त्युपायभूतं सकलनिष्कलात्मकं तेजो ज्योतिर्लिङ्गादिरूपेणावस्थितं स्तौति - नोदयतीति | अयमर्थः - यत् तेजो नोदयति नाविर्भवत्यादित्यादिवत् | न च नश्यति नास्तं गच्छति | निर्वाति न, न मुच्यते | अज्ञानतन्मूलरागद्वेषतत्प्रयुक्तप्रवृत्तिधर्माधर्मतद्वश्य- शरीरेन्द्रियाद्यभावेन संसाराभावात् | अज्ञानाभावश्च सर्वज्ञत्वात् | अपक्षयलक्षणविनाशप्रतिषेधो वा निर्वाणम्, नितरां वानम् अपक्षयो न्यूनत्वम्, तन्नास्ति, सततैकरूपत्वात् | तच्च नित्यत्वात् | निर्वृतिं प्रयच्छति चेति | निर्वृतिर्मुक्तिः, तां प्रयच्छति प्रददाति स्वोपासकानामिति | ज्ञानक्रियास्वभावं ज्ञप्तृकर्तृस्वभावं तच्छाम्भवं शम्भोरिदं शाम्भवं तेजः, इतरतेजोनिकरेभ्य उक्तैः कारणैरुत्कृष्टमिति | अथवा शाम्भवम् तेजोरूपं मन्त्रात्मकं विग्रहम्, तत्प्राप्त्युपायभूतं सकलमिति यावत् | जयतीति | सर्वस्मादुपरि वर्तते इत्यर्थः | कुतः ? अस्य विग्रहस्योत्तरविग्रहवदुत्पत्तिनाशाद्यभावात् | तच्च वेदमयत्वाद् वेदस्य च नित्यत्वादिति || २ || बृत्तिः एवं धर्मिश्वरूपं शिवं प्रस्तुत्य धर्मस्वरूपस्य तत्सामर्थ्यस्य लयावस्थां स्तुतिव्याजेन दर्शयति- नोदयतीति | उत्पत्तिविनाशशून्यमित्यनेन तद्योगिनो बौद्धज्ञानाच्चैतन्यात्मनः शिवतेजसो विशेषं दर्शयति | यद्येवम्- चैतन्यं दृक्क्रियारूपं तदस्यात्मनि सर्वदा (वि० २|५) इति श्रुतेरात्मसामर्थ्याच्छिवसामर्थ्यस्य (मृगेन्द्रागमोऽत्र श्रुतित्वेन निर्दिष्टः |) को विशेष इत्यत आह - निर्वाति न निर्वृतिं प्रयच्छतीति | अयमस्य पशुसामर्थ्याद्विशेषो दर्शितः, यदिदं केनापि न मच्यते तत्त्वनेन पाशविमोचनेन प्रकटीक्रियत इति | किं ततः ? इत्यत आह - ज्ञानक्रियास्वभावं तत्तेजः शाम्भवं जयतीति | चिद्धर्मत्वादेवेदमपि चिदात्मकमित्यर्थः | यच्छ्रूयते? - शक्तिर्नाचेतना चितः (मृ० वि० ३|४) इति || २ || शक्तो यया स शम्भुर्भुंक्तौ मुक्तौ च पशुगणस्यास्य | तामेकां चिद्रूपामाद्यां सर्वात्मनाऽस्मि नतः || ३ || तात्पर्यदीपिका एवं महेश्वरं स्तुत्वा महेश्वरीं महादेववल्लभामखिलभुवनजननीं नित्यसहिताम्- एष ते रुद्रभागः सह स्वस्राऽम्बिकया तं जुषस्व (वा० सं० ३|५७; तै० सं० १|८|६|१२) इत्यादिश्रुतिसिद्धपूजास्तुत्यादिसाहित्यप्रदर्शनाय फलाप्तये च स्तौति- शक्त इति | अयमर्थः- यया शक्त्या भगवान् महेश्वरः पशुगणस्यास्य भुक्तिप्रदाने मुक्तिप्रदाने च शक्तः समर्थो भवति, तां नतोऽस्मीति महेश्वरीस्तुतिकर्तव्यता प्रतिपादिता, तया विना भगवतोऽनुग्राहकत्वासंभवात् | तथाहि- शिवस्य सर्वगतस्य केवलस्य निष्क्रियस्योदासीनतनोः पशुसमुदायं प्रति भुक्तिमुक्तिप्रदानासंभवाच्छक्तिमत एव तत्प्रदानोपपत्तिः | अतः शक्तिसहितस्यैवानुग्राहकत्वमिति | एकामिति | अद्वितीयामित्यर्थः | ननु शिव एव सर्वमिति पूर्वं शिवाद्वितीयत्वं प्रतिपादितम्, अतः कथमिहाद्वितीयतावाचोयुक्तिरिति चेत्, सर्वस्यापि वस्तुनो देवीदेवात्मकत्वसद्भावेनोभयाद्वितीयतावचनोपपत्तेरिति ब्रूमः | तथाहि- केवलात्मावस्थानलक्षणस्यापवर्गस्य तावच्चिदानन्दरूपतया देवीदेवात्मता विद्यते | मोक्षस्यानन्दरूपत्वाभावे पुरुषार्थता हीयेत, सुखस्यैव मुख्यपुरुषार्थत्वात् | न च दुःखाभावस्यापि पुरुषार्थतयाऽपवर्गस्यानन्दरूपत्वाभावेऽपि दुःखसंस्पर्शविरहेण पुरुषार्थत्वसंभव इति वाच्यम्, दुःखाभावस्य सुखानुगुणतया पुरुषैरर्थ्यमानत्वेन मुख्यपुरुषार्थत्वाभावात् | तस्मात् सुखस्यैव मुख्यपुरुषार्थत्वेनानन्दरूपताऽपवर्गस्याश्रयणीया | सा चाननुभूयमाना न पुरुषार्थतां भजत इति तदनुभवोऽप्याश्रयणीय इति सुखचिदात्मको मोक्ष इति तस्य देवीदेवात्मकत्वसिद्धिः | तत्र परमानन्दसंविद् देवी संविदानन्दो देव इति, एषा विद्या ह्यहं वेद्यः इति पुराणागमात् तदवगमः | तथा देवीमन्त्रकल्पे चोक्तम्- आदिनाथ ऋषिश्छन्दो देवी गायत्रि उच्यते | देवता परमानन्दसंविदत्रोपदिश्यते || इति | भुवनेश्वरीकल्पे च- बोधस्वरूपवाची संवित् प्रोक्ता च देवता गुरुभिः इति | तथा- विज्ञानमानन्दं व्रह्म (बृ० उ० ३|९|२८) इत्यादिश्रुतेश्च तदवगमः | याऽनुभूतिरजामेयानन्तात्मानन्दविग्रहा | महदादिजगन्-मायाचित्रभितिं नमामि ताम् || इत्यभियुक्तवचनाच्च तदवगमः | न च संवित्सुखे परस्परमात्मनश्च भिन्ने आत्मगुणरूपे इति वाच्यम्, चिदानन्दात्मकः शिवः इत्यादिश्रुतिविरोधात्, भेदाभ्युपगमे तद्गुणत्वासंभवप्रसङ्गाच्च | ननु चिदानन्दयोरभेदेऽन्यतस्तदनुभवासंभवात् स्वयंप्रकाशतया मोक्षसंसारयोरविशेषप्रसङ्गः ? नैवम्, संसारावस्थायां जपासन्निहितस्वयम्प्रभस्फटिकवदात्मनोऽसत्कल्पतयाऽऽनन्दानु-भवासंभवेनाविरोधादिति | तदिदम् आनन्दं (आनन्दं ब्रह्मणो रूपं तत्र मोक्षे प्रतिष्ठितम् इति प्रामाणिकवचनं योगिनीहृदयदीपिकायां (३|१०८) दृश्यते | कुलार्णवेऽपि (५|८०) वचनमिदं वर्तते |) ब्रह्मणो रूपं तच्च मोक्षेऽभिव्यज्यते इति श्रुतिसिद्धम् | नन्वस्तु शुद्धतत्त्वस्य देवीदेवात्मता | कारणतत्त्वस्य मायाशबलितस्य कथं देवीदेवात्मतेति चेत्, निमित्तोपादानभावेनावस्थानादिति ब्रूमः | तदुक्तं लैङ्गे- अस्याष्टमूर्तेः शर्वस्य शिवस्य गृहमेधिनः | गृहिणी प्रकृतिर्दिव्या प्रजाश्च महदादयः || इति | कार्यतत्त्वस्य चात एव चिदचिदात्मतया देवीदेवरूपत्वम् | तथा च भूतानां चतुर्दशविधानां देहदेह्यात्मना द्वैरूप्याद् देवीदेवात्मता | ननु भूतानां कथं देवीदेवात्मकत्वम् ? तद्विभूतित्वादिति ब्रूमः | तथा च बृहदारण्यकश्रुतिः- एकाकी न रमते | स द्वितीयमैच्छत् | स हैतावानास | पुंस्त्वं स्त्रीत्वं चापातयत् | पतनात् पतिः पत्नी च | सा गौरभवत् | ऋषभ इतरः | ताभ्यां गावः | सा वडवाऽभवद-श्व इतरः | ताभ्यामश्वाः (बृ० उ० १|४|३-४) इत्यादिवाक्यैरखिलजन्त्वात्मना देवदेव्योर्जगत्कारणयोरवस्थानावभासादखिलस्य तद्विभूतित्वसिद्धिः | मानवे च- द्विधा कृत्वात्मनो देहमर्धेन पुरुषोऽभवत् | अर्धेन नारी तस्यां च विराजमसृजत् प्रभुः || (म० स्मृ० १|३२) पु|ल्लिङ्गमखिलं देवः स्त्रीलिङ्गं परमेश्वरी इति लैङ्गवचनाच्च तत्सिद्धिरिति | महेश्वरीमहेश्वरयोर्भेदाभावेनोभयाद्वितीयत्ववचनम् | तथा हि- एकमेव शिवतत्त्वं पुंल्लिङ्गस्त्रीलिङ्ग-नपुंसकलिङ्गशब्दैर्व्यवह्रियते, भावानां तत्त्रैविध्यदर्शनेनास्यापि भावतयाऽन्यतमरूपप्रसक्तौ तन्नियामकासंभवात् | तथा हि- शिवतत्त्वस्य स्त्रीत्वनपुंसकत्वयोरभावेन घटस्य घटशब्देनेव महेश्वरशब्देन पु|ल्लिङ्गेन व्यवहारः | न च पुंस्त्वसद्भावाद् घटस्य घटशब्देन व्यवहार इति वाच्यम्, पुंस्त्वस्यात्यन्तमत्रानुपलम्भात् | तथापि तस्य सत्त्वाभ्युपगमे शशविषाणादेरपि सत्त्वप्रसङ्गः | तथा पुंस्त्वनपुंस-कत्वयोरप्यभावाच्छिवेति स्त्रीलिङ्गशब्देन व्यवहारः | न च तस्य स्त्रीत्वसद्भावादिति वाच्यम्, शालामालादिशब्दानां तदभावेन स्वार्थे वृत्त्यभावप्रसङ्गात् | न च घटादौ स्त्रीलिङ्गशब्दस्यापि प्रवृत्तिप्रसङ्ग इति वाच्यम्, पङ्कजशब्दस्येव क्वचिदेव प्रवृत्तेरिष्टत्वात् | एवं पुंस्त्वस्त्रीत्वयोरप्यभावाच्छिवतत्त्वस्य नपुंसकलिङ्गेन ब्रह्मेत्यनेन शब्देन व्यवहारः, न च नपुंसकत्वसद्भावात्, कुण्डमित्रादिशब्दानां तदभावेन स्वार्थे वृत्त्यभावप्रसङ्गात् | तथा पुरुषादिशब्दानामितररूपासत्त्वाद् निमित्तात् प्रवृत्तिर्ज्ञेया, लाघवस्य सद्भावादात्मनि च पुंस्त्वरहिते वृत्तिसद्भावाच्चेति | तस्मान्महेश्वरीमहेश्वरयोर्भेदाभावादुपपन्नमुभयाद्वितीयत्ववचनमिति | तदुक्तं बृंहण्याम्- शिवो देवः शिवा देवी शिवं ज्योतिरिति त्रिधा | अलिङ्गमपि यत्तत्त्वं लिङ्गभेदेन कथ्यते || इति || भगवता श्रीबादरायणेन सनत्सुजाते चोक्तम्- सा प्रतिष्ठा तदमृतं लोकास्ते ब्रह्म तद् यशः | भूतानि जज्ञिरे तस्मात् प्रलयं यान्ति तत्र च || (म० भा० ५|४४|३०) इति | पुंस्त्वाद्यभावश्च, नैव स्त्री न पुमानेष नैव चायं नपुंसकः (५|१०) इत्यादिश्वेताश्वतरश्रुतेः, न च स्त्री न पुमानेष न चैवेदं नपुंसकम् (शि० वा० १|५|४८) इत्यादिश्रीवायवीयागमाच्च सिद्धः | कथं तर्हि भेदेन नमस्कार इति चेत्, शिवोपलक्षितशक्तेः शक्त्युपलक्षितशिवाद् भेदोपपत्तेरिति ब्रूमः | शक्तिशक्तिमतोरभेदादद्वितीयतोपपत्तिः | न च धर्मधर्मिभावेन शक्तितद्वतोरभेदासंभव इति वाच्यम्, केवलभेदाभ्यु-पगमेऽस्यायं धर्म इति व्यपदेशाभावप्रसङ्गात् | न च सम्बन्धसद्भावात् तदुपपत्तिरिति वाच्यम्, सम्बन्धस्यापि सम्बन्धान्तराभ्युपगमेऽनवस्थाप्रसङ्गात् | अनाश्रयणे च सम्बन्धस्य सर्वसाधारण्येनास्यायमिति व्यपदेशाभावः | तस्माद् धर्मधर्मिणोरभेदोऽभ्युपगन्तव्य इति | कथञ्चिद् भेदस्यापि सद्भावेन भेदव्यवहारो मुखोदरादिभेदव्यवहारवदिति | शिवशक्त्योरभेदे हेतुमाह- चिद्रूपामिति | शिवश्चिद्घनः, इयं च चिद्रूपा चित्स्वरूपा चिन्मात्रेति न तयोर्भेद इति | अयमर्थः शैवरहस्ये चोक्तः- अग्न्यौष्ण्-यवदद्वैधं द्वैधं च मिथः कथञ्चन दधाते | शक्तिशिवौ वस्त्वैक्यं मणिप्रभावद् यतो युक्तम् || इति | आद्यामिति | अखिलकारणतया प्रथमोद्भूतामित्यर्थः | वक्ष्यति च- चिदचिदनुग्रहहेतोः (श्लो० २७) इति | सिद्धान्तहृदये चोक्तम्- सिसृक्षोराद्य उन्मेषः शक्तिसाम्यात्मकोऽस्य यः | तदुपाधिः शिवः शक्तितत्त्वमित्यभिधीयते || इति | सर्वात्मनास्मि नत इति | मनसा वाचा कर्मणा प्रपन्नोऽस्मीत्यर्थः || ३ || वृत्तिः इदानोमधिकारावस्थायामपि शिवस्य शक्तिरेव कारणमित्याह - शक्त इति | शक्त्यात्मनैव करणेनात्मनां भोगमोक्षसिद्धये शिवः पञ्चविधकृत्यकरणे शक्तः समर्थो भवति, न तद्व्यतिरिक्तेन करणान्तरेण | ननु देहेन्द्रियरहितस्य कर्तृत्वं न दृश्यते ? इति चेन्न, तद्रहितस्यात्मनः शक्तिमात्रादेव स्वदेहस्पन्दादौ सामर्थ्यदर्शनात् | उक्तं च- कारणं तु न शक्त्यन्यत् (मृ० वि० ३|४) इति | एकामित्यनेनास्या इच्छादिभेदो वामादिभेदश्च ज्ञेयकार्याद्युपाधिभेदेनोपचारान्न तु परमार्थत इति दर्शयति, एकैवानेकतां याति शिवशक्तिरुपाधितः इति श्रुतेः | चिद्रूपामित्यनेन कार्यभेदोऽपि मायादिवन्नास्याः परिणाम इति दर्शयति, तस्य जडधर्मत्वात् | आद्यां प्रधानभूताम्, समवेताम् | अनेन परिग्रहशक्तिस्वरूपं बिन्दुमायात्मकमप्यस्य बाह्यं शक्तिद्वयमस्तीति सूचयति, उपादानं विना जगदुत्पत्त्ययोगात् | वक्ष्यति चात्र- कर्त्रा विना न कार्यं न तथोपादानकरणाभ्याम् (श्लो० ३७) इति || ३ || लोकानुग्रहहेतोः करुणारसनिर्भरेण चित्तेन | तत्त्वप्रकाश एषोऽस्माभिः क्रियते समासेन || ४ || तात्पर्यदीपिका एवमिष्टदेवतास्तुत्यादिना निरस्तसमस्तान्तरायः शास्त्रकर्ता विषयसम्बन्धप्रयोजनवच्छास्त्रं कर्तुं प्रतिजानीते- लोकानुग्रहहेतोरिति | लोकानां पशूनामनुग्रहोऽपवर्गः, तदर्थमिति प्रयोजननिर्देशः | तदनभिधाने शास्त्रस्याग्रहणं स्यादिति | तदुक्तं भगवता भट्टपादेन- सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् | यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यते || (श्लो० वा० १|१२) इति | वक्ष्यति च- चिदनुग्रहस्त्वयं किल (श्लो० ३६) इति | लोकानुग्रहहेतोरेष तत्त्वप्रकाश इत्युक्तेः शास्त्रप्रयोजनयोः साध्यसाधनभावसम्बन्धसिद्धिः, अन्यथा तादर्थ्यासम्भवात् | तत्त्वानि प्रकाश्यन्ते प्रदर्श्यन्ते येन शास्त्रेण स तत्त्वप्रकाश इत्यनेनास्य शास्त्रस्य विषयः प्रतिपादितः, तत्त्वानामत्र प्रतिपाद्यमानतया विषयत्वात् | ननु च शास्त्रात् प्रतिपाद्यमानतत्त्वविषयज्ञानमुत्पद्यते | अतः कथमस्यापवर्गसाधनत्वमिति चेदुच्यते, तत्त्वज्ञानस्यावान्तरव्यापारत्वेन शास्त्रस्य तत्साधनत्वोपपत्तेः | तथाहि- शास्त्रश्रवणात् तत्त्वज्ञानं शास्त्रविषयमुत्पद्यते | तस्मिन् सत्यज्ञानान्यथाज्ञानयोर्निवृत्तिः | ततस्तन्मूलरागाद्यभावः | ततस्तत्कार्या प्रवित्तिर्निवर्तते | ततो धर्माधर्मयोरनुत्पत्तिः | पूर्वोत्पन्नयोः संचितयोः दीक्षाकर्मणा विनाशः | अरब्धकार्ययोस्तयोरस्तशरवद् विनियुक्त्वादुपभोगादेव प्रक्षयः | ततः शरीराद्युपाधिविरहाज्जीवात्मनः शिवस्वभावस्य घटाकाशस्य तदुपाधिघटविनाशे परमाकाश इव परमेश्वरे शिवे लयोऽपवर्गाख्यो भवतीति | एतदुक्तं श्रीकौर्मे (काशीराजन्यासमुद्रिते कूर्मपुराणे श्लोकार्धसूच्यां वचनमेतन्नोपलभ्यते |)- घटाकाशमिवाकाशे सरित्तोयमिवार्णवे | जीवो मे विलयं यातु शिवाख्ये परमात्मनि || इति | शिवधर्मोत्तरे च- जगतस्तत्त्वसंबोधादज्ञानं विनिवर्तते | अज्ञानविनिवृत्तौ च रागादी- नामसम्भवः || रागाद्युपशमात् पुंसां पुण्यपापपरिक्षयः | तत्क्षयाच्च शरीरेण न पुनः सम्प्रयुज्यते || अशरीरं च संक्लेशैः सर्वैरेव न बाध्यते | क्लेशमुक्तः प्रसन्नात्मा मुक्त इत्यभिधीयते || इत्यादि | तस्मात् शास्त्रात् तत्त्वज्ञानद्वारेणापवर्गो भवतीति सिद्धम् | ननु च यद्यस्मादेव शास्त्रात् तत्त्वज्ञानोत्पत्तिः, तर्हि शास्त्रकर्- तुस्तत्त्वज्ञानाभावप्रसङ्गः, प्राक्शास्त्राभावात् | न च शास्त्रक-रणानन्तरं तच्छ्रवणात् तस्य तत्त्वज्ञानमिति वाच्यम्, तज्ज्ञाना-भावे तत्त्वप्रतिपादकशास्त्रकर्तृत्वस्यैवासम्भवात् | नह्यज्ञातेऽर्थे शब्दप्रयोगो घटत इति | नैतदेवम्, किरणमापरमेश्वरादिषु तत्त्वानां प्रतिपादितत्वेन तच्छ्रवणात् तस्य तत्त्वज्ञानोपपत्तेः | न चास्मदादीनामपि तथा तत्त्वज्ञानोपपत्तेरनारम्भणीयमिदं शास्त्रमिति वाच्यम्, अस्मदादीनां तथाविधप्रज्ञासामर्थ्या-भावेन विप्रकीर्णतया विस्तरेण च प्रतिपाद्यमानतत्त्वविषयज्ञा-नस्याशक्यसम्पादनत्वात् | अथ तत्त्वज्ञानस्यापवर्गसाधनत्वे समुत्पन्नतत्त्वज्ञानास्त्वनन्तरमेव मुच्यन्त इति शास्त्रकरणतद्-व्याख्यानाद्यसम्भवाद् अस्मदादीनां तत्त्वज्ञानासम्भवः | अथ शास्त्रकर्ता तदर्थमवतिष्ठत एवेति चेत्, न तर्हि तत्त्वज्ञानमपवर्गे साधनम्, तज्ज्ञानसद्भावेऽप्यपवर्गाभावादिति | नैष दोषः, शिवात्मज्ञानस्यापरोक्षभूतस्यापवर्गजनकत्वाभ्युपगमात् | तथा हि- श्रौते तत्त्वज्ञाने संजातेऽपि न भवत्यपवर्गः, निदिध्यासनसम्भ-वस्य ज्ञानापरोक्ष्यस्य तदानीमभावात् | श्रौते हि तत्त्वज्ञाने संजाते मननसापेक्षपुनर्निदिध्यासनसंभवं शिवात्मैकत्वविषयमपरो-क्षज्ञानं देहादिविषयापरोक्षभूताज्ञाननिरसनात्मकमपवर्ग-मुपजनयति, (तच्चा?अ) परोक्षभ्रमस्य परोक्षज्ञानेन निवृत्त्यसंभ-वात् | स चोदीच्यामुदित आदित्य इत्यपरोक्षदिग्भ्रमस्य तदुदयपूर्वक-पूर्वदिक्त्वानुमानेन निवृत्त्यदर्शनादनुगम्यते | पुनश्चाभ्यास-वशादपरोक्षज्ञानोद्भवे निवृत्तिदर्शनाच्चेति | तथा हि श्रुतयः श्रुतिशिरसि वर्तमाना एकमेवार्थमुपपादयन्ति | तथा च- अरे आत्मा द्रष्टव्यः (बृ० उ० २|४|५) इति निर्द्वारेणापवर्ग-साधनं शिवात्मदर्शनमेव विहितम् | तदुपायत्वेन श्रवणमनननि-दिध्यासनानि विधीयन्ते- श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (बृ० उ० २|४|५) इति | तेन न श्रवणमात्रजनितं विज्ञानमपवर्गसाधनम्, किन्तु निदिध्यासनसम्भवं शिवात्मदर्शनमिति गम्यते | एषां श्रवणा-दीनां सद्वारेण निर्द्वारेण चात्मदर्शनं प्रत्यङ्गत्वम्, श्रोतव्यः श्रुतिवाक्येभ्यो मन्तव्यश्चोपपत्तिभिः | ज्ञात्वा च सततं ध्येयः इति, एते दर्शनहेतवः इति सिद्धं च | अतो न शास्त्रकरणतद्व्याख्यानाद्य-संभवः, तत्त्वज्ञानिनां यावदापरोक्ष्यमवस्थानाभ्युपगमादिति | न च शरीरादिव्यतिरिक्तात्मासत्त्वेनाधिकार्यभावात् स्वर्गापवर्गफलद-मिदं शास्त्रमनारम्भणीयमिति वाच्यम्, शरीरादिव्यतिरिक्तस्य नित्यस्य जीवात्मनः सद्भावस्य वक्ष्यमाणत्वात् | न च मोक्षतत्साधनप्रति- पादकशास्त्रान्तरसम्भावनादनारम्भणीयमिदं शास्त्रमिति वाच्यम्, शास्त्रान्तराणां शिवतत्त्वाप्रतिपादकानाम्- यदा चर्मवदा-काशं वेष्टयिष्यन्ति मानवाः | तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति || (श्वे० उ० ६|२०) इत्यारणवाक्येन श्वेताश्वतरेणापवर्गहेतुता-प्रतिक्षेपाच्छिवप्रतिपादकानां चेतरतत्त्वव्यावृत्त्यात्मकशिवज्ञान-विधायकवाक्यैरपवर्गहेतुता प्रतिक्षिप्ता | तथा हि- द्विविधमिह शिवज्ञानमपवर्गकारणम्- इतरव्यावृत्त्या, स्वरूपतश्चेति, श्रुतिस्मृत्योस्तथा विधानात् | आत्मा ज्ञातव्यः प्रकृतितो विवेक्तव्यः, अन्यदेव तद्विदिताद् अथो अविदितात् (केनो० १|४) इत्याद्याः श्रुतय इतरव्यावृत्त्या, सत्यं ज्ञानमनन्तम् (तै० उ० २|१) आनन्दम् (तै० उ० ३|६), प्रज्ञानं ब्रह्म (ऐ० उ० ५|३) इत्यादयः स्वरूपतोऽपि विज्ञानं प्रतिपादयन्ति | नायं पृथ्वी न सलिलं न तेजः पवनो नभः | न प्राणो न मनोऽव्यक्तं न शब्दः स्पर्श एव वा || न रूपरसगन्धाश्च नाहंकर्ता न वागपि | न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः || न कर्ता न च भोक्ता वा न च प्रकृतिपूरुषौ | न माया नैव च प्राणश्चैतन्यं परमार्थतः || (ई० गी० २|३|७-९) इत्याद्याः स्मृतय इतरव्यावृत्त्या, आत्मायं केवलः स्वच्छः शान्तः सूक्ष्मः सनातनः | अस्ति सर्वान्तरः साक्षी चिन्मात्रस्तमसः परः || (ई० गी० २|२|४) इत्याद्याः स्वरूपतः शिवात्मज्ञानं प्रतिपादयन्तीत्युभयथा विज्ञानस्याश्रयणीयत्वात् | तथाविध-विज्ञानसाधनमिदं शास्त्रमारम्भणीयमिति सिद्धम् | करुणारसनिर्भरेण चित्तेनेति | करुणायाः संजातो रसः करुणारसः अनुजिघृक्षा | अथवा करुणा चासौ रसश्चेति | तेन निर्भरं विशृङ्खलं यत् तत् करुणारसनिर्भरम्, तेन | चित्तेन मनसा | न ख्यातिलाभपूजार्थं शास्त्रकरणम्, किन्तु केवलं करुणानुन्नमानसैरस्माभिः क्रियत इत्यर्थः | आत्मनि गुरुषु बहुवचनविधानादस्माभिरिति बहुवचन-निर्देशः | समासेनेति शैवागमेषु विप्रकीर्णतया विस्तरेण चोक्तानां तत्त्वानां मन्दबुद्ध्यनुग्रहार्थं समासेन संश्लेषणेन, संक्षेपेण वेत्यर्थः || ४ || वृत्तिः अधुना प्रकरणे प्रतिपाद्यमर्थं प्रतिजानीते- लोकेति | तत्त्वानां पृथिव्यादिशिवान्ततत्त्वानां तत्कर्तुः शिवस्य तदुपकार्याणां चात्मनां प्रकाशः क्रियत इत्यर्थः || ४ || शैवागमेषु मुख्यं पतिपशुपाशा इति क्रमात् त्रितयम् | तत्र पतिः शिव उक्तः पशवो ह्यणवोऽर्थपञ्चकं पाशः || ५ || तात्पर्यदीपिका तत्त्वप्रकाशः क्रियत इत्युक्तम् | तत्रेदमाशङ्कते- कानि तानि तत्त्वानि, कियन्ति चेति | एकादिषट्त्रिंशान्तं बहुभिराचार्यैर्बहुधा तत्त्वानां प्रतिपादितत्वादाशङ्कासमुद्भवः | तामाशङ्कामपनेतु-माह- शैवेति | अयमभिप्रायः- एकादिषट्त्रिंशान्तेषु तत्त्वपक्षविशेषेषु सर्वेष्वपि मुख्यत्वादनभ्युपगमे दोषप्रसङ्गाच्च पतिपशुपाशा-त्मकत्रैविध्यमाश्रयणीयम् | तथा हि- पशोः संसारिणोऽनभ्युपगमे धर्माधर्मजन्ममरणसुखदुःखानुभवलक्षणस्य संसारस्य तन्निवृत्तिलक्षणस्य चाश्रयाभावादसत्त्वम्, तत्प्रतिपादकश्रुतिस्मृतीति-हासपुराणादेश्च निर्विषयतयाऽप्रामाण्यप्रसङ्गश्च स्यात् | तथा पाशानां संसारहेतुभूतानां मलकर्ममायाख्यानामभावे शरीरादेरभावे स्वर्गनरकगमनजन्ममरणादेरभावप्रसङ्गः, आत्मनो निष्क्रियस्य तदखिलासंभवात् | तथा पत्युः परमेश्वरस्या-भावे जगत्सृष्टिस्थितिध्वंसधर्माधर्मबन्धमोक्षविचारादेरसं-भवः, जीवानामसर्वज्ञानां शरीररहितानां तदसंभवात् | तस्मात् तत्त्वत्रैविध्यं सर्वेष्वपि पक्षविशेषेष्वभ्युपेयमिति | ननु तत्त्वैकत्वद्वित्वपक्षयोस्तदाश्रयणमुपाधिभेदकृतभेदसद्भावादिति ब्रूमः | तथाहि- एकमेव जलतत्त्वमुपाधिवशात् तरङ्गफेनबुद्बुदात्-मनाऽप्रच्युतस्वभावं यथा त्रैविध्यभागवगम्यते, तथाऽयं शिवोऽप्यप्रच्युतस्वस्वभावस्त्रैविध्यं पतिपशुपाशात्मकमनुभवति | तदुक्तं शैवरहस्ये- अनुभवति हि पशुभावं शिव एवाणवतिरोहितात्म-गुणः | सोऽपि मलो यः कश्चन शक्तिलवः सर्वथा शार्वः || इति | प्रकृतिपुरुषात्मना द्वैविध्ये प्रकृतितदुपहितानुपहितात्मना त्रैविध्यसम्भव इति षट्त्रिंशान्तेषु चतुष्टयादिषु चेतरतत्त्वानाम-त्रैवान्तर्भावात् तत्त्रैविध्योपपत्तिः | तथाहि- पत्यौ शुद्धानां तत्त्वानामन्तर्भावः | मायाकार्याणां शुद्धाशुद्धानां पशावन्तर्भावः | अव्यक्तादिपृथिव्यन्तानां केवलाशुद्धानां पाश इति | तदुक्तं शैवरहस्ये- पत्यौ शिवस्वभावाः सर्वे सर्वात्मना प्रकाशन्ते | केचन पाशेषु पशुषु चान्तर्दधते निरवशेषम् || इति | अत एवास्य त्रितयस्य मुख्यत्वम्, अन्येषामत्रैवान्तर्भावात् | अथवा क्रमान्मुख्यत्वमिति | ननु कथमेतदवगम्यत इत्यत आह- शैवागमेष्विति | ते च- कामिकं योगजं चिन्त्यं कारणं त्वजितं परम् | दीप्तं सूक्ष्मं सहस्रं च अंशुमान् सुप्रभेदकम् || विजयं चैव निःश्वासं स्वायम्भुवमतः परम् || वीरं च रौरवं चैव मुकुटं विमलं तथा || चन्द्रज्ञानं च बिम्बं च प्रोद्गीतं ललितं तथा | सिद्धं सन्तानसर्वोक्तं पारमेश्वरमेव च || किरणं वातुलं चैव त्वष्टाविंशतिसंहिताः | मूलभेदमिति ख्यातमसंख्यमुपभेदकं || इति | एषूक्तत्वादिति | तथा हि पारमेश्वरे तावत्- पाश्यः पाशयिता पाशास्त्रयमेतद् व्यवस्थितम् (वि० ६|२) इति | किरणे च- पशुपाशपतिज्ञानविचारप्रतिपादकम् | किरणाख्यं महत् तन्त्रम् (वि० १|१३) इत्यादि | श्रीवायवीये च- अजडं च जडं चैव नियन्तृ च तयोरपि | पशुः पाशः पतिश्चेति कथ्यते त्रितयं क्रमात् || (शि० वा० १|५|१२) शैवेति शिवप्रणीतत्वविशेषणेनागमानां प्रामाण्यं सूचितम् | तथाहि- शिवस्य सर्वज्ञतया ज्ञानान्यथाज्ञानरागद्वेषादेर-प्रामाण्यवाक्यरचनाहेतोरभावात् तद्रचितानामागमा-नां सिद्ध्यत्येव प्रामाण्यम् | नहि सर्वज्ञस्याज्ञानं संभवती- त्यज्ञानादप्रमाणवाक्यरचनेति वक्तुं शक्यते | अज्ञानाभावा-देव तन्मूलरागद्वेषादेरभावात् तन्मूलाप्रमाणवाक्यरचना-सम्भवः | तस्मात् क्षीणदोषतयाप्तेन महेश्वरेण रचितानां प्रामाण्यसद्भावात् तदुक्तप्रमेयतथात्वमभ्युपेयमिति | तदुक्तं शिवधर्मोत्तरादौ- विधिवाक्यमिदं शैवं नार्थवादः शिवात्मकम् | लोकानुग्रहकर्ता यः स मृषार्थं कथं वदेत् || सर्वज्ञपरिपूर्णत्वादन्यथा केन हेतुना | ब्रूयाद् वाक्यं शिवः शान्तः सर्वदोषविवर्जितः || यद् यथावस्थितं वस्तु गुणदोषैः स्वभावतः | यावत्फलं च यत् पुण्यं सर्वज्ञस्तत् तथा वदेत् || रागाज्ञानादिभिर्दोषैर्ग्रस्तत्वादनृतं वदेत् | ते चेश्वरे न विद्यन्ते ब्रूयात् स कथमन्यथा || अपास्ताशेषदोषेण सर्वज्ञेन शिवेन यत् | प्रणीतममलं वाक्यं तत् प्रमाणं न संशयः || तस्मादीश्वर-वाक्यानि श्रद्धेयानि विपश्चिता | यथार्थं पुण्यपापेषु तदश्रद्धो व्रजत्यधः || इति | नन्वीश्वरप्रणीततागमानां कुतोऽवगम्यते ? तदागमैरेवेति चेत्, तदेतरेतराश्रयता | अथागमस्य प्रमाणभूतस्याप्तकर्त्रपे-क्षायां तदन्यस्यातीन्द्रियार्थदर्शिनः कर्तृत्वासंभवाच्च सर्वे-श्वरस्य सर्वकर्तुः सर्वज्ञस्यागमकर्तृत्वं निश्चीयत इति चेत्, नैवम् | आगमप्रामाण्यानिश्चयादेवं कल्पनानुपपत्तेः | तथा आप्तान्त-राप्रणीतत्वे प्रमाणाभावादतीन्द्रियार्थदर्शिनः कर्तृत्वाविरोधा-च्च न शिवप्रणीतत्वविशेषणस्यार्थवत्त्वमिति | नैतदेवम्, आगमस्य प्रतिपत्तिसामर्थ्यात्मकात् प्रमाणान्तरात् प्रामाण्यसिद्धेः | तथा हि- द्विविधो ह्यागमः, दृष्टार्थोऽदृष्टार्थश्चेति | तत्र दृष्टार्थानां चित्रायागविधायकवाक्यसदृशानां तदुक्तकर्-मानुष्ठानेन तदुक्तफलसंभवदर्शनात् प्रामाण्यमनुमाय तत्कर्तुरतीन्द्रियार्थदर्शित्वेन परमाप्तत्वनिश्चयेऽन्येषामदृष्टार्- थानामपि तत्कर्तृकतया दृष्टार्थवाक्यवत् प्रामाण्यमनुमीयत इति | न च पूजाजपादिविशिष्टकर्मणां विशिष्टतत्तत्फलसाधनताम-ध्यक्षतोऽवगच्छन्नागमकर्ता भवेदसर्वज्ञः, एतद्दर्शिनो ह्यदृश्यतस्त्वन्तराभावात् | न चानुमानादिममर्थमुपलभ्य तत्र वाक्यरचनेति वाच्यम्, व्याप्तिग्रहणलिङ्गादेरसम्भवात् | अनुमानं हि लिङ्गलिङ्गिनोः प्रत्यक्षतो व्याप्तिग्रहणे सति लिङ्गमात्रदर्शनादुपजायमानं लिङ्गिविज्ञानमाह | तथाहि- प्रत्यक्षतो महानसादौ धूमाग्न्योर्-लिङ्गलिङ्गिनोरविनाभावे गृहीते देशान्तरे पर्वतादौ धूमदर्शनादग्न्यनुमानं प्रवर्तमानं दृष्टम् | तदत्र फलकर्मणोः साध्यसाधनभावस्य लिङ्गलिङ्गिनोः प्रत्यक्षतया लिङ्गानुपलम्भाच्च व्याप्तिग्रहणासंभवान्नानुमानसंभव इत्यनुमानमूलता नागमानाम् | नाप्यागमान्तरमूलता, तस्यापि पौरुषेयत्वेनागमान्तरमूलताभ्युपगमेऽनवस्थाप्रसङ्गात् | न च वेदव्यतिरिक्तमपौरुषेयं वाक्यं पश्यामः, येन तन्मूलता कल्प्येत | तस्मान्नागमान्तरमूलता आगमानाम् | न च योगिनामतीन्द्रियार्थदर्शिनामागमकर्तृत्वमिति वाच्यम्, तेषां महेश्वरप्रसादापेक्षसर्वज्ञतया तदुपायदीक्षापूर्वकपूजाद्यावेदकागमानां सद्भावस्य प्रागेवाश्रयणीयत्वात्, जगत्कर्तुः शिवादन्यस्यागमकर्तृत्वकल्प-नानां गौरवापाताच्च स एवागमानामपि कर्तेति कल्प्यते | न च परस्परविरुद्धधर्मप्रतिपादकागमानामेकाप्तकर्त्रभ्युपगमा- संभवादनेकाप्तकर्त्रभ्युपगमप्रसङ्ग इति वाच्यम्, वर्णाश्र-माद्यधिकारिभेदवशेन वेद्यस्य चैकस्यैव शिवस्य करुणानिधेर्वि-रुद्धधर्मोपदेशोपपत्तेरिति नेतरेतराश्रयत्वादिदोषः | न च लोकपरि-ग्रहे स्यादन्योन्याश्रयत्वमिति वाच्यम्, तस्य प्रामाण्यपरिज्ञान-मूलत्वाभावात् | तथाहि- प्रथमं तावदागमान् विरचयय ब्रह्माणं स्वसुतं महेश्वरो ग्राहयामाम | ततः स्वसुतान् ब्रह्मा, ततस्तेऽपि स्वसुतानिति वेदपरिग्रहवदागमपरिग्रहोपपत्तेर्नो-क्तदोषावकाशः | ननु शिवप्रणीततयाऽऽगमप्रामाण्यं पूर्वमुपवर्णितम् | सम्प्रति प्रतिपत्तिसामर्थ्यादिति पूर्वापरविरोध इति चेन्न, उत्पत्तिज्ञप्त्-यपेक्षया उभयोरप्युपपत्तेः | तथाहि- शिवप्रणीततयागमानां प्रामाण्यमुपजातं तत्प्रतिपत्तिसामर्थ्येनावगम्यत इति न कश्चिद्वि-रोधः | वेदमूलत्वाद्वाऽऽगमप्रामाण्यम् | तदानीमपि शिवप्रणी- तत्वादागमप्रामाण्यं द्रढयति, शिवदृष्टस्य वेदार्थस्याबाध्-यत्वादिति | स चागमो द्वेधा- प्रत्यक्षश्रुतिमूलोऽनुमेयश्रुतिमूलश्-चेति | तत्र प्रत्यक्षश्रुतिमूलानामागमानां प्रत्यक्षश्रुतिमूलवत् प्रामाण्यम्, अनुमेयश्रुतिमूलानामष्टकादिश्रुतिमूलवदित्याग-मेषु प्रतिपाद्यमानानामर्थानां श्रुतिषूपलम्भात् तन्मूलता-गमानामवगम्यते | तथाहि- रुद्रोऽवश्यं यष्टव्यः इति श्रुतिवाक्-याद् रुद्रयागकर्तव्यताऽवभासते | तत्र करणादिकं मन्त्रार्थवा-दावगतमागमैः प्रतिपाद्यत इति तन्मूलतागमानाम् | तथाहि- तमुष्टुहि यः स्विषुः सुधन्वा यः (ऋ० ५|४२|११) इत्यत्र पूजास्तुतिनमस्-कारादे रुद्रगोचरस्य महत्सौख्यनामकापवर्गं प्रति हेतुताऽव-गम्यते | अन्तरिच्छन्ति (ऋ० ८|७२|३) इत्यत्र ध्यानजपौ रुद्रविषयौ कर्तव्यावित्यवगम्यते | यज्ञं रुद्राय मीढुषे (ऋ० १|१२२|१) इत्यत्र पान्तं पानीयं सोमाख्यमन्धोहवी रुद्राय हरध्वमित्यवगम्-यते | एवं शतरुद्रीयनीलरुद्रसूक्तश्वेताश्वतरेशावास्याथर्वशि- रस्तच्छिखारौद्रसूक्तारणादिष्वागमप्रतिपाद्यमानानामर्था-नां सद्भावो द्रष्टव्य इति | अत्र प्रयोगाः- विवादपदं तन्त्रशास्त्रं प्रमाणम्, यथार्थ-त्वात्, सम्प्रतिपन्नवाक्यवत् | तथा तन्त्रशास्त्रं प्रमाणम्, आप्तोक्-तत्वात्, यद्यदाप्तोक्तं तत्तत्प्रमाणम्, यथा पुराणादि, तथेदमाप्-तोक्तम्, तस्मात् प्रमाणम् | तथागमाः शिवप्रणीताः, तदन्याजन्य-कार्यत्वात्, तद्यत् तदन्याजन्यकार्यं तत्तच्छिवप्रणीतम्, यथा प्रपञ्चः, तथा चैते, तस्माच्छिव प्रणीताः | तन्त्रशास्त्रं कार्यम्, वेदान्यवाक्यत्वात्, यद्यद् वेदव्यतिरिक्तं वाक्यं तत्तज्जन्यं दृष्टम, यथा भारतादि | न च प्रपञ्चस्य शिवप्रणीतत्वासिद्धेः साध्यविकलो दृष्टान्त इति वाच्यम्, तस्योपरिष्टा-दुपपाद्यमानत्वात् | तथा तन्त्रशास्त्रं प्रमाणम्, वेदमूलत्वात्, मन्वादिस्मृतिवत् | तद् वेदमूलं च, तदुक्तार्थप्रतिपादकत्वात्, मन्वादिस्मृतिवदिति | अथ शास्त्रमप्रमाणम्, अनाप्तकृतत्वात्, सम्प्रतिपन्नवदिति प्रत्यनुमानबाधादोषप्रसङ्ग इति चेत्, नैवम्, विकल्पानुपपत्तेः | तथाहि- अनाप्तकृतत्वादित्यस्य कोऽर्थः ? यद्याप्तेनाकृतत्वम्, आहोस्विदनाप्तेन कृतत्वम् | यद्याद्यः पक्षः, तर्हि वेदवाक्यैर्व्यभिचारः, तेषां प्रमाणभूतानामेवाप्तेनाकृतत्व-हेतोः सद्भावात् | असिद्धश्चायं हेतुः, आप्तकृतत्वस्य साधितत्वात् | यद्युत्तरः पक्षः, तदा चाप्तकृतत्वादेवासिद्धता | न चानाप्तरचिता आगमाः, वेदविरुद्धत्वात्, बौद्धाद्यागमवदिति सधयितुं शक्यत्वान्नासिद्धतेति वाच्यम्, वेदार्थप्रतिपादकतया वेदमूला-नामागमानां वेदविरुद्धत्वस्याप्यसिद्धत्वात् | तस्माच्छैवाग- मेषूक्तत्रैविध्यादिकं मार्कण्येयागस्त्यरामदधीचादिसकलशिष्-टजनैः परिगृहीतत्वाच्चादरणीयमिति | पतिपशुपाशा इति | पतिश्च पशवश्च पाशाश्चेति तथोक्ताः | के त इत्याकाङ्क्षायामाह- तत्र पतिः शिव उक्तः पशवो ह्यणवोऽर्थपञ्चकं पाश इति | तत्र तेषां मध्ये पशूनां पालनात् पतिशब्देन शिव उक्तोऽभिहितः | पशवो ह्यणवः अणुत्वसम्पादकमलादि-सम्बन्धिनः | शिवस्वभावा जीवाः पशवो न चतुष्पाद एव, द्विपदां च पशुत्वश्रवणात् | तथाहि- एतावन्तो वै पशवो द्विपादश्चतुष्पादश्च | यो वामिन्द्रावरुणा द्विपात्सु पशुषु यो वा चतुष्पात्सु पशुषु (तै० सं० २|३|१३|१) इत्यादिश्रुतेः | तेषामीश्वरत्वाद् भगवतः शिवस्य पशुपतित्वम्, येषामीशे पशुपतिः पशूनां चतुष्पदामुत च द्विपदाम् (तै० सं० ३|१|४|१) इति श्रुतेः | लैङ्गोपरिभागे च - ब्रह्माद्याः स्थावरान्ताश्च देवदेवस्य धीमतः | पशवः परिकीर्त्यन्ते संसारवशवर्तिनः || तेषां पतित्वाद् भगवान् रुद्रः पशुपतिः स्मृतः | (लि० पु० २|९|११- १२) इति | ननु केन कारणेन जीवात्मनां शिवस्वभावानां मलादिपाशसम्बन्ध इति चेदुच्यते- मलपाशसम्बन्धात् कर्मपाशसम्बन्धः | तत्सम्बन्धान्- मायापाशसम्बन्धः | मलपाशसम्बन्धस्य अस्य त्वनादित्वान्न कारणापेक्षेति | तदुक्तं किरणे- अनादिमलसम्बन्धान्मलिनत्वमणौ स्थितम् | अनादिमलमुक्तत्वान्निर्मलत्वं स्थितं शिवे | आदिमत्त्वं यदा सिद्धं निमित्तं कथ्यते तदा | ईदृग्रूपं स्मृतं ताभ्यां शुद्धाशुद्धं यथार्थतः | विशुद्धः स्फटिकस्तस्मात् ताम्रं तावत् सकालिकम् || यथास्मिन्न निमित्तं स्यात् तथा न स्याच्छिवात्मनोः || (विओ ३|३-५) इति | ननु तर्हि पशूनां शिवत्वाभावप्रसङ्ग इति चेत्, नैवम्, तेषां शिवस्वभावत्वे श्रुत्यादिप्रमाणसद्भावस्य वक्ष्यमाणत्वात् | अत एव पाशबद्धत्वात् पशुत्वम् | तेन किञ्चित् कर्तृत्वादिनाऽणुत्वम्, न परमाणुवदवस्थानात् तेषामव्यापकत्वेन, तदसंभवादिति | अर्थपञ्चकं पाश इति | अर्थानां मलकर्मसूक्ष्मस्थूलमाया- पाशानुग्राहकशिवशक्तीनां पञ्चकमर्थपञ्चकम्, तत्पाशाख्यं तत्त्वमिति | तदुक्तम्- मलं कर्म च माया च मायोत्थमखिलं जगत् | तिरोधानकरी शक्तिरर्थपञ्चकमुच्यते || इति | नन्वर्थपञ्चकं पाश इतीह प्रतिपादितम्, शास्त्रान्तरे तु पाशानां त्रैविध्यमुक्तमिति विरोधः | तथा हि शैवरहस्ये तावत्- सहजमनादि मलं स्यात् पाशेषु त्रिष्वपि प्रधानतमम् | कर्म च माया च मले सति पाशतया प्रवर्तेते || इति | प्रयोगमञ्जर्यां च- पाशास्त्रयो निगलयन्ति इति | नैवम्, ईश्वरशक्तेः पाशानुग्राहितयैव पाशत्वाभिधानान्मायापाशस्य स्थूल-सूक्ष्मात्मना द्वैविध्येन च पञ्चधा भेदाभिधानादिति | अध्वपञ्चकं पाश इति केचित् पठन्ति | तदाध्वनां षण्णां तत्त्ववर्णमन्त्रभुवनपदकलानां पञ्चकमध्वपञ्चकं पाश इति | तदुक्तं सिद्धान्तहृदये- शिवः पशुपतिः प्रोक्तः पशवो ह्यणवो मताः | ते पाशबद्धाः पशवः पाशः स्यादध्वपञ्चकम् || अध्वानस्तत्त्वभुवनकलार्णपदमन्त्रकाः | यैरमी पुरुषा बद्धाः संसरन्ति भवाद् भवम् || मलादिजाः षडध्वानस्तत्त्वाद्यास्ते च पञ्चधा | निवृत्त्यादिविभागेन तदुक्तं ह्यध्वपञ्चकम् || इति | गुरुदेवपद्धतौ च- अथाध्वनां क्रमादेषां व्याप्तिः सम्यङ् निगद्यते | पृथ्वीतत्त्वं क्षवर्णश्च मन्त्रौ हृदयसद्यकौ || कालाग्निरपि कुष्माण्डहाटकौ ब्रह्मवैष्णवे | रौद्रं च भुवनान्यन्तर्ब्रह्माण्डस्य भवन्ति षट् || अण्डाद् बहिः शतं रुद्रा दशदिक्षु व्यवस्थिताः | कपालीशो ह्यजो बुद्धो वज्रदेहः प्रमर्दनः || विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः | प्राच्यां दिशि | अग्नी रुद्रो हुताशश्च पिङ्गलः खादको हरः | ज्वलनो दहनो बभ्रुर्भस्मान्तश्च क्षयात्मकः || आग्नेययां दिशि | यमो मृत्युर्हरो धाता विधाता च तथापरः | कर्ता चैव च संयोक्ता नियोक्ता धर्म एव च || तद्वद् धर्मपतिस्तत्र दशमो दक्षिणे स्थिताः | निरृतिर्मारणो हन्ता क्रूरदृष्टिर्भयानकः | ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रिणः || नैरृत्याम् | बलो ह्यतिबलश्चैव पाशहस्तो महाबलः | श्वेतोऽथ जयभद्रश्च दीर्घहस्तो बलान्तकः || वारुण्यां मेघनादश्च सुनादश्च प्रकीर्तितः | शीघ्रो वायुर्वायुवेगः सूक्ष्मस्तीक्ष्णः क्षयान्तकः || पञ्चान्तकः पञ्चशिखः कपर्दी मेघवाहनः | वायव्याम् | निधीशो रूपवान् धन्यः सौम्यदेहो जटाधरः || लक्ष्मीधरो रत्नधरः श्रीधरश्च प्रसाधनः | प्रकामो दशमश्चेति कौबेर्यां दिशि संस्थिताः || विद्याधिपेशसर्वज्ञा ज्ञानभुग् वेदपारगः | सुरेशशर्वज्येष्ठाश्च भूतपालो बलिप्रियः || ऐशान्याम् | विषो विषधरोऽनन्तः क्रोधनो मारुताशनः | न्यग्रोधोदुम्बरीशश्च फणीन्द्रो वज्रदंष्ट्रिणौ || अधोभागे | शम्भुर्विभुर्गणाध्यक्षस्त्रियक्षस्त्रिदशेश्वरः | संवाहश्च विवाहश्च नभोलिप्सुस्त्रिलोचनः || तेषामुपरि रुद्राणां वीरभद्रो व्यवस्थितः | भद्रकाल्याश्च भुवनमेवमष्टाधिकं शतम् || भुवनानि क्रमोक्तानि रुद्राणां स्वाख्यया पृथक् | मन्त्रावसानिकपन्दान्महादेवपदावधि || विलोमतः पदानि स्युरष्टाविंशतिसंख्यया | इत्यध्वपञ्चकं षष्ठ्या निवृत्तिकलया समम् || व्याप्तं संचिन्तनीयं स्यादध्वषट्कं विभागतः | आपोऽग्निर्वायुराकाशो गन्धश्च रसरूपके || स्पर्शः शब्दश्च वाक्पाणी पादपायुभगानि च | श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणश्चेतीन्द्रियाणि च || मनोऽहङ्कारबुद्ध्यन्तमन्तःकरणकत्रयम् | सर्वेषां त्रिगुणाऽथ स्यात् प्रकृतिः कारणं परा || त्रयोविंशतितत्त्वानि विलोमादिति संख्यया | हादिटान्तास्ततो वर्णास्त्रयोविंशतिसंख्यकाः || शिरश्च वामदेवाख्यो मन्त्रौ तद्वत् पुराणि तु | षट्पञ्चाशत् क्रमेण स्युरमरेशादिनामभिः || अमरेशं प्रभासं च नैमिषं पुष्कराषढी | डिण्डिमुण्डिर्भारभूतिरित्यष्टावम्बुतत्त्वके || हरिश्चन्द्रश्च श्रीशैलो जल्पीशाम्रातकेश्वरौ | मध्यमेशो महाकालः केदारो भैरवस्तथा || भुवनाष्टकमित्येतत् तेजस्तत्त्वे व्यवस्थितम् | गया चैव कुरुक्षेत्रं नोखलं कनखलं तथा || विमलेशोऽट्टहासश्च महेन्द्रं भीमकेश्वरम् | इत्यष्टौ भुवनानि स्युर्वायुतत्त्वगतानि तु || वस्त्रापदो रुद्रकोटिरविमुक्तो महालयः | गोकर्णो भद्रकर्णश्च स्वर्णाक्षः स्थाणुरित्यपि || भुवनाष्टकमाकाशसंज्ञतत्त्वे व्यवस्थितम् | छगलण्डो द्विरण्डश्च मार्को गोमण्डलेश्वरः || कालञ्जरं दारुवनं शङ्कुकर्णं स्थलेश्वरम् | प्रारभ्य गन्धतन्मात्रमहङ्कारान्तमध्वनि || स्थितानि भुवनान्यष्टावेतानि तु यथाक्रमम् | पैशाचं राक्षसं याक्षं गान्धर्वं चैन्द्रसोम्यके || प्राजेशं ब्राह्ममित्येतद् देवयोन्यष्टकं धियि | अकृतं च कृतं चैव भैरवं ब्राह्मवैष्णवे || कौमारमौमं श्रीकण्ठमिति योन्यष्टकं स्मृतम् | गुणप्रकृतितत्त्वे तु स्थिरमेतत् तु भौवनम् || अष्टकैः सप्तभिस्त्वेवं षट्पञ्चाशद् यथाक्रमम् | भुवनानि स्थितान्येवं पदान्यप्येकविंशतिः || महेश्वराख्यात् प्रारभ्य स्यादरूपिन्पदावधि | एवं पञ्चविधाध्वा स्यात् प्रतिष्ठाकलया समम् || षष्ठ्या व्याप्तं विचिन्त्यं स्यात् षोढाध्वव्याप्तिरीदृशी | अथ विद्याकलायां तु पुरुषो राग एव च || अशुद्धविद्या च कला नियतिः काल एव च | माया च सप्त तत्त्वानि वर्णसप्तकसंयुतम् || ञकारादि घकारान्तं शिखाघोरौ च मन्त्रकौ | वामादिभुवनानि स्युः सप्तविंशतिसंख्यया || वामो भीमस्तथैवोग्रो भवश्चेशान एव च | एकवीरश्च पुरुषः षडेते भुवनेश्वराः || प्रचण्डोमापतिश्चाजो ह्यनन्तश्चैकरुद्रकः | रागतत्त्वे स्थितं त्वेतद् भुवनानां तु पञ्चकम् || क्रोधचण्डावशुद्धायां विद्यायां तु व्यवस्थितौ | नियत्यां ज्योतिसंवर्तौ ततः सूकरसंज्ञितः || पञ्चान्तकैकवीरौ च शिवदश्च कलागताः | महादेवो वामदेव उद्भवश्चैकपिङ्गलः || एकनेत्रस्तथेशानो भुवनेशस्ततः परः | अङ्गुष्ठमात्र इति चाप्यष्टावेते स्थलेश्वराः || कालतत्त्वे च मायायां भौवनी सप्तविंशतिः | व्यापिन्निति समारभ्य ध्यानाहारपदावधि || पदानां विंशतिश्चात्र स्याद् विद्याकलयाऽखिलम् | व्याप्तं सञ्चिन्तयेदेवं षड्विधाध्वव्यवस्थितिः || अथ शान्तिकलायां स्याच्छुद्धविद्येश्वरावधि | सदाशिवश्च तत्त्वानि त्रीणि तस्यां स्थितानि हि || वर्णास्त्रयः स्युर्गखका मन्त्रौ कवचपूरुषौ | अष्टादशैव भुवनान्यत्र वामादिसंज्ञया || वामा ज्येष्ठा च रौद्री च काली कलविकारिणी | बलविकरणी चैव बलप्रमथिनी तथा || सर्वभूतदमन्येका नवमी तु मनोन्मनी | शुद्धविद्याह्वये तत्त्वे स्थितान्येवमनुक्रमात् || अनन्तेशश्च सूक्ष्मश्च ततश्चापि शिवोत्तमः | एकनेत्रश्चैकरुद्रस्त्रिमूर्तिस्तु तथाऽपरः || श्रीकण्ठश्च शिखण्डी च भुवनानीश्वराह्वयम् | सदाशिवाख्यं भुवनं स्थितं तत्त्वे सदाशिवे || पदान्येकादशाऽत्रैव नित्ययोगिन आदितः | व्योमव्यापिपदान्तानि स्थितान्येवं तु पञ्चधा || षष्ठ्या तु शान्तिकलया व्याप्तान्येवं विचक्षणैः | षड्विधाध्वमयी व्याप्तिर्बोद्धव्या क्रमशो भवेत् || तथैव शान्त्यतीतायां शिवतत्त्वं व्यवस्थितम् | वर्णाः षोडश सर्गाद्याः स्वराः स्युस्ते विलोमतः || अस्त्रेशानौ तथा मूलमन्त्रा मन्त्रा भवन्ति हि | निवृत्त्यादीनि भुवनान्यत्र पञ्चदशैव हि || निवृत्तिश्च प्रतिष्ठा च विद्या शान्तिस्तथैव च | शान्त्यतीतेति हि कलाः स्युर्बिन्दौ भुवनानि हि || इन्धिका दीपिका रोचिर्मोचिका चोर्ध्वगा तथा | भुवनानीति पञ्च स्युस्तानि नादकलाः खलु || व्यापिनी व्योमरूपा चाप्यनन्ता चाप्यनाथया | अनाश्रिता चेति कलाः शक्ताः स्युर्भुवनान्यपि || मन्त्राद्यं प्रणवं यत् तद् विलोमेनान्तकं तु तत् | पदमेकं भवेदेवमध्वायं पञ्चधोदितः || शान्त्यतीतकलाव्याप्तं विद्यादित्यध्वनां क्रमात् | षड्विधा व्याप्तिरुद्दिष्टा शैवागमविनिर्णयात् || षडध्वज्ञानवान् मुच्येन्मोचयेच्च भवार्णवात् | एकत्राध्वा षड्विधैकादश स्यु- र्मन्त्रास्त्वेकं चाप्यशीतिः पदानि | षड्त्रिंशच्चाप्यत्र तत्त्वानि वर्णाः पञ्चाशत् स्युः पञ्चसंख्या कलेति || अथ पदोद्धारः- प्राक्पदं प्रणवं तत् स्यादेकवर्णं शिवात्मकम् | व्योमव्यापि चतुर्थ्यन्तं द्वितीयं पञ्चवर्णकम् || तृतीयं व्योमरूपाय पञ्चार्णमपरं तथा | सर्वव्यापि चतुर्थ्यन्तं शिवायेत्यथ पञ्चमम् || त्र्यक्षरं च विजानीयात् पञ्चाङ्गानि शिवस्य तु | अनन्तायेत्यनन्तस्य वाचकं चतुरक्षरम् || अनाथायेति सूक्ष्मस्य पदं स्याच्चतुरक्षरम् | अनाश्रिताय पञ्चार्णं पदं शिवतमस्य तु || ध्रुवायेति पदं त्र्यर्णमेकनेत्रस्य कीर्तितम् | शाश्वतायैकरुद्रस्य पदं स्याच्चतुरक्षरम् || योगपीठसंस्थिताय चाष्टार्णं तु त्रिमूर्तिनः | श्रीकण्ठस्य पदं नित्ययोगिने पञ्चवर्णकम् || ध्यानाहाराय पञ्चार्णं पदमेतच्छिखण्डिनः | नमः शिवायेति पदं षड्वर्णं प्रणवादिकम् || सर्वप्रभुश्चतुर्थ्यन्तं पञ्चार्णं पदसन्ततौ | शिवाय पदमन्यच्च चतुर्थ्यन्तं त्रिवर्णकम् || पदमीशानमूर्धाय षड्वर्णं मुनिसत्तम | तदीशानस्य बोद्धव्यं सप्तार्णं पुरुषस्य तु || स्यात् तत्पुरुषवक्त्राय अघोरहृदयाय च | सप्तार्णं बहुरूपस्य तद्वद् वामस्य कीर्तितम् || स्याद् वामदेवगुह्याय सद्यस्याप्यथ कथ्यते | सद्योजातमूर्तयेति सप्तवर्णमुदीरितम् || प्रणवादि प्रयोक्तव्यं पञ्चार्णं च नमो नमः | गुह्यातिगुह्याय पदं षड्वर्णं द्व्यर्णकं परम् || गोप्त्रेपदं चतुर्वर्णं मातङ्गे निधनाय तत् | अकारपूर्वं पञ्चार्णं चन्द्रज्ञाने प्रकीर्तितम् || सर्वविद्याधिपायेति पदं स्यात् सप्तवर्णकम् | सर्वयोगाधिपूर्वं तु गतायेत्यष्टवर्णकम् || ज्योतीरूपाय पञ्चार्णं पदमेतत् सुशोभनम् | परमेश्वरपूर्वं तु परायेत्यष्टवर्णकम् || अचेतनाचेतनेति सप्तवर्णं पदं विदुः | व्योमिन्व्योमिंश्चतुर्वर्णं व्यापिन्व्यापिंस्तथा पदम् || अरूपिंश्च द्विरभ्यस्य षड्वर्णं पदमीरितम् | प्रथमेति द्विरभ्यस्तं षड्वर्णमपरं तथा || तेजस्तेन इति प्रोक्तं चतुर्वर्णं पदं विभोः | ज्योतिर्ज्योतिः पदं तद्वद् विज्ञेयं चतुरक्षरम् || त्र्यर्णं पदमरूपाख्यं तथानग्नेपदं शुभम् | त्रिवर्णं स्यादधूमाख्यमभस्माख्यं तथा पदम् || अनादे त्र्यर्णमुद्दिष्टं नात्रयं धूत्रयं तथा | ओंभूस्तद् द्व्यक्षरं ज्ञेयमोंभुवश्च त्रियक्षरम् || ओं स्वो वर्णद्वयं चानिधनाख्यं चतुरक्षरम् | निधनाख्यं त्रिवर्णं स्यात् पञ्चार्णं निधनोद्भवम् || द्व्यक्षरं स्याच्छिवपदं द्व्यर्णं शर्वपदं विभोः | परमात्मंश्चतुर्वणं महेश्वरपदं तथा || चतुर्वणं समुद्दिष्टं महादेवपदं हि यत् | सद्भावेश्वरसंज्ञं तु पञ्चार्णं मुनिसत्तम || महातेज इति प्रोक्तं पदं वर्णचतुष्टयम् | पदं पञ्चार्णमुद्दिष्टं योगाधिपतिसंज्ञकम् || मुञ्च मुञ्च चतुर्वर्णं षड्वर्णं प्रमथात्मकम् | शर्वशर्वपदं चात्र बोद्धव्यं चतुरक्षरम् || भवयुग्मं तथा तद्वद् भवोद्भवपदं पुनः | पदमष्टाक्षरं चान्यत् सर्वभूतसुखप्रदम् || सर्वसान्निध्यपूर्वं तु करान्तं सप्तवर्णकम् | पदमष्टाक्षरं ब्रह्मविष्णुरुद्रपरम्परम् || अनर्चितं द्विरभ्यस्तमष्टार्णे पदमुच्यते | असंस्कृतपदं तद्वत् पूर्वस्थितपदं तथा || साक्षिंस्तु रूपदे तद्वच्चतुर्वर्णं द्विरुक्तितः | षट् पतङ्गपदे वर्णाश्चत्वारः पिङ्गसंज्ञके || तद्वज्ज्ञानपदं शब्दसूक्ष्माख्ये चतुरक्षरे | द्व्यक्षरं स्याच्छिवपदं तथा शर्वपदं विभोः || त्र्यक्षरं सर्वदपदं प्रणवादि नमो नमः | पञ्चवर्णं शिवायेति त्रियक्षरमुदीरितम् || नतियुग्मं पञ्चवर्णं सतारं पदमुत्तमम् || इति || ५ || वृत्तिः तान्येव प्रकाशान्युद्दिशति- शैवागमेष्विति | पदार्थानामिति शेषः | तदुक्तं तन्त्रलक्षणे- त्रिपदार्थं चतुष्पादं महातन्त्रम् (मृ० वि० २|२) इति | अतश्च तेष्वेवान्येषां वस्तूनामन्तर्भाव इति लक्षणेन दर्शयति- तत्र पतिरिति | तत्र तेषु त्रिपदार्थेषु मध्ये पतिपदार्थः शिव इत्युक्तः | शिवशब्देनात्र जात्येकवचनेन शिवत्वयोगिनां मन्त्रमन्त्रश्वरमन्त्रमहेश्वरमु- क्तात्मशक्तिशिवानां सवाचकानां शिवत्वप्राप्तिसाधनेन दीक्षादिनोपायकलापेन सह पतिपदार्-थे संग्रहः कथ्यते | अणवश्चात्मानः प्रेर्याः | अनेन च पशुत्व-योगिनां विज्ञानकलादिभेदभिन्नानां बद्धात्मनां पशुपदा-र्थत्वमुच्यते | अर्थपञ्चकमित्यनेन मलरोधशक्तिकर्ममायाबिन्द-वः प्रोच्यन्ते | ततस्तेषां पञ्चानां बिन्दुमायोद्भूतैः शुद्धा-शुद्धरूपैस्तत्त्वभुवनभूतभावैः सह पाशपदार्थे संग्र-हः | ननु कथमेकस्या एव शिवशक्तेः पतिपदार्थे पाशपदार्थे च संग्रह उच्यते ? सत्यम्, परमार्थतः पतिपदार्थ एव शक्तेरन्तर्-भावः | पाशत्वं तु तस्याः पाशधर्मानुवर्तनेनोपचारात् | तदुक्तं श्रीमन्मृगेन्द्रे- तासां माहेश्वरी शक्तिः सर्वानुग्राहि-का शिवा | धर्मानुवर्तनादेव पाश इत्युपचर्यते || (वि० ७|११) इति || ५ || मुक्तात्मानोऽपि शिवाः किन्त्वेते तत्प्रसादतो मुक्ताः | सोऽनादिमुक्त एको विज्ञेयः पञ्चमन्त्रतनुः || ६ || तात्पर्यदीपिका ननु पशूनां शिवस्वभावतया पतिव्यतिरेकासम्भवात् (तत्तद् ? कथं तद्) द्वैविध्यप्रसङ्ग इत्याशङ्क्याह- मुक्तेति | अयमभिप्रायः- मुक्तात्मनामेव शिवस्वभावत्वम् | किन्तु तेषामपि मुक्तेः प्राग् न शिवात्मता, ताम्रादेः स्वर्णस्वभावा- च्छादककालिमाकल्पमलादिपाशप्रच्छादितशिवस्वभावतया पशु-त्वात् | अत एव ते तत्प्रसादतो मुक्ताः | स शिवस्त्वनादिमुक्तः | एक इति | एक एव नित्यमुक्त इत्यर्थः, कालत्रयेऽपि मलादिसम्बन्धरहितत्वात् | तदुक्तं श्रीवायवीये- अनादिमलसंश्लेषप्रागभावात् स्वभावतः | अत्यन्तपरिशुद्धात्मेत्यतोऽयं शिव उच्यते || इति | (शि० वा० १|३२|२९) पञ्चमन्त्रतनुरिति | नादबिन्दुपदवर्णवाक्यात्मना पञ्चात्-मकसकलमन्त्रशरीर इत्यर्थः | मन्त्रस्वरूप इति वा | तस्योष्णिग्लोमा-नि त्वग् गायत्री त्रिष्टुम्मांसमनुष्टुप् स्नायुरस्थि जगती पङ्क्तिर्मज्-जा प्राणो बृहती (ऐ० उ० १|६|१) इत्यादिश्रुतेर्वैदिकादिमन्त्राणां धातुमयत्वप्रतिपादनाच्छिवस्य मन्त्रशरीरत्वावगमः | अथवा प्रणववेदचतुष्कात्मना पञ्चात्मकमन्त्रतनुरिति | तदुक्तं लैङ्गादौ- ओङ्काररूपमृग्वक्त्रं सामजिह्वासमन्वितम् | यजुर्वेदमहाग्रीवमथर्वोष्ठमजं विभुम् || (१|१|३०-२१) इति | बीजबिन्दुनादशक्तिशान्तात्मना पञ्चात्मकप्रणवतनुरिति वा, ओमिति ब्रह्म, ओमित्यथो योऽसौ तपति इत्यादिश्रुतेः | पञ्चाक्षरतनुरिति वा, निवृत्त्यादिपञ्चतत्त्वतनुरिति वा, पञ्चब्रह्मतनुरिति वा | तदुक्तं लिङ्गोद्भवे- अथ (आद्यं श्लोकद्वयं लिङ्गपुराणे (१|१७|८९-९०) दृश्यते |) दृष्ट्वा कलावर्णमृग्यजुस्सामरूपिणम् | ईशानमीशमकुटं पुरुषाख्यं पुरातनम् || अघोरहृदयं हृद्यं वामगुह्यं सदाशिवम् | सद्यःपादं महादेवं महायोगीन्द्रभूषणम् || निष्कलं सूक्ष्ममव्यक्तं सकलं च महेश्वरम् | सर्गप्रतिष्ठासंहारलीलार्थं लिङ्गरूपिणम् || प्रधानं लिङ्गमाख्यातं लिङ्गी च परमेश्वरः | इत्यादि | पारमेश्वरे च- पञ्चमन्त्रतनुः श्रीमान् सकलः परिपठ्यते |..... योगयोगीश्वरः स्वामी स्वतन्त्रः पशुपाशहा || (वि० ३|१८, १९) ईशानमूर्धा पुंवक्त्रो ह्यघोरहृदयः प्रभुः | उच्यते वामगुह्योऽयं सद्योमूर्तिर्महेश्वरः || एवं मन्त्रास्तु पञ्चैते यैर्निबद्धा तनुः शिवा | इत्यादि | (वि० ४|१४-१५, ३०) तस्मादेवं विज्ञेयं विशेषेण भेदेन पशुभ्यो ज्ञेयः शिव इति | न च परमेश्वरवाचकस्य वेदमन्त्रादेर्वाच्याद् भेदसद्भावेन तस्य वेदमयत्वाभाव इति वाच्यम्, तयोर्भेदे वाच्यवाचकनियमा-भावप्रसङ्गात् | न च सम्बन्धात् तन्नियमः, सम्बन्धस्य सम्बन्-धान्तराश्रयणादनवस्थादिदोषस्योक्तत्वात् | न च वाचकत्वशक्तिर्नि- यामिकेति वाच्यम्, तस्याश्च वाच्याद् भेदसद्भावेऽन्यशक्तिवदनिया-मकत्वात् | शक्तेर्वाच्यासाधारण्यमप्यभेदव्यतिरिक्तं न संभवतीति वाच्यवाचकयोरेवाभेदोऽभ्युपगन्तव्यः, किमनया शक्तिकल्पनया | न च वाच्यवाचकभावस्य भिन्ननिष्ठतया तयोर-भेदोऽसंभव इति वाच्यम्, गुणगुणिभेदवद् भेदस्याप्यत्र सद्भावात् | न च भेदाभेदयोर्विधिप्रतिषेधरूपत्वेन विरोधादेक- त्रासम्भवः, वाच्यवाचकभावान्यथानुपपत्तिप्रमाणसिद्धत्वात् | तथा घटोऽयं पटोऽयं शब्दोऽयमिति वाचकसंपृक्तार्थप्रति-भासाद् घटशब्दोऽयमित्यसंपृक्तशब्दप्रतिभासाच्च शब्दार्थ-योरैक्यमाश्रयणीयम् | अत एव तत्त्वादिवाचकमन्त्रविन्यासात् तत्त्वादिसान्निध्यमिति सर्वमवदातम् || ६ || वृत्तिः अस्तु तर्हि मुक्तानां पाशसंसर्गरहितत्वाच्छिवत्वम्, विद्येश्व-रादीनां तु बैन्दवशरीरयोगेऽपि कथं पशुत्वाभावोऽत आह- मुक्तात्मेति | मुक्तात्मानः संप्राप्तशिवसाम्याः | अपिशब्दाद् विद्येश्वरा-दयश्च शिवा एव, पशुत्वाख्येन मलेन विरहात् | तद्योगिनां हि पशुत्-वम्, पशुः पशुत्वसंयोगात् इति श्रुतेः | अत एषां शिवत्वेन सर्वज्ञ-त्वादिना योगात् शिवत्वमेव | बैन्दवशरीरयोगस्तु अधिकारमलां-शावशेषतोऽधिकारनिबन्धन एव | अत एव मायोत्तीर्णत्वाद् मलरहित-त्वाच्च विद्याविद्येश्वरप्राप्तेरपरमुक्तित्वम् | कथं पुनर्मन्त्रेश्व-राणां कलादियोगेऽपि शिवत्वम्, साक्षात् शिवानुगृहीतत्वेन सर्वज्ञ-त्वादिना योगान्मलरहितत्वाच्च | कलादीनां योगस्तु मायागर्भाधि-कारमलांशावशेषतोऽधिकारनिबन्धनत्वेन, तेषामावश्यकत्-वाच्च | यदुक्तम्- कलायोगेऽपि नो वश्याः कलानां पशुसंघवत् (मो० का० ८२) इति | यद्येवं शिवत्वे समानेऽपि मुक्तात्मादिभ्योऽस्य परमेश्वरस्य को विशेषोऽत आह- किन्त्वेते तत्प्रसादतो मुक्ता इति | एते पूर्वोक्ता विद्येश्वरादयः, तस्य परमेश्वरस्य प्रसादतः | सोऽना-दिमुक्त इति | अनादिमुक्तः स्वभावसिद्धनित्यनिर्मलनिरतिशयार्थ-ज्ञानक्रियाशक्तियुक्त इत्यर्थः | ननु ईश्वरस्यापि पञ्चवक्त्रः त्रिपञ्चदृक् इत्यादिनाऽऽगमेषु शरीरेन्द्रिययोगः श्रूयत इत्यत आह- पञ्चमन्त्रतनुः | अयमभिप्रायः- ध्यानार्थमेवेश्वरस्य पञ्चवक्त्राद्याकारः श्रूयते, निराकारे ध्यानपूजाद्ययोगात् | यदाहुः- आकारवांस्त्वं नियमादुपास्यो न वस्त्वनाकारमुपैति बुद्धिः इति | श्रीमत्पौष्करेऽपि- साधकस्य तु लक्ष्यार्थं तस्य रूपमुदाहृतम् इति | श्रीमन्मृगेन्द्रेऽपि- वपुषोऽविद्यमानत्वाद् यद् यत् कृत्यं करोति सः | तत्र तत्रास्य तत्कर्तृवपुषाऽनुकृतं वपुः || (मृ० क्रि० ३|४१) इति | अतः पञ्चमन्त्रात्मिकाः पञ्चकृत्योपयोगिन्य ईशानाद्याः शक्तय एव शरीरकार्य कुर्वाणास्तनुरित्युपचाराद्-उच्यन्ते | तदुक्तम्- तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः | ईशतत्पुरुषाघोरवामाजैर्मस्तकादिकम् || (मृ० वि० ३|८-९) इति || ६ || पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहृतितिरोभावाः | तद्वदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य || ७ || तात्पर्यदीपिका ननु पतिसद्भावे प्रामाणाभावात् तत्त्वत्रैविध्यासंभव इत्याशङ्क्याह- पञ्चेति | अयमर्थः- सर्गस्थितिसंहारतिरोभावानुग्रहात्मना पञ्चविधं पञ्चप्रकारं तत्कृत्यं महेश्वरकार्यं तस्मिन् प्रमाणम्, तस्यैव कर्तुं शक्यत्वादिति | न चान्यो जीवो माया वा जगत्सृष्ट्यादिकं कर्तुं शक्नोति, पशोरुपादानोपकरणविनियोग- क्रमज्ञानाभावात्, मायायाश्चाचेतनतया तदसम्भवादिति | स सर्गः पञ्चविधः, भावतत्त्वभुवनभूतप्रत्ययात्मसृज्यस्य पञ्चविधत्वात् | तदुक्तं शैवरहस्ये- भोगेन परिणमयितुं कर्माणि घृणानिधिः पतिः सृजति | भावं तत्त्वं भुवनं भूतं प्रात्ययिकमपि सर्गम् || इति | विस्तरत उपरिष्टादुपपाद्यते | स्थितिः पालनम् | संहृतिर्विना-शः, स्वेषु स्वेष्वसाधारणकारणेषु कार्यस्य लयः, सूक्ष्मरूपेणावस्थानमिति यावत् | आत्मनां पाशैः प्रच्छादनं तिरोभावः | अनुग्रहकरणं मोक्षादि | ननु विरुद्धमिदमुक्तं पाशैरात्मप्रच्छादनद्वारेण संसारहेतुत्वम्, आत्मप्रच्छादनमलादिपाशनिरसनेनापवर्ग-प्रदानं चेति चेत्, नैवम्, विषयभेदेनानयोरविरोधात् | येषां साधनचतुष्टयसंपत्तिः, तान् प्रत्यनुग्रहकरणम् | येषां तन्नास्ति, तान् प्रति संसारहेतुत्वमिति | प्रोक्तं सततोदितस्यास्येति | कर्त्रा विना कार्योत्पत्त्यसंभवाद् अन्यस्य कर्तृत्वासम्भवाच्चास्य महेश्वरस्य सततोदितस्य स्वयंप्रकाशचैतन्यमात्रस्य परिपूर्ण-स्य निर्व्यापारस्योदासीनस्यापि साक्षिणः परमेश्वरस्य सृष्ट्यादिषु कर्तृत्वं प्रोक्तम्, अभिहितमित्यर्थः | तदुक्तम्- यथा ह्यविक्रियो वह्निर्जलतण्डुलविक्रियाम् | तथा करोत्युदासीनः शम्भुर्मायादिविक्रियाम् || इति || ७ || वृत्तिः अत एवाह- पञ्चविधमिति | एतत्कृत्यपञ्चकं शुद्धाध्वविषये साक्षाच्छिवकर्तृकम्, अशुद्धाध्वविषये त्वनन्तादिद्वारेणेत्युक्तम् | तथा श्रीमत्किरणे- शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽसिते प्रभुः (वि० ३|२७) इति | तत्र शिवस्य साक्षात् सृष्टिर्बिन्द्वात्मकादुपादानाच्छुद्धतत्त्वभुवनाद्युत्पादन-पूर्वकं तद्भु?वनवासिनां विद्याविद्येश्वराणां च बैन्दवशरीरयोजनम्, नादादिक्रमेण विद्योत्पादनं च | अनन्तादि- द्वारा तु मायाद्युपादानादशुद्धतत्त्वभुवनाद्युत्पादन-पूर्वकं पशुसंघानां सूक्ष्मेण तात्त्विकशरीरेण स्वकर्मानुगुणभौवनशरीरेण च योजनम्, मन्त्रेश्वराणाम्- अधिकारनिबन्धशरीरोत्पादनं च | स्थितिः स्वशक्त्या निरुद्धस्य सर्वस्य जगतः स्वविषयेऽवस्थापनम् | संहृतिस्तु शुद्धाशुद्धयोः कार्यवर्गयोर्बिन्दुमाययोरुपसंहारः | तिरोभावश्च पाशानुग्रहणेनात्मनां यथानुगुणभोगभोजनम् | अनुग्रहोऽपि पाशतिरोधानेनात्मनां परापरमोक्षदानमिति | ननु- सृष्टिसंरक्षणादानभावानुग्रहकारिणः (१|१५) इति श्रीमद्रौरवादिश्रुतेर्विद्याविद्येशानामपि पञ्चकृत्याधिकारित्वात् कथं सततोदितस्यास्येति नियमः ? उच्यते- तेषामपि शिवप्रेरणयैव पञ्चविधकृत्यकर्तृत्वात् तथोक्तमित्यविरोधः || ७ || पशवस्त्रिविधा ज्ञेया विज्ञानप्रलयकेवलौ सकलः | मलयुक्तस्तत्राद्यो मलकर्मयुतो द्वितीयः स्यात् || ८ || तात्पर्यदीपिका एवमुद्देशक्रमेण पतितत्त्वस्य लक्षणं परीक्षां च कृत्वाऽनन्तरप्राप्तपशुतत्त्वनिर्णयार्थमाह- पशव इत्यादि | पाशाः कथ्यन्ते, तैर्ये बद्धास्ते पशव इति | अथ शरीरादिव्यतिरिक्तस्येहलोकपरलोकसंचारिणः संसार्यात्मनः पशोः सद्भावे प्रमाणाभावादाश्रयासिद्धमिदं पशुलक्षणमिति चेत्, नैवम्, शरीरव्यतिरिक्तस्य नित्यस्यात्मनो जातिस्मृत्यादिभिः प्रमाणैः सद्भावावगमात् | तथा हि पूर्वजन्मनि निहितं निध्यादिकमपरस्मिन् जन्मनि मयेदमत्र निहितं पूर्वमित्युपादीयमानमुपलभ्यते | अतो देहातिरिक्तस्यैकस्य नित्यस्य निधिविन्यासकर्तुः पशोः सद्भावः, अन्यथा तदुपादानासम्भवात् | न चान्यनिहितमन्येनोपादीयत इति वाच्यम्, अन्यानुभूतेऽन्यस्य स्मरणासम्भवेन तत्पूर्वकोपादा-नासम्भवात् | न चासौ भ्रान्तिमूलेति वाच्यम्, बाधकाभावात्, प्रत्यक्षतस्तदुपलम्भेन संवादतः प्रामाण्यसिद्धेश्चेति | तथा योनिमन्ये प्रपद्यन्ते (क० उ० ५|७) इत्याद्यागमाच्च पूर्वशरीरपरित्-यागेन शरीरान्तरप्राप्तेरुपलम्भात् शरीरव्यतिरिक्तात्मसिद्धिः | न च प्राण आत्मा, वायुरूपत्वाद् बाह्यवायुवत्, मम प्राणा इति प्राणात्मनोर्मम वस्त्रमितिवद् भेदोपलम्-भाच्च | आर्हतैकदेशीयोक्तमिन्द्रियात्मत्वं तत्तदिन्द्रियानुभूतार्-थेषु तत्तदिन्द्रियविनाशेऽपि स्मृतिदर्शनात् प्रत्यस्तम्, अन्यानुभूतेऽ-न्यस्य स्मरणासंभवात् | तथा नियतविषयग्राहकाणामिन्द्रि-याणामनियतविषयावगन्त्रात्मत्वासम्भवात् | तच्च योऽहं चक्षुषा रूपमन्वभवम्, सोऽहमिदानीं श्रोत्रेण शब्दमनुभवामीत्यनु- सन्धानसिद्धमिति | नापि मन आत्मा, करणत्वात् कुठारवत्, तथा परिमितत्वात् कार्यत्वाच्च घटादिवत् | तथात्मनि सिद्धे युगपदिन्द्रियार्-थेषु युगपज्ज्ञानानुत्पत्त्या मनसः पुनः सद्भावसिद्धेर्नात्मा मन इति | तथान्तःकरणवृत्तिरूपबुद्ध्यात्मत्वं बौद्धेः कल्पितं स्मरणासंभवप्रसङ्गेन निरसनीयम् | तथाहि- पूर्वबुद्ध्यनु-भूतेऽर्थे बुद्ध्यन्तरस्यान्यत्वेनानुभवाभावात् स्मरणासंभ-वः | न चाननुभूतेऽर्थे स्मृतिः संभवति, अनुपलम्भात् | न च सा बुद्धिरवतिष्ठत एवेति वाच्यम्, बुद्धेः प्रतिक्षणविनाशस्य सर्ववादिसम्मतत्वात् | एकसन्तानत्वेन वासनानुगमात् तदुपपत्तिरिति चेन्न, वासनासन्तानयोरपि क्षणिकत्वे पूर्वोक्तदोषापातात् | तथा तयोर्-ज्ञानादव्यतिरेकेण परिहारः | अक्षणिकत्वे व्यतिरेके च स्वसिद्धान्त-विरोधः | तदुक्तं न्यायविद्भिः- अथापि नित्यं परमार्थसन्तं सन्ताननामानमुपैषि भावम् | उत्तिष्ठ भिक्षो ! फलितास्तवाशाः सोऽयं समाप्तः क्षणभङ्गवादः || इति | विषयानन्द आत्मा, अनन्यार्थत्वाद् अत्यन्तप्रियबुद्धिविषयत्वा-च्चेति केचित् | तदपि विषयेन्द्रियमनोबुद्ध्यात्मसंबन्धेनोत्पद्यमा-नं बुद्धिकल्पमित्युपेक्षणीयमेवेति | तस्माद् बुद्धीन्द्रियशरीरेभ्यो व्यतिरिक्त आत्मा पाशबद्धत्वात् पशुरिति सिद्धम् | तदुक्तं श्रीवाय- वीये- बुद्धीन्द्रियशरीरेभ्यो व्यतिरिक्तो विभुर्ध्रुवः | अस्त्येव कल्पितात्मेति हेतुस्तत्र सुदुर्गमः || बुद्धीन्द्रियशरीराणां नात्मता सद्भिरिष्यते | स्मृतेरनियतज्ञानादयाद्देहवेदनात् || इत्यादि | (शि० पु० वा० १|५|४३-४४) तदेवं प्रतिपादितानां पशूनां विभागमाह- त्रिविधा ज्ञेया इति | त्रिप्रकारा ज्ञातव्या इत्यर्थः | कथमित्यत आह- विज्ञान-प्रलयाकलाः सकला इति | तेषां तेषां क्रमेण लक्षणमाह- मलयुक्तः मलपाशसंबद्धः | तत्र तेषां मध्ये | आद्यो विज्ञा-नकलः | मलकर्मयुतः मलकर्मात्मकपाशद्वय-सम्बद्धो द्वितीयः || ८ || वृत्तिः इत्थं पतिपदार्थभेदमुक्त्वा पशुपदार्थभेदमाह- पशव इति | तत्रेति तेषां मध्ये, आद्यः विज्ञानकेवलाख्यो वर्गः | विज्ञानयोगसंन्यासैर्भोगाद्वा कर्मणः क्षयात् (प० मो० का० ५५) इति कर्मक्षयतः कर्मभोगार्थस्य कलादिबन्धस्याप्यभावात् केवलं मलमात्रयुक्तः स्यात् | द्वितीयस्तु प्रलयकेवलाख्यो वर्गः प्रलये कलादेरुपसंहारात् मलकर्मयुक्तो भवति || ८ || मलमायाकर्मयुतः सकलस्तेषु द्विधा भवेदाद्यः | आद्यः समाप्तकलुषोऽसमाप्तकलुषो द्वितीयः स्यात् || ९ || तात्पर्यदीपिका सकल इति सकललक्षणपूर्वकं विज्ञानकलविभागमाह- मलेति | मलश्च माया च कर्म च मलमायाकर्माणि, तैर्युक्तः सम्बन्धः सकल इति | तेषु त्रिषु, आद्यो विज्ञानकलो द्विविधो भवति- समाप्तकलुषोऽसमाप्तकलुषश्चेति | तत्राद्यः प्रथमः, अणूनां प्रथमत्वात् | समाप्तकलुष इति | मलशक्तिः कालुष्यम्, तत् समाप्तं नष्टं यस्य स समाप्तकलुषः | असमाप्तकलुषो द्वितीयः | तेनासौ प्रच्छन्नज्ञानक्रियाशक्तिर्भवतीति || ९ || वृत्तिः सकलस्तु बन्धत्रययुक्तः | तत्र च मायायाः साक्षात् संबन्-धाभावाद् मायाशब्देन तत्कार्यभूताः कलादयः कथ्यन्ते | तद्युक्तत्वादेव चास्य सकलत्वम् | अतश्च विज्ञानादिना कर्मक्षयेऽपि किञ्चित्कालं संस्कारवशेन शरीरस्थितिः संभवतीति मलमायायु-क्तेऽपि सकलभेदः शास्त्रेषु श्रूयते | उक्तं च सांख्यैः- सम्यग्ज्ञानधिगमाद्धर्मादीनामकारणप्राप्तौ | तिष्ठति संस्कारवशाच्चक्रभ्रमिवद्धृतशरीरः || (सां० का० ६७) इति | किञ्च, तेष्विति | आद्यो विज्ञानकेवलः पुनर्द्विधा भिद्यते | कौ तौ भेदावित्यत आह- आद्य इति | मलस्य द्रव्यत्वे सति जडत्वाच्चक्षुषः पटलादेरिव पाकः संभवतीति | आद्यो विज्ञानकेवलः पक्वमलाप-क्वमलभेदेन द्विविधो भवतीति भावः || ९ || आद्याननुगृह्य शिवो विद्येशत्वे नियोजयत्यष्टौ | मन्त्रांश्च करोत्यपरान् ते चोक्ताः कोटयः सप्त || १० || तात्पर्यदीपिका ननु विज्ञानकलस्य द्विविधस्यापि मलपाशसम्बन्धसद्भा-वात् तन्निवृत्त्यात्मकं न शिवसायुज्यम्, नापि स्वर्गनरकमध्य-स्थानेषु देवादिभेदेनावस्थानम्, दीक्षया कर्मविनाशे सति श्रवणादिनाऽनात्मन्यात्मबुद्धिरपाकृताविद्याकृतमाया- सम्बन्धाभावात् | अतः कुत्रास्यावस्थानमित्याशङ्क्याह- आद्यानिति | आद्यान् समाप्तकलुषान् विज्ञानकलान् अनुहृह्य दीक्षा- पूर्वकश्रवणमननाभ्यां परोक्षज्ञानप्रदानात्मकमनु-ग्रहं कृत्वा | नापरोक्षज्ञानप्रदानात्मकम्, तस्य निदिध्यासन-मध्ये कर्मक्षयान्तरायनिपातेनोत्पातासंभवात् | विद्येशत्वे विद्येश्वरपदेशत्वे मुक्तिकल्पे नियोजयत्यष्टौ विज्ञानकलान् | इतरान् मन्त्रान् मन्त्रदेवतारूपान् करोति भगवान् शिव इति | तदुक्तं सिद्धान्तहृदये- विद्येश्वरान् करोत्यष्टावीशोऽन्यान् मनुदेवताः इति | कति मन्त्रा इत्याकाङ्क्षायामाह- ते चोक्ताः कोटयः सप्तेति | ते च महामन्त्राः सप्तकोटिसंख्यया संख्याता इति || १० || वृत्तिः तयोस्तु- आद्यानिति | आद्यान् पक्वमलान् पाकतारतम्यापेक्षया- ऽधिकारयोग्याननुगृह्य मलापोहनेन सर्वज्ञत्वादिना युक्तान् बैन्दवशरीरयोगिनश्च कृत्वा तेषु विशिष्टमलपाकवतोऽष्टौ विद्ये-शत्वे योजयति | अनन्त- सूक्ष्म- शिवोत्तम- एकनेत्र- एकरुद्र- त्रिमूर्ति- श्रीकण्ठशिखण्डिसंज्ञान् पञ्चकृत्याधिकारिणः शुद्धाध्वा- धिष्ठातॄनीश्वरतत्त्वनिवासिनश्च करोतीत्यर्थः | अपरांस्तु सप्तको-टिसंख्यातान् मन्त्राननुग्रहकारणभूतान् विद्यातत्त्वनिवासिनश्च करोतीत्यर्थः | तेषु चार्धं सकलविषये गुर्वधिकरणस्य शिवस्यानु-ग्रहकर्मणि करणत्वेन स्थित्वा महाप्रलये मोक्षं याति | अन्यत् त्वर्धं निरधिकरणस्य शिवस्य विज्ञानकलादिविषये मन्त्रेश्वर- मायागर्भाधिकारिविषये च करणत्वं प्राप्याधिकारवैराग्यात् सृष्ट्यनन्तरमेवापावृत्तं भवति | तदुक्तं श्रीमन्मृगेन्द्रे- प्रयोक्तृदेहसापेक्षं तदर्धमखिलेऽध्वनि | कृत्वाधिकारं स्थित्यन्ते शिवं विशति सेश्वरम् || विनाधिकरणेनान्यत् प्रधानविकृतेरधः | कृत्वाऽधिकारमीशेष्टमुपैति स्वाध्वसंहृतौ || (वि० ४|७८) इति | ते त्वत्रात्यन्तमलपाकवन्तोऽधिकारानपेक्षास्तान् परे पदे योजयति | ये त्वपक्वमलास्तेषां मलपाकान्तं विज्ञानकलत्वमेवेत्युक्तं श्रीमद्रौरवादौ || १० || प्रलयाकलेषु येषां पक्वे मलकर्मणी व्रजन्त्यन्ये | पुर्यष्टकदेहयुता योनिषु निखिलासु कर्मवशात् || ११ || स्यात् पुर्यष्टकमन्तःकरणं धीकर्मकरणानि | कांश्चिदनुहृह्य वितरति भुवनपतित्वं महेश्वरस्तेषाम् (श्रीकुमारव्याख्यायां श्लोकस्य पूर्वोत्तरार्धयोर्वैपरीत्यं दृश्यते |) || १२ || शेषा भवन्ति सकलाः कलादियोगादहर्मुखे काले | शतमष्टादश तेषां कुरुते स्वयमेव मन्त्रेशान् || १३ || तात्पर्यदीपिका इदानीं प्रलयाकलसकलयोः स्वरूपनिर्णयार्थं श्लोकत्रय-माह- प्रलयाकलेष्विति | अयमभिप्रायः- प्रकर्षेण लयं गतं कलादिधरान्ततत्त्वात्-मकं शरीरं येषां ते प्रलयाकलाः | प्रलयावस्थायां मलकर्ममात्रपाशसम्बद्धा आत्मान इति यावत् | तेषु येषां मलश्च कर्म च मलकर्मणी पक्वे परिपाकं गते, ज्ञानाग्निना साहचर्यात्, तेषां महेश्वरो भुवनपतित्वं वितरति | तेभ्यः प्रयच्छति, ददातीत्यर्थः | तेषां तेष्वपि कांश्चित् पक्वकर्मकाननुगृह्य गणेशान् करोति | कांश्चित् पक्वमलान् मन्त्रतन्त्रेश्वरान् करोति द्रष्टृत्वेनेति | कति मन्त्रेश्वरा इत्याकाङ्क्षायां शतमष्टादशेति | स्वयमेवेति | ब्रह्मादिसहायान्तरमनपेक्ष्यैवेति | तदुक्तं लैङ्गे- नाधिकान् न च हीनांस्तान् मानसानात्मनः समान् | सहस्रं हि सहस्राणामसृजत् कृत्तिवाससाम् || इत्यादि | एभ्योऽन्ये ये पक्वमलकर्माणः शेषाः शिष्टास्ते सकला भवन्ति, कलादितत्त्वयोगात् | अहर्मुखे काल इति | सृष्टिकाले सर्वमेतत् करोति भगवान् महेश्वर इति | पुर्यष्टकदेहयुतास्त एव निखिलासु योनिषु देवमनुष्यतिर्यगादिषु व्रजन्ति चरन्तीत्यर्थः | नन्वात्मनां व्यापकत्वादमूर्तत्वाच्च कथं निखिलयोनिगमनागमनसंभव इत्याशङ्क्याह- पुर्यष्टकदेहयुता इति | सूक्ष्मशरीरस्य पुर्यष्टका-ख्यस्य जीवोपाधेः संभवात् तदनुसारेण पशोरपि क्षेत्रज्ञस्य गमनागमने संभवत एव | यथा घटाकाशस्य तदुपाधिभूत-घटगमनागमनाभ्यां गमनागमने, तथात्राप्युपाधिधर्-माणां गमनादीनामुपहिते क्षेत्रज्ञे संभव उपपद्यत एवेति | कर्मवशादिति | कर्मानुरूपेणेत्यर्थः | ननु जीवोपाधिभूतं पुर्यष्टकं किमित्याशङ्क्याह- स्यात् पुर्यष्टकमन्तःकरणं धीकर्मकरणानीति | पुरि स्थूलशरीरे वर्तमानं यदष्टकं तत् पुर्यष्टकम् | तत् किमित्यत आह- अन्तःकरणं धीमकर्मकरणानीति | बुद्ध्यहङ्कारमनां-स्यन्तःकरणम्, धियः कर्म व्यापारो विषय- निश्चयो धीकर्म, तत्करणानि तन्निमित्तानि शब्दादीनि च पुर्यष्टकमिति केचित् | तदुक्तम्- शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः | मनो बुद्धिरहङ्कारः पुर्यष्टकमुदीरितम् || (कालो० १७|४-५) गुरवस्तु धीकर्म च करणानि च धीकर्मकरणानीति ब्रुवते | तत्राष्टकत्वं शब्दस्पर्शरूपरसगन्धबुद्धीन्द्रियकर्मेन्द्रि-यान्तःकरणात्मना विभागाद् भवति | परे कर्मेन्द्रियबुद्धीन्द्रि-यान्तःकरणचतुष्टय- प्राणादिपञ्चक- तन्मात्रापञ्चक- कामकर्मावि-द्यात्मनाष्टविधं पुर्यष्टकमित्याहुः | तथा चोक्तम्- कर्मेन्द्रियाणि खलु पञ्च तथापराणि बुद्धीन्द्रियाणि मन-आदिचतुष्टयं च | प्राणादिपञ्चकमथो वियदादिकं च कामश्च कर्म च तमः पुनरष्टमी पूः || इति || ११-१३ || वृत्तिः प्रलयाकलेषु मध्ये येषां मलः पद्वस्तत्पाकवशादेव कर्मापि समस्तं पक्वं ते व्रजन्तीति, मोक्षमिति शेषः | मलपरिपा-कस्य शक्तिपातद्वारेण मोक्षहेतुत्वात् | यदुक्तं श्रीमन्मृगेन्द्रे- तमश्शक्त्यधिकारस्य निवृत्तेस्तत्परिच्युतौ | व्यनति दृक्क्रियानन्त्यं जगद्बन्धुरणोः शिवः || (वि० ५|१) इति | श्रीमत्स्वायंभुवेऽपि- क्षीणे तस्मिन् धिया सा स्यात्परं निःश्रेयसं प्रति (३२|१७) इति | अन्ये त्वपक्वमलाः पुर्यष्टकदेह-युताः सन्तः कर्मवशेन तद्भोगार्थं निखिलासु योनिषु भुवनजशरीरात्मिकासु व्रजन्तीति पूर्वक्रियानुषङ्गोऽत्रापि कर्तव्यः | ऽएतेऽ इति पाठापेक्षायां पुर्यष्टकदेहयुता योनिषु व्रजन्-तीति व्याचक्षते | तेषां प्रोक्तः श्रुतिविरोधः, पक्वमलानामपि पुनः संसारयोगादनिर्मोक्षप्रसङ्गश्च दोषः || ११ || अथ किं तत्पुर्यष्टकमित्यत आह- स्यादिति | तत्र पुर्यष्टकं नाम प्रतिपुरुषं नियतः सर्गादारभ्य कल्पान्तं मोक्षान्तं वाऽवस्थितः पृथिव्यादिकलान्तत्रिंशत्तत्त्वा-त्मकोऽसाधारणरूपः सूक्ष्मदेहः | यच्छ्रूयते- प्रयोक्त्र्यादिमहीप्रान्तमेतदण्वर्थसाधकम् | प्रत्यात्मनियतम्..... (मृ० वि० १२|३२-३३) इति | तत्त्वसंग्रहेऽपि- वसुधाद्यस्तत्त्वगणः प्रतिपुंनियतः कलान्तोऽयम् | पर्यटति कर्मवशतो भुवनजदेहेष्वयं च सर्वेषु || (श्लो० २४-२५) इति | अतश्चायमर्थः- अन्तःकरणशब्देन मनोबुद्ध्यहङ्कारवा-चिनाऽन्यान्यपि पुंसो भोगक्रियायामन्तरङ्गानि कलाकालनियतिविद्-यारागप्रकृतिगुणाख्यानि सप्त तत्त्वान्युपलक्ष्यन्ते | धीकर्मशब्दे-न बुद्धेरध्यवसिततया ग्राह्याणि पृथिव्याद्याकाशान्तानि पञ्च-भूतानि तत्कारणानि च शब्दादीनि पञ्चतन्मात्रान्युच्यन्ते | करण-शब्देन बुद्धीन्द्रियाणि कर्मेन्द्रियाणि (च) दर्शयति | ननु- शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः | बुद्धिर्मनस्त्वहङ्कारः पुर्यष्टकमुदाहृतम् || (१७|४-५) इति श्रीमत्कालोत्तरे श्रूयते | सत्यम्- अत एव तत्सूत्रं तत्रभवता रामकण्ठेन त्रिंशत्तत्त्वपरतया व्याख्यातम् | कथं पुनरस्य पुर्यष्टकत्वम् ? भूततन्मात्रबुद्धीन्द्रियकर्मेन्द्रियान्तःकरण-संज्ञैः पञ्चभिर्वर्गैस्तत्कारणेन गुणेन तदापूरकेण प्रधा-नेन कलादिपञ्चकञ्चुकात्मना वर्गेणारब्धत्वादित्यविरोधः | अथ तेषु पुर्यष्टकयुक्तेषु मध्ये कांश्चिदनुगृह्य महेश्वरः, मन्त्र-महेश्वर इत्यर्थः | गुह्यातिगुह्यगुह्यतरपवित्रस्थाण्वाख्यपञ्चा-ष्टकादीनां भुवनपतीनामनन्तनियुक्तत्वेनैव श्रुतेः, साञ्जनत्-वाच्च | अनुगृह्येति | स्वाधिकारान्तं प्रकटीकृतज्ञानक्रियानणिमा-दियोगिनश्च कांश्चिद् विशिष्टपुण्यवतः कृत्वेत्यर्थः || १२ || अनतिपक्वमलत्वेन संसारयोगिभ्यश्च ये शेषाः पक्वमलाः सन्तोऽपि तत्पाकमान्द्यान्मायागर्भाधिकारयोग्यास्तेऽपि सर्गप्रार-म्भेऽधिकारनिबन्धनेन कलादिना योगात् सकला भवन्ति | तद्योगेऽपि ते मलरहितत्वात् शेषा इत्युक्ताः | क्रियन्तस्ते केन नियुक्ता इत्यत आह- शतमष्टादशेति | तेषामष्टादशाधिकशतं स्वयमेव शिवो ह्यप-नीतमलान् कृत्वा मन्त्रेशपदे योजयति | न तु तेऽनन्तनियुक्ता इत्यर्थः | कलादियोगस्तु तेषामनन्तकर्तृक एव, अनन्तोऽसिते प्रभुः (कि० वि० ३|२७) इत्युक्तत्वात् || १३ || तत्राष्टौ मण्डलिनः क्रोधाद्यास्तत्समाश्च वीरेशः | श्रीकण्ठः शतरुद्राः शतमित्यष्टादशाभ्यधिकम् || १४ || तात्पर्यदीपिका शतमष्टादश मन्त्रेश्वरा इत्युक्तम् | के त इत्याकाङ्क्षाया-माह- तत्राष्टौ इति | तत्र मन्त्रेश्वराणां मध्येऽष्टौ मण्डलिनः, क्रोधाद्याः तत्समाः, अष्टावित्यर्थः | शिष्टा वीरेशादय इति | एतदुक्तं सिद्धान्तहृदये- त्रिविधास्ते च विज्ञानकलाश्च प्रलयाकलाः | सकलाश्चेति तेष्वाद्या मलमात्रयुताः परे || मलकर्मयुता मायामलकर्मसमायुताः | सकला इति तेष्वाद्या द्विविधाः पक्वकल्मषाः || अपक्वकल्मषाश्चेति अत्राद्याननुगृह्य तु | विद्येश्वरान् करोत्यष्टावीशोऽन्यान् मनुदेवताः || द्व्येकपक्वद्विपक्वाः स्युश्चतुर्धा प्रलयाकलाः | पक्वोभयान् पुराधीशान् गणेशान् पक्वकर्मगान् || रुद्रान् पक्वमलानन्यानष्टादशशताधिकान् | सकलस्त्वष्टधा त्रिद्व्येकपक्वाश्च त्र्यपक्वकाः || हिरण्यगर्भः + + + सनकाद्याश्च योगिनः | आचार्यांश्चैव देवांश्च क्रमात् तेष्वकरोत् प्रभुः || इत्यादि | शैवरहस्ये च- विज्ञानकलसंज्ञः प्रलयाकलसंज्ञकोऽथ सकलाख्यः | त्रिविधोऽयं पुरुषः स्यादेकोत्तरबन्धसंबन्धात् || विज्ञानकलसंज्ञान् समाप्तकलुषान् करोति विद्येशान् | अष्टावनुगृह्य शिवो मन्त्रानपि सप्तकोटिभिदान् || प्रलयाकलाश्च केचिद् भुवनेशाः पक्वकलुषकर्माणः | कर्मवशादवशिष्टा निखिलास्वपि योनिषु चरन्ति || सकलाः कलादियोगात् सृष्टिदशायां त एव निर्दिष्टाः | शतमष्टादश तेष्वपि मन्त्राणामीशितारः स्युः || शतरुद्राः क्रोधादिकमष्टमङ्गुष्ठमात्रपूर्वमपि | वीरेशश्रीकण्ठौ मन्त्रेशत्वेन वर्तन्ते || इत्यादि || १४ || वृत्तिः तानेव विभजति- तत्राष्टौ इति | अत्र मण्डलिनोऽष्टौ कलामस्तकवासिनो गहनेशादयः क्रोधादयश्च गुणमस्तकस्था अष्टावेव | वीरेशो वीरभद्रः शतरु-द्राधिष्ठाता | श्रीकण्ठो गुणतत्त्वनिलयोऽधस्तनभुवना-देश्च कर्ता | शतरुद्रास्तु ब्रह्माण्डधारका इति || १४ || परिपक्वमला ये तानुत्सादनहेतुशक्तिपातेन | योजयति परे तत्त्वे स दीक्षयाऽऽचार्यमूर्तिस्थः || १५ || तात्पर्यदीपिका नन्वेवं संसरतां पशूनां तर्हि मोक्षमार्गेऽवतारो न स्यादित्याशङ्क्याह- परिपक्वमला ये तानिति | द्विविधा हि परमेश्वरस्य शक्तिः, बन्धकरी मोचिका चेति | तयो-राद्याऽनादिकालमेव प्रवृत्ता पशून् पाशजालैर्बध्नाति | तस्यां कालवशात् कर्मसाम्येन विरोधादुपरतव्यापारायं मोचिका शक्तिः स्वपतनकालमन्वेषयन्ती महेश्वरे वर्तमाना तेषु पशुषु निपतति | ततश्च संसारोत्सादनहेतुभूतशक्त्यां निपतितायां भगवानाचार्यमूर्तिमास्थाय दीक्षां कृत्वा मलादिपाकं विधाय परमेश्वरतत्त्वे संयोजयतीति नासंपाद्यो मोक्षमार्गेऽवतार इति | तदुक्तम्- समे कर्मणि संजाते कालान्तरवशात् पुनः || तीव्रशक्तिनिपातेन गुरुणा दीक्षितो यदा | सर्वज्ञः स शिवोयद्वत् किञ्चिज्ज्ञत्वविवर्जितः || शिवत्वव्यक्तिसम्पूर्णः संसारी न पुनस्तदा | इत्यादि | (कि० वि० १|२०-२२) शक्तिद्वयं च भगवताऽवधूतपादेनोक्तम्- बध्नाति काचिदपि शक्तिरलुप्तशक्तेः क्षेत्रज्ञमप्रतिहता तव पाशजालैः | ज्ञानासिना च विनिकृत्य गुणानशेषा- नन्या क्रोत्यभिमुखं पुरुषं विमुक्तौ || इति || १५ || (भ० स्तो० १७) वृत्तिः अथ त्रिबन्धनबद्धेषु सकलेषु मध्ये सः शिवः | परितः समन्तादाधिक्येन पक्वमलान् सकलान् तिरोधानशक्त्युपसंहारे-णानुग्रहशक्त्या पाशनिरोधनादिक्या स्पृष्टान् गुरुमधिष्ठाय दीक्षया परे पदे शिवसाम्यरूपे योजयति | मन्दमलपाकांस्तु मन्दतरादिशक्तिपातेन विद्वेश्वरादिपदे योजयति | यच्छ्रुयते- रुद्रमन्त्रपतीशानपदभाजो भवन्ति ते | स्थितौ याननुगृह्णाति गुरुमास्थाय चिद्वतः || (मृ० वि० ५|३) इति | यो यत्राभिलषेद् भोगान् स तत्रैव नियोजितः | सिद्धिभाङ्मन्त्रसामर्थ्यात् (संपूर्णः श्लोकः सार्धत्रिशक्तिकालोत्तरवृत्तौ (१|५) समुद्धृतः |) (स्वाअ० ३९|२) इति च | अत एव विज्ञानप्रलयकेवलयोर्निरधिकरण एव शिवस्यानुग्रहः सिद्धः | अत एव मलस्य द्रव्यत्वाच्चक्षुषः पटलादेरिव दीक्षाख्ये-नैवेश्वरव्यापारेण निवृत्तिः, न तु ज्ञानमात्रादिति भावः || १५ || बद्धान् शेषानखिलान् विनियुक्ते भोगमुक्तये पुंसः | तत्कर्मणामनुगमादित्येवं कीर्तिताः पशवः || १६ || तात्पर्यदीपिका इतरविनियोगपूर्वमुपसंहरति- बद्धान् इति | सूक्ष्मदेहेन च पुर्यष्टकाख्येन बद्धान् शेषान् सकलान् भोगमुक्तये विषयभुक्त्यर्थं विनियुङ्क्ते देवादिस्थानेषु स्थूलदे-हेन संयोजयतीत्यर्थ इति || १६ || वृत्तिः अपरिपक्वमलांस्तु- बद्धान् इति | एष च प्रागुक्तानुवादः | अथ पशुपदार्थमुपसंहरति- इत्येवं कीर्तिताः पशव इति || १६ || पाशाश्चतुर्विधाः स्युः पुंसो मलकर्मजौ मतौ प्रथमौ | मायीयतिरोधायकशिवशक्तिसमुद्भवौ चान्यौ || १७ || तात्पर्यदीपिका इदानीमवसरप्राप्तानां लक्षणपरीक्षार्थमाह- पाशा इति | पशूनां बन्धकाः पाशाः | ते च चतुर्विधाः चतुष्प्रका-राः स्युः | पुंसः पुरुषस्य पशोः | तेषु प्रथमौ आद्यौ | मलकर्म-संज्ञकौ मलकर्माख्यौ | तत्रापि मलः प्रथमः पाशः, तत्पूर्वकत्वात् कर्मादीनाम् | स तु ज्ञानप्रागभाव इत्येके | परे तिमिरसदृशो जडात्मको भावरूपो ज्ञाननिवर्त्य इति | गुरवस्तु अविद्यासंस्कारात्मक इत्याहुः | तदुक्तं ज्ञानं बन्धः (१|२) इति शिवसूत्रवार्त्तिककृता- अहं ममेदमिति यज्ज्ञानं भेदप्रथात्मकम् || शब्दानुवेधतो जातं मायीयं मलकारणम् | किरणे च- मलोऽज्ञानं पशुत्वं च तिरस्कारकरस्तमः | अविद्या ह्याकृतिर्मूर्च्छा पर्यायास्तस्य वाचकाः || (वि० २|२०-२१) इति | द्वितीयः कर्माख्यः पाशः | मायीयो मायाजन्यः सूक्ष्मस्- थूलात्मकशरीरादिरूपः | स तृतीयः | तिरोधायकशिवशक्तिसमुद्-भवस्तत्स्वरूपश्चतुर्थ इति | बन्धस्य संसारस्य जन्ममरणादिलक्षणस्य बन्धकाभावेऽसंभवात् पाशसद्भावसिद्धिः | बन्धस्तु श्रुत्यादिप्रमाणसिद्ध इति | ननु मायाकार्यत्वाद् मलकर्मणोर्मायायां प्रवृत्तायां तयोरुद्भः, प्रथमभूतयोस्तयोरुद्भवे मायायाः प्रवृत्तिरिति इतरेतराश्रयप्रसङ्ग इति चेन्न, बीजाङ्कुरवदनादित्वेन तत्परिहारोपपत्तेरिति || १७ || वृत्तिः अथ पाशपदार्थभेदमाह- पाशा इति | ननु प्रागर्थपञ्चकं पाश इत्युक्तम् | अत्र तेषां चतुर्विधत्-वोक्तिर्विरुद्धेति चेन्न, बिन्दोर्महामायात्मनः परमुक्त्यपेक्षया पाशत्वेऽपि तद्योगस्य विद्येश्वरादिपदप्राप्तिहेतुत्वेनापरमुक्तित्वा-दत्र पाशत्वेनानुपादानमित्यविरोधः | अत एवाह- पुंस इति | पुंस्त्-वमलयोगिनः, सकलस्येत्यर्थः | अत एवे शुद्धाध्ववासिनामनन्ता-दीनां महामायारोधशक्त्यात्मकमेव पाशद्वयं विद्यते | तच्च मायादिवन्न मोहकम्, अपि तु बोधकमेवेति सर्वं सुस्थितम् | ननु यन्नादाख्यं परं बीजं सर्वभूतेष्ववस्थितम् (सा० का० १|५) इति श्रुतेः सकलस्यापि बिन्दुकार्ययोगः ? सत्यम्, सर्वज्ञत्वाद्यविनाभूतेन बैन्दवशरीरादिनाऽस्य योगो नास्तीत्येवमुक्तम् | के ते इत्याह- मलकर्मजौ मतौ प्रथमाविति | मलकर्मरूपावेवात्र मलकर्मजाविति कार्यकारणयोरभेदेनोप-चारादुच्येते, तयोरेवानन्तरसूत्रे लक्षणस्य वक्ष्यमाणत्वात्, तत्तत्कार्यकारणयोरावरणभोगभोजनयोः फलरूपतया पाशत्वेन प्रसिद्धेश्च | एवं मायेयतिरोधायकशिवशक्तिसमुद्-भवावित्यत्रापि द्रष्टव्यम् | प्रथमावनादिसिद्धौ | तत्र मलः पुंसोऽनादि कृत्वा ज्ञानक्रियावारकः | कर्मापि प्रवाहानादि, बीजाङ्कुरादिन्यायेन कर्मजशरीरसन्तानस्याप्यनादित्वेन स्थितेः | मायेयस्तु कलादिरागन्तुकः पाशः, कर्मसद्भाव एव तस्य सद्भावात्, तदभावेऽपि प्रलयकेवलिनो मलकर्मयोगाच्च | शिवशक्तेस्तु पाशाधिष्ठानेनात्मनि तिरोधायकत्वादुपचारेण पाशत्वमुक्तम्, वक्ष्यामश्च || १७ || एको ह्यनेकशक्तिर्दृक्क्रिययोश्छादको मलः पुंसाम् | तुषकम्बुकवज्ज्ञेयस्ताम्राश्रितकालिमावद् वा || १८ || तात्पर्यदीपिका प्रथमोद्दिष्टस्य मलस्य लक्षणमाह- एक इति | एकोऽनेकशक्तिरिति मलस्य लक्षणम् | कार्ममायीययोरनेकत्वात् तन्निवृत्त्यर्थमुक्तमेक इति | तिरोधायकशक्तेरपि पाशत्वे सत्येकत्वाद् मलत्वप्रसङ्ग इति तन्निवृत्त्यर्थमनेकशक्तिरिति पदम् | नन्वविद्यासं-स्काररूपतायां मलस्यानेकत्वादयुक्तमेको मल इति, इति चेन्न, जलनिधिनिमग्नानन्तनदीजलवदेषामप्यनन्तानां संसर्गादेवैकत्वोपपत्तेरित्येके | अन्ये तु जात्यपेक्षयैकत्ववचनम्, अवान्तरानेकजातिसद्भावान्मायाकर्मणोरनेकत्वम्, तदभावाद् वासनाया एकत्वमिति ब्रुवते | तथा ज्ञानाभावरूपतायां च जात्यपेक्षयैवैकत्ववचनम् | अन्यथा कस्यचिज्ज्ञानोदये सति ज्ञानप्रागभावनिवृत्तेः सकलजगन्मोक्षप्रसङ्गादिति | भावात्मकत्वे मुख्यमेवैकत्ववचनम् | एकस्य ज्ञानोदयेऽपि निवृत्त्यनिवृत्त्योस्तमोवदुपपत्तेर्मलस्यानेकशक्तित्वाच्चैकस्य ज्ञानोदये तं प्रत्येव प्रच्छादनशक्तेर्विनाशादितरेषामप-वर्गाभावः संभवत्येव | तस्मादेकोऽनेकशक्तिर्मल इति | तदुक्तं किरणे- विभोरपि मलस्यास्य तच्छक्तेः क्रियते वधः | उपायाच्छक्तिसंरोधः कस्मिंश्चित् क्रियते मले || शिवज्ञानं तथा तस्य शक्तिसंरोधकारकम् | यथाग्नेर्दाहिका शक्तिर्मन्त्रेणाशु निरुध्यते || तद्वत् तच्छक्तिसंरोधः (वि० २|२८-३०) इत्यादि | दृक्क्रिययोश्छादको मलः पुंसां तुषकम्बुकवज्ज्ञेय इति | यथा तुषकम्बुकौ तण्डुलेन सहैकीभूतौ मूलाङ्कुराद्युत्पत्तेः कारणम्, तथा मलोऽपि पशूनां स्वरूपभूतज्ञानक्रियाप्र-च्छादकत्वेन कर्ममायादिमूलाङ्कुराद्युत्पत्तिकारणतयात्मना सहैकीभूतस्तिष्ठतीति | तदुक्तं किरणे- मलश्चिच्छादको नैजो विशुद्धिः शिवता स्वतः इति | ताम्राश्रितकालिमावद् वेति | यथा ताम्राश्रिता कालिमा सहजा-तस्य स्वरूपभूतस्वर्णतां प्रच्छाद्य ताम्रतामभिव्यज्य चावतिष्ठते, तथा मलोऽप्यात्मनो ज्ञानक्रियात्मकं स्वरूपं प्रच्छाद्य पशुत्वं चाभिव्यञ्जयन्नवतिष्ठत इति | ननु मलस्य सहजत्वे तत्क्षये तद्वतोऽपि विनाशप्रसङ्ग इति चेत्म् नैवम्, ताम्राश्रितकालिमाविनाशे तत्स्वरूपाविनाशवत् सहजमलविनाशेऽप्यात्मस्वरूपाविनाशोपपत्तेः | तदुक्तम्- सहजा कालिमा ताम्रे तत्क्षयान्न च तत्क्षयः || क्षयस्ताम्रस्य यद्वत् स्यात् पुरुषस्य मलक्षयः | यथा तण्डुलकम्बूके प्रक्षीणे न च तत्क्षयः || इत्यादि || १८ || (कि० वि० २|३१-३२) वृत्तिः तत्र मलक्षणमाह- एक इति | एक एव मलः, जडत्वे सति नित्यत्वाज्जडानामनेकानां घटादिवदनित्यत्वं स्यात् | यद्येवं मलस्यैकत्वादेकस्य मोक्षार्थं तस्य निरोधे सर्वमोक्षप्रसङ्गः | अत आह- अनेकशक्तिरिति | अनेकात्मावार-कानेकशक्तियुक्तः, अत एकस्याः शक्तेः परिपाकेन तिरोधानेन तदावार्यस्यैव मोक्षः | तुषकम्बुकवदिति | यथा तण्डुलताम्रयोरनाद्यावारकत्वेन सहजं तुषादि कालिमा वा पश्चात्पाकेन रसशक्त्या निवर्तते, एवं मलोऽप्यात्मनोऽनाद्यावारकः पाकवशाद्दीक्षया निवर्तते | यदि वा यथा शाल्यादेस्तुषाद्यङ्कुरोत्पत्तौ निमित्तम्, एवमात्मनो मलः शरीराद्युत्पत्तौ निमित्तम् | यथा वा ताम्रस्य कालिमा रसशक्त्या निवर्तते, तथा मलः शिवशक्त्या निवर्तत इत्येतावदात्मनो दृष्टान्तः, न तु सर्वसाम्येनेति || १८ || कर्मानादि प्रोक्तं धर्माधर्मात्मकं विचित्रं च | माया च वस्तुरूपा मूलं विश्वस्य नित्या सा || १९ || तात्पर्यदीपिका मलानन्तरं कर्ममायात्मकं पाशद्वयमुत्तरश्लोकपूर्-वापरार्धाभ्यां निरूपयति- कर्मानादीति | कर्मानादि प्रवाहरूपेण, न चैकस्यैव कर्मणः सर्वदावस्-थानेन | तथा सति भावरूपस्य कर्मणोऽनादित्वेनात्मवन्नित्य-तयाऽनिर्मोक्षप्रसङ्गात् | नहि कर्माविनाशे संसारनिवृत्तिः संभवति | इत्येवं प्रोक्तं तत्त्वज्ञैः | धर्माधर्मात्मकमिति धर्माधर्मरूपेण द्विविधमिति | विचित्रं चेति विविधफलहेतुत्वाद् विचित्रमित्यर्थः | तथाहि- सुखासाधारणकारणं धर्मः, दुःखासाधारणकारणमधर्म इत्येके | अन्ये तु चोदनालक्षणो-ऽर्थो धर्मः, तल्लक्षणोऽनर्थोऽधर्म इति ब्रुवते | अपरे धर्मः पुरुषगुणः कर्तुः प्रियहितमोक्षहेतुः, तद्विपरीतोऽधर्म इति | अहिंसालक्षणो धर्म इति केचित् | चैत्यवन्दनादिलक्षणो धर्म इति बौद्धाः | परे परोपकारलक्षणो धर्म इति | तत्रान्त्यं त्रयमनुपपन्नम्, प्रमाणाभावात् | न च बौद्धाद्यागमाः प्रमाणम्, तेषां पौरुषेयतया मूलप्रमाणाभावे प्रामाण्याभावात् | न चैषां मूलप्रमाणं किञ्चिदु-पलभ्यते, प्रत्यक्षादेर्धर्म प्रति प्रामाण्यासंभवस्योक्तत्वात् | न चोपकारलक्षणस्य धर्मत्वम्, ब्राह्मणा दिहिंसादेरपि तच्छत्रूपकारादिना धर्मत्वप्रसङ्गात् | नापि हिंसाया अधर्मत्वम्, व्रीह्यवघातदुष्टनिग्रहाग्नीषोमीयपशुहिंसादेर-धर्मत्वप्रसङ्गादिति | स धर्मस्त्रिविधः, नित्यनैमित्तिककाम्यात्मना तस्य भेदात् | तत्र यावज्जीवमग्निहोत्रं जुहुयात्, यावज्जीवं दर्शपूर्णमा-साभ्यां यजेत, यावज्जीवं ज्योतिष्टोमेन येजेत इत्येवमादिवाक्यैर्-नियमेन विहिता नित्याः | निमित्तादुपजायमाना नैमित्तिकाः | तद्यथा- वैश्वानरं द्वादशकपालं निर्वपेत् पुत्रे जाते (तै० सं० २.२.५.३) अष्टका कर्तव्या इत्येवमादिविहिता जातेष्ट्यादयः | कामनापूर्व-काः काम्याः, अग्निहोत्रं जुहुयात् स्वर्गकामः (मै० उ० ६|३६), दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत, ज्योतिष्टोमेन स्वर्गकामो यजेत् (आप० श्रौ० १०|२|१) इत्येवमादिवाक्यविहिताः | ते द्विविधाः- सविद्याः केवलाश्चेति | सविद्या ईश्वरस्मरणपूर्वकाः | इतरास्तद्रहिता इति | एवंलक्षणो धर्मो द्विविधः- इष्टः पूर्तश्चेति | तत्रेष्टो वैदिकः, पूर्तस्तान्त्रिक इति | प्रतिषिद्धोऽधर्मः | तद्यथा- ब्राह्मणो न हन्तव्य, सुरां न पिबेत्, न शङ्खेन पिबेत् तोयम् इत्यादिवाक्यनिषिद्धा ब्राह्मणहिंसा-दयः | अपरे त्वधर्मश्च त्रिविध इत्याहुः- नित्याकरणम्, नैमित्तिका-करणम्, प्रतिषिद्धकरणं चेति | नित्यनैमित्तिकाभ्यां प्रत्यवायपरिहारः, काम्यात् स्वर्गादिप्राप्तिः | अधर्मान्नरकादिगमनमिति | एतदुक्तं सिद्धान्तहृदये- क्रियायाः सूक्ष्मरूपं हि कर्माहुर्द्विविधं च तत् | इष्टं पूर्तं च तत्रेष्टं वैदिकं तान्त्रिकं तथा || पूर्तमित्युच्यते सद्भिस्तत् पुनस्त्रिविधं मतम् | धर्मोऽधर्मस्तथा चित्रमिति धर्मो विधेः पदम् || स पुनस्त्रिविधः काम्यनित्यनैमित्तिकात्मना | निषिद्धोऽधर्म इतरच्चित्रं काम्यं पुनर्द्विधा || सविद्यं केवलं चेति विद्या चेश्वरचिन्तनम् | प्रत्यवायहतिर्वा स्यादुपात्तदुरितक्षयः || नित्यनैमित्तिकाभ्यां स्यादधर्मान्नारकी गतिः | अर्वाचीना मनुष्यात्तु पाषाणान्ता सुदुस्तरा || काम्यात् स्वर्गगतिस्तस्मादूर्ध्वा ब्रह्मावसानिका | सविद्या देवयानेन पुनरावृत्तिवर्जिता || केवला पितृयानेन गतिः संसरणात्मिका | धर्माधर्माख्ययोः साम्ये मानुष्यं लभते पुमान् || कर्मणोः सर्वगामी स्याच्चित्राचित्रफलोदयः | कर्माख्योऽयं महापाशो दुर्मोचस्तेन जन्तवः || इतस्ततः समाकृष्य नीयन्ते पशवो यथा | इत्यादि | एवं मलकर्मवशाद् महेश्वरेच्छया माया पुण्यापुण्य-फलानुभवाय स्त्रिस्थानेषु देवादिशरीरेन्द्रियविषयात्मना पुनः पुनः परिणमते | तदुक्तम्- मलात् कर्तृत्वभोक्तृत्वे कर्तृत्वात् कर्म कर्मणः | भोगस्तदाक्षेपवशान्मायाबन्धस्ततस्तनुः || भोगाधिकरणं भोग्या लोकाश्च करणानि च | इन्द्रियाणीति जायन्ते भोगसिद्ध्यै ततो मलः || अभिलाषात्मकश्चेति बीजाङ्कुरफलादिवत् | अनादिः पाशजालोऽणून् बध्नाति भवचक्रके || इत्यादि | विचित्रं चेत्यनेन कर्मसद्भावे प्रमाणमप्युक्तम् | तथाहि - ईश्वरदरिद्रादिभेदभिन्नं विचित्रं जगद् विचित्रकारणं विना न संभवति | तच्च न दृष्टमुपलभ्यत इत्यदृष्टकारणकल्पनेति तत्सिद्धिः | तदुक्तं मातङ्गे- जगतः सुप्रसिद्धे द्वे धर्माधर्मौ तु कर्मणी | अनादिकालसंरूढे ताभ्यां पुं वासितः सदा || (वि० ८|९८) इत्यादि | तस्या मायायाश्च लक्षणमाह- विश्वस्य मूलमिति | विश्व्स्य व्यक्तजातस्य कलादेर्मूलभूता उपादानभूता सा मायेति | तदुक्तम्- कलादीनां तत्त्वानामविवेको माया (शि० सू० ३|३) इति | लक्षनपदेनैव तस्यां प्रमाणमप्युक्तम् | तथाहि- विश्वं जगद् एकोपादानजन्यम्, एकाकारत्वात्, यद्यदेकाकारं तत्तदेकोपादान-जन्यम्, तथा घटकुम्भमृदङ्गशरावकुड्यवल्मीकादय एकाकारा एकमृदुपादानजन्याः, तथेदमपि जडत्वादिनैकाकारम्, तस्मादेकोपादानजन्यमिति | यदत्र सकलकलाद्यवनिपर्यन्ततत्त्वजा- ताविवेकात्मकमुपादानम्, सा मायेति तत्सिद्धिः | विस्तरेणैतदुपरिष्टादुपपादयिष्यामः | मायाशब्दवाच्यतया तस्यापरमार्थत्वशङ्का स्यादिति तन्निवृत्त्यर्थमाह- वस्तुरूपेति | सा माया वस्तुरूपा परमार्थभूता विश्वमूलत्वादीश्वरवदिति | नित्या च सा माया | विश्वमूलत्वादीश्वरवदेवेति | अनित्यत्वे तस्या मूलान्तरा-भ्युपगमे विश्वमूलत्वाभावात् | न च माया महेश्वरमाया-व्यतिरिक्तानामेव मूलमिति विश्वमूलत्वाभावस्तस्या इति वाच्यम्, जन्यस्यैव मूलापेक्षत्वादजन्यत्वमूलत्वाभावे विरोधाभावा-दिति | न च परमेश्वरस्य विश्वमूलत्वे प्रमाणाभावात् साधनहीनमुदाहरणमिति वाच्यम्, तस्य विश्वमूलत्वश्रवणात् | तथाहि- यतो वा इमानि भूतानि जायन्ते (तै० उ० ३|१), स इमा|ल्लोकानसृजत (ऐ० उ० १|२), आत्मन आकाशः सम्भूतः (तै० उ० २|१) इत्यादिभिर्वेदवाक्यैः परमेश्वरस्य जगन्मूलत्वमवगम्यते | ततो न साधनविकलमुदाहरणमिति | तथा परमर्षिणा वेदव्यासेन सूत्रकृता परमेश्वरस्य विश्वमूलत्वं जन्माद्यस्य यतः (ब्र० सू० १|१|२), शास्त्रयोनित्वात् (ब्र० सू० १|१|३) इति सूत्रद्वयेनोपवर्णितम्-इति | ननु तर्हि न मायाया विश्वमूल-त्वम्, परमेश्वरस्यैव विश्वमूलत्वादिति चेत्, नैवम्, परस्परसृष्टयोरेव मायामहेश्वरयोर्विश्वमूलत्वेनोभयोरपि तदुपपत्तेः | तथाहि- माया तावन्न परमेश्वरानधिष्ठिता जडा जगदुपादानं भवति, महेश्वरश्च चेतनोऽपि न मायां विना विश्वमूलतां भजते निर्व्यापारोदासीनमात्रत्वादिति तयोः संसृष्टयोरेव जगन्मूलत्वम्, अयःपिण्डाग्न्योरिव कार्यकारणादीति | माया चेति चशब्देन मायाकार्यस्य विश्वस्य वस्तुरूपत्वमुपवर्णितम् | न च प्रपञ्चस्य मिथ्यात्वादेतदनुप-पन्नमिति वाच्यम्, तत्र प्रमाणाभावात् | ननु विमतः प्रपञ्चो मिथ्या, दृश्यत्वात्, यद् यद् दृश्यं तत्तन्मिथ्या यथा शुक्तिरजतम्, तथायमपि दृश्यः, तस्मान्मिथ्येत्यनुमानात् प्रपञ्चमिथ्यात्व-सिद्धिरिति चेत्, नैवम्, शुक्तिरजतस्य तद्व्यतिरिक्तस्येदं रजतमिति भ्रान्ति-गोचरस्यापरमार्थभूतस्य सद्भावे प्रमाणाभावात् | ननु विमतं रजतज्ञानं रजतविषयम्, रजतज्ञानत्वात्, सम्यग्रजत- ज्ञानवदित्यनुमानात् तत्र शुक्तौ रजतसद्भावः सिद्धः | नासौ सत्, तदानीं भ्रान्तत्वबाध्यत्वयोरसम्भवात्, सम्यग्रजतवत् | नाप्यसत्, शशविषाण इव ख्यातिबाधयोरसंभवप्रसङ्गात् | नापि सदसत्, विरुद्धत्वादिति सिद्धं तस्य सदसद्विलक्षणत्वम् | तदेवानिरूपितरूपत्वं मिथ्यात्वं चेति | तदुक्तम्- सत्त्वे न भ्रान्तिबाधौ स्तां नासत्त्वे ख्यातिबाधकौ | सदसद्भ्यामनिर्वाच्याऽविद्या वेद्यैः सह भ्रमा || इति | तदेतदसारम्, अलौकिकस्य रजतस्य परमार्थभूतस्य तत्र प्रति-भासात् | तथा हि- द्विविधं हि रजतं लौकिकमलौकिकं चेति | तत्र लौकिकं वलयकरणादिसमर्थम्, अलौकिकमत्र प्रतिभासमानं तदसमर्थम् | तस्य द्वित्वादिसाम्येन परमार्थत्वान्न मिथ्यात्वम् | न च नेदं रजतमिति ज्ञानेनास्या बाधः, अपेक्षितलौकिकरजत- विवेकख्यापकत्वेनास्याबाधकत्वात् | अथालौकिकरजतावबोधे लौकिकरजतार्थिनस्तत्र प्रवृत्त्यभावप्रसङ्ग इति चेन्न, अलौकिकस्यापि लौकिकभेदा-ग्रहणेन प्रवृत्त्युपपत्तेः | अथवाऽलौकिकस्य लौकिक-तां मन्यमानस्तत्र प्रवर्तत इति | तथानिर्वचनीयरजतावबोधे च प्रवृत्त्यसम्भवाद् भवता च मदुक्तमार्गानुसार आश्रयणीय एव | अतो नानिर्वचनीया- परमार्थरजतसद्भाव इति दृष्टान्ताभावान्न प्रपञ्चमिथ्यात्वसिद्धिः | ननु भेदाग्रहणस्य प्रवर्तकत्वे नालौकिकरजतकल्पना संगच्छते, शुक्तिरजतयोरेव गृह्यमाणस्मर्यमाणयोर्भेदाग्रह-णाद् रजतार्थिनस्तत्र प्रवृत्त्युपपत्तेः कल्पनागौरवप्रसङ्गात् | तथाहि- इदं रजतमित्यत्र इदमनुभवः पुरोवर्तिशुक्तिविषयः | रजतमिति तु सदृशदर्शनसमुद्बुद्धसंस्कारजं देशान्तरगत-रजतविषयं स्मरणम् | तत्रानुभूयमानस्मर्यमाणयोः शुक्तिरजतयोर्भेदाग्रहणादेव रजतार्थिनः पुरोवर्तिनि शुक्तिरजते प्रवृत्त्युपप-त्तेर्नालौकिकरजतकल्पनमुपपन्नमिति | तत्र च न मिथ्याभूतं किञ्चिदस्तीति प्रपञ्चमिथ्यात्वानुमानस्य दृष्टान्ताभावादप्रामाण्यमिति | नैवम्, तच्छब्दोल्लेखनशून्य-तया रजतज्ञानस्य स्मृतिरूपत्वासंभवात् | तस्मादत्रालौकिकं रजतं भासत इति | नैतदेवम्, अलौकिकरजतग्रहणस्य प्रवर्तकत्वा-नुपपत्तेः | न चालौकिकस्य लौकिकतां मन्यमानः प्रवर्तत इति वाच्यम्, अन्यथाख्यातिवा-दप्रसङ्गात् | न च लौकिकभेदाग्रहणात् प्रवृत्तिः, स्वर्णभेदाग्रह-णेन तदर्थिनस्तत्र प्रवृत्तिप्रसङ्गात् | न च गृह्यमाणयोर्भेदाग्रह-णं प्रवर्तकमिति स्वर्णाग्रहणेन तदर्थिनस्तत्र प्रवृत्त्यभाव इति वाच्यम्, लौकिकरजतस्याप्यगृह्य-माणतया तदर्थिनस्तत्र प्रवृत्त्यसंभवात् | न चानेन रजतज्ञा-नेन तस्यापि ग्रहणमिति वाच्यम्, देशान्तरस्थतयेन्द्रियगोचरत्वा-संभवात् | न चेदं स्मृत्यनुभवात्मकं पुरोवर्तिदेशान्तरगत-रजतद्वयविषयं विज्ञानद्वयमिति वाच्यम्, इन्द्रियसंप्रयोगजन्य-त्वात् तच्छब्दोल्लेखशून्यत्वाच्च रजत-ज्ञानस्य स्मृतित्वासंभवात् | तस्मादत्र भासमानं रजतमसदिति शून्यवादिनो मिथ्यात्वं चासद्विषयत्वमिति प्रपञ्चमिथ्यात्वानुमानात् प्रपञ्चस्याप्यसत्-त्वमिति | नैतदेवम्, असद्रजतावबोधे रजतार्थिनस्तत्र प्रवृत्त्यनुप-पत्तेः | अथासद्रजतस्य सद्रजतभेदाग्रहात् तदभेदग्रहाद्वा प्रवृत्त्युपपत्तिरिति चेत्, नैवम्, रजतशुक्त्योरेव भेदाग्रहणादभेद-ग्रहणाद्वा प्रवृत्त्युपपत्तौ तद्व्यतिरिक्तासद्रजतकल्पनासंभवात् | तस्मादत्र रजतज्ञानं स्वगतं रजताकारं बहिः शुक्तिमस्तके प्रकाशयतीत्यात्मख्यातिवादिनः | असतः ख्याना-योगात् सतश्च देशान्तरस्थत्वादरजतस्य रजतधीगोचरत्वासंभ-वाच्च ज्ञानगतरजताकारस्य बाह्यतयाऽवभासो भ्रम इति | जाग्रज्ज्ञानानि च स्वाकारव्यतिरिक्तार्थशून्यानि, ज्ञानत्वात्, स्वप्नज्ञानवदिति ज्ञानाद्वैतवादी | ज्ञानमात्रं सर्वं तदन्यासत्त्वस्यानेनानुमानेनावगतत्वादिति | नैवम्, अस्यानुमा-नस्य पक्षहेतुदृष्टान्तादिग्राहकज्ञानैः स्वव्यतिरिक्तार्थवद्भिर्- व्यभिचारात् | तेषामग्राह्यत्वेऽष्यानुमानस्याश्रयासिद्धिस्व- रूपासिद्धिधर्म्यसिद्धदृष्टान्तत्वादिदोषप्रसङ्गः | न च स्वप्नज्ञानानां स्वाकारग्राहकत्वम्, विज्ञानानं साकारत्वे प्रमाणाभावात् | न च नीलज्ञानं पीतज्ञानमित्यादिप्रतिकर्म-व्यवस्थान्यथानुपपत्त्या तज्ज्ञानानां नीलपीताद्याकारवत्त्व- सिद्धिः, नीलपीतादेः कर्मकारकतया प्रमाण्यात् | तस्मात् स्वाकारं बहीरूपतया न ख्यापयन्ति भ्रान्तय इत्यात्मख्यात्य-संभवः | किं तर्हि भ्रान्तिज्ञानानां भ्रान्तत्वम्, अनादिवृद्ध-व्यवहारावगतस्वविषयपरित्यागेन विषयान्तरोपसर्पणमिति ब्रूमः | तत्र च प्रमाणं नेदं रजतम्, अपि तु शुक्तिकेति बाधकप्रत्ययानन्तरमिदं शुक्तिशकलं रजतरूपेण मया प्रत्याकलितमित्यबाध्यमानं प्रत्यभिज्ञात्मकं प्रत्यक्षमुप-लभ्यत इति | तद्विपरीतानिर्वचनीयालौकिकख्यात्यसत्ख्यात्यात्मख्या-त्यादिप्रतिपादकानां प्रमाणानामग्न्यनुष्णत्वप्रतिपादककृत-कत्वानुमानवदप्रामाण्यमिति | तदुक्तं न्यायविद्भिः- विज्ञानानां यथार्थत्वं सर्वेषां केचिदूचिरे | तदसाध्वन्यथाख्यातिर्मानस्यामीयते धिया || इति | तथा अनुमानादप्यन्यथाख्यातिरत्रावगम्यते | तथा हि- विमता रजतार्थिनां पुरोवर्तिनि शुक्तिशकले प्रवृत्तिः स्वगोचरे रजत-ज्ञानपूर्विका, रजतादित्साधीनप्रवृत्तित्वात्, सम्यग्रजतप्रवृत्तिव-दिति | शुक्तिशकलं वा रजतज्ञानविषयः, रजतादित्साधीनप्रवृत्ति- विषयत्वात्, सम्यग्रजतवदिति | तथा नेदं रजतम्, अपि तु शुक्तिकेति बाधकप्रत्ययश्च पक्षान्तरेषु नोपपद्यते, शुक्तौ रजतरूपता-प्राप्त्यभावात् | प्रकारान्तरेण बाधकप्रत्ययप्रसङ्गश्च- नेदं सद्रजतम्, अपि त्वसद्रजतमिति | नात्र सद्रजतमस्ति, अपि त्वन्यत्रेति वानिर्वचनीयख्यातिपक्षे | नात्र वलयकरणसमर्थं रजतमस्त्यपि त्वन्यत्रेति, नेदं वलयकरणसमर्थं रजतमपि त्वलौकिकमिति वा प्राभाकरैकदेशीयमीमांसकपक्षे | नेदं सद्रजतमपि त्वसद्र-जतमिति, नात्र सद्रजतमस्त्यपि त्वन्यत्रेति वाऽसत्ख्यातिपक्षे | नात्र रजतमस्त्यपि त्वान्तरमित्यात्मख्यातिपक्षे | रजताद् भिन्नमिदं शुक्तिशकलमिति भेदग्रहणपक्षे भवेदिति | तस्मादन्यथाख्याति-व्यतिरिक्तख्यातीनामसंभव इति | रजतार्थिप्रवृत्त्यसंभवाच्च ख्यात्यन्तरासंभवः | अनन्तवस्तुभेदाग्रहणसद्भावात् पुरोवर्तिनि तदर्थिनां प्रवृत्तिप्रसङ्गः | न च गृह्यमाणयोर्भेदा-ग्रहणात् प्रवृत्तिः, घटपटयोर्गृह्यमाणयोस्तदानीं भेदग्रहणाभावेन घटार्थिनः पटे प्रवृत्तिप्रसङ्गात् | न च धर्मिप्रतियोगिग्रहणवेलायां तदभेदग्रहणोपपत्तिः, उभय-ग्रहणपूर्वकत्वाद् भेदप्रवृत्तेरिति | अथ भेदस्य स्वरूपत्वात् स्वरूपग्रहणेन भेदस्यापि गृहीतत्वाद् भेदाग्रहणाभावेनाप्र-वृत्तिरिति चेत् ? न तर्हि रजतार्थिनः पुरोवर्तिनि शुक्तिशकले प्रवृत्तिः, स्वयम्प्रकाशमानयोर्ग्रहणस्मरणयोरिदं रजतमिति ज्ञानयोर्-गृह्यमाणस्मर्यमाणयोश्च शुक्तिरजतयोः स्वरूपाग्रहणेन भेदाग्रहणासंभवात् | किञ्च, भेदाग्रहणस्य प्रवर्तकत्वे शब्दार्थसम्बन्धग्रहणासंभवप्रसङ्गः | तथाहि- गामानयेति प्रयोजकवाक्यश्रवणसमनन्तरं प्रयोज्यवृद्धप्रवृत्तिमुपलभमानो बाल एवमवगच्छति- अस्य गमनक्रियाहेतुः प्रयत्नो जात इति, स्वात्मनि गमनादिक्रियायाः प्रयत्नपूर्वकत्वदर्शनात् | प्रयत्नकारणत्वेनेच्छां गमनानु-मितप्रयत्नेनानुमिनोति, इच्छाकारणत्वेन चेष्टसाधनज्ञान-कारणत्वेन च प्रयोजक-वृद्धवाक्यं ज्ञानपूर्वकालवर्ति, तत्कारणवस्त्वन्तराभावात् | तत अनीयमानमर्थमुपलभमानोऽ-यमर्थसमुदायोऽनेन शब्दसमुदायादवगत इति जानाति | पश्चादावापोद्वापाभ्यां विशेषतोऽध्यवस्यति- अस्यार्थविशेष-स्यायं शब्दविशेषो वाचकः, अस्य पदविशेषस्यायमर्थविशेषो वाच्य इति वा | अत्राग्रहणस्य ज्ञानप्रागभावरूपतयाऽशब्द-जन्यत्वाच्छब्दशक्तिकल्पनानवकाशः, ज्ञानद्वारेणेच्छाप्रयत्-नावुत्पाद्य शब्दस्य प्रवर्तकत्वादिति चन्द्रद्वित्वशङ्खपीतिमादि- भ्रमादिषु न भेदग्रहणसंभव इति | तस्मान्न भेदाग्रहणात् प्रवृत्तिः, अपि त्वन्यथाग्रहणादिति ब्रूमः | ननु शैवैः शास्त्रे अन्यथाख्यातिराश्रीयत इति कुतोऽवगतम्, भूत-शुद्धितन्त्रे उक्तत्वात् | तथाहि- अन्यथाख्यामुपाश्रित्य सांख्यवच्छिवशासनम् | या अनिर्वचनीयेति तथा सिद्धान्तवादतः || वेदान्तवादिनां दृष्टिमाश्रितं वैष्णवं मतम् | इति | सांख्यामिति च सेश्वरसांख्यं विवक्षितम्, इतरस्याख्याति-वादित्वात् | तथा (प्यु?- ह्यु) क्तं सांख्याचार्यैः- विपर्ययो मिथ्या-ज्ञानमतद्रूपप्रतिष्ठम् (यो० सू० १|८) इति सूत्रेणान्यथाख्यातिप्रतिपादनात् | तस्माच्छुक्त्यविद्यासमुद्-भतस्य शुक्त्यधिष्ठितस्य शुक्तिव्यतिरिक्तस्याधिष्ठानयाथात्म्य-ज्ञाननिवर्त्यस्य मिथ्याभूतस्य रजतस्याभावात् प्रपञ्चमिथ्या-त्वानुमानं धर्म्यसिद्धदुष्टान्ततया न प्रामाण्यसम्पद-मधिगच्छतीति | तथात्मनोऽपि स्वतः सिद्धस्य श्रुतिप्रमाणदृश्य-त्वाद् हेतोर्व्यभिचारः | किञ्च, प्रपञ्चस्य धर्मिणो दृश्यत्वेन हेतुना यथा साध्यते, तथा दृश्यत्वस्य हेतोर्मिथ्यात्वस्य साध्यधर्मस्य मिथ्यात्वं यद्यनेनैवानुमानेन साध्येत, तदा हेतोः पक्षैकदेशतया पक्षे वृत्त्यभावादनिश्चितपक्षवृत्तिरसिद्ध इत्यसिद्धत्वम्, प्रपञ्चमिथ्यात्वस्य धर्मिणोऽन्यत्र प्रपञ्चवद-सिद्धेराश्रयैकदेशासिद्धत्वं च प्रसज्यते | तद्द्वयस्य मिथ्यात्वासाधने तत्र वर्तमानत्वाद् दृश्यत्वस्य व्यभिचारः | प्रमाणान्तरेण तन्मिथ्यात्वसाधने तन्मिथ्यात्वस्य मिथ्यात्वा-साधनात् तत्र द्वयोर्व्यभिचारः | तस्यापि मिथ्यात्वसाधनेऽन्ति-मस्य मिथ्यात्वस्य मिथ्यात्वासाधनात् (तत्र द्वयोर्व्यभिचारः | तस्यापि मिथ्यात्वासाधनेऽन्तिमस्य मिथ्यात्वस्य मिथ्यात्वासाध- नात् ?) तत्र वर्तमानतया हेतोर्व्यभिचा-रः | तथा मिथ्यात्वं यद्यसत्त्वं तदा सन् घटः सन् पट इत्यादिप्रत्यक्षबाधः | प्रपञ्चस्य धर्मिणो मिथ्यात्वस्य धर्मस्य हेतोर्दृश्यत्वस्य शुक्तिरजतस्य दृष्टान्तस्य च शशविषाणकल्पत्वेनाश्रया- सिद्ध्यादिदोषप्रसङ्गः | तेषां सद्भावे हेतोर्व्यभिचारः | इत्युभ-यथा शून्यवादिनां न वादेऽधिकारः | तदुक्तम्- अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः (श्लो. वा., निरा० १२९) इति | यदि ज्ञाननिवर्त्यत्वम्, तदा च प्रत्यक्षादिविरोधः, प्रत्यक्षा-दिना मुद्गरप्रहारादिनिवर्त्यत्वोपलम्भेन कार्यकल्प्यज्ञाननिवर्-तनयोग्यताया असंभवात् | न च कल्पकोटिशतसहस्रवर्तिनां पदार्थानां कारणान्तरविनष्टानामज्ञानादविनाशो घटत इति | यदि सदसद्विलक्षणत्वं मिथ्यात्वम्, तदापि प्रत्यक्षादि-विरोधः, प्रत्यक्षादिना पदार्थानां सत्त्वासत्त्वयोरुपलम्भात् | तथा विरुद्धत्वाच्च सदसत्त्ववदेकस्य पदार्थस्य न सदसद्वै-लक्षण्योपपत्तिः | देशकालभेदेन त्वर्थानां सदसत्त्वयोरुपपत्तिः | उभयवैलक्षण्यं तु न कथञ्चिदुपपद्यत इति | अथ बाध्यत्वमिति चेदस्तु | बाध्यत्वं यदि नाशित्वम्, तदांशे सिद्धसाध्यतांशे धर्मिग्राहकप्रमाणबाधा च | कालाद्यवनिपर्यन्ततत्त्वानां तत्कार्या-णां च विनाशित्वस्य सिद्धत्वात्, मायायाः स्वग्राहकप्रमाणेन नित्यत्वस्य सिद्धत्वाच्चेति विश्वकार्यकलापस्य कारणापेक्षायां तन्मूलतया मायासद्भावसिद्धिः | अतस्तस्या नित्यत्वम्, विश्वकार्यकारणतयाकार्यत्वेनानित्यत्वासम्भवात्, तस्याश्च कारणान्तरकल्- पनायामनवस्थाप्रसङ्गाच्च | नित्यत्वं कस्यचिदाश्रयणीयम् | तत् कल्पनागौरवपरिहाराय प्रथमभू-ताया मायाया एवाभ्युपगतमिति धर्मिग्राहकेणैव प्रमाणेन तन्नित्यत्वमपि सिद्धमपि न धर्मिग्राहकप्रमाणविरोधः | न चानेन तस्य बाधासंभवः, अस्य तन्मूलतया तदभावे माया-सद्भावसेद्धेराश्रयासिद्धिदोष- प्रसङ्गात् | अथ बाधात्मक-बोधविषयत्वं बाध्यत्वम्, तस्य (तच्च) शुक्तिरज्ज्वादावुपजातर-जतसर्पादिज्ञानेऽप्यस्तीति न साध्यहीनमुदाहरणम् | तथा हि- अनादिसिद्धस्वविषयरजतादिपरित्यागेन विषयान्तरे शुक्त्यादावुपसर्पणाद् मिथ्येदं ममोत्पन्नं रजतादिज्ञानमिति बाधात्मकबोधविषयता रजतादिज्ञानानामुपलभ्यते | तद्दृष्टान्तबलात् प्रपञ्चस्यापि बोधात्मकबोधविषयत्वं साध्यत इति न कश्चिद् दोष इति चेत्, नैवम्, सिद्धसाध्यताप्रसङ्गात् | तथा हि- सर्वो वै रुद्रः (म० ना० १०|११) इत्यादिश्रुतेः विचारतस्तु रुद्रस्य स्थूलमेतच्च-राचरम् इत्यादिस्मृतेश्च शरीरशरीरिरूपतया सर्वस्य रुद्रात्मक-त्वावगमात् सर्वेषामपि पदार्थानां रुद्रात्मकत्वावभासस्य भ्रमरूपत्वम् | तेन नायं प्रपञ्चोऽशिवात्मकः, किन्तु रुद्रात्मक एवेति बाधात्मकबोधविषयत्वस्य सिद्धत्वात् सिद्धसाध्यताप्रसङ्ग इति | अथाशिवात्मतागोचरा ये प्रत्ययाः प्रपञ्चविषयास्तेषां मिथ्यात्वमन्यथाख्यातिरूपत्वं साध्यत इति चेत्, तर्हि सिद्धं नः समीहितम्, प्रपञ्चसत्यत्वाविरोधात् | नहि रज्जौ सर्पज्ञानोत्पादेन रज्जुसत्यत्वं विरुध्यत इति | तस्माद् युक्तमुक्तं माया च वस्तुरूपेति | अपरमार्थात् परमार्थवस्तूत्पादासम्भवाच्चेति | अपरे पुनर्माया च वस्तुरूपेत्येतद् वाक्यमन्यथा व्याचचक्षिरे | तथाहि- माया वस्तुरूपा शिवरूपा, तत्कार्यं च जगच्छिवरूपम्, शिवाद् भिन्नस्य कस्यचिदसंभवात् | तथाहि- ज्ञानस्वभाव एवायमात्मा शिवो मायातत्कार्यात्मनाऽवभा-सते | ततः स एव तदुभयमिति | न च तथा सति शिवस्य परिणामित्वमिति चाच्यम्, विवर्तवादाश्रयणात् | अप्रच्युतस्वस्वभावस्य वस्तुनोऽ-न्यथाभावो विवर्तः | यथा रज्जोः सर्पत्वम् | नहि रज्जौ सर्पभाव-काले परिणामादि दृष्टमिति महेश्वरस्यापि जगद्रूपत्वे तद्वदेव परिणामादिकासंभव इति शिव एव मायातत्कार्यात्मना भासत इति | तदुक्तमीश्वरगीतायाम्- स एव मूलप्रकृतिः प्रधानः पुरुषोऽपि च | विकारा महदादीनि देवदेवः सनातनः || (७|३१) इति | नहि रजतादेरन्यत्र विद्यमानस्य शुक्तिकादौ भ्रमदर्शना-दस्य प्रपञ्चस्यान्यत्रासंभवाद् भ्रमरूपत्वासंभव इति वाच्यम्, पूर्वदर्शनमात्रस्य भ्रमहेतुसंस्कारहेतुतया प्रयोजक-त्वेनान्यत्र विद्यमानतयाऽप्रयोजकत्वात् | तस्मात् पूर्व-पूर्वदिवसजन्मकल्पादिष्वनुभूतस्योत्तरोत्तरदिवसजन्मकल्पादिषु भ्रमसंभव इति न कश्चिद् दोषः | तदुक्तं शतककारेण- सर्वविकल्पविहीनं शुद्धं शान्तं व्ययोदयविहीनम् | यत् परतत्त्वं तस्मिन् विभाति षट्त्रिंशदात्म जगत् || दर्पणबिम्बे यद्वन्नगरग्रामादि चित्रमविभागि | भाति विभागेनैव च परस्परं दर्पणादपि च || विमलतरपरमशाम्भवबोधात् तद्वद् विभागशून्यमपि | अन्योन्यं च ततोऽपि च विभक्तमाभाति शिवरूपम् || इति || १९ || (प० सा० ११-१३) वृत्तिः कर्मणोऽनादित्वं प्रवाहानादितयेत्युक्तम् | वैचित्र्यं च साधनभेदात् | साधनं च कर्त्रादिविशेषः, विचित्रभोगभेदात्-मकफलदर्शनाच्च | माया च तावद् वस्तुरूपा | न तु वेदान्तवा-दिनामिवासत्यरूपा | विश्वस्य कलादेः साधारणस्य, भुवना-द्यात्मनोऽसाधारणस्य, सूक्ष्मदेहात्मन उभयरूपस्य, भुवनजशरीरात्मनश्चाशुद्धस्य सर्वस्य जगतो मूलमुपादा-नम्, उपादानं विना कार्यानुत्पत्तेः | सा च नित्या, परमकारण-त्वात्, अनित्यत्वे त्वनवस्थाप्रसङ्गाच्च | अत एवैका सा ज्ञेया | एष च न्यायः शुद्धाध्वोपादानभूतस्य बिन्दोरपि समानः | ननु तत्र उद्देशसूत्रे मायेयः पाशत्वेनोद्दिष्टः, अत्र मायाया लक्षणमुक्तमिति विरोध इति चेत्, सत्यम् | मायायाः स्वतो बन्धकत्वाभावात् तत्र तत्कार्यमुद्दिष्टम् | अत्र तु तस्य कारणाधी-नत्वात् कारणस्य लक्षणमुक्तम् | कार्यस्य तु विस्तृतत्वात् पश्चाल्लक्ष- णमभिधास्यत इत्यविरोधः || १९ || पाशानुग्राहित्वात् पुरुषतिरोधायिका विभोः शक्तिः | पाशत्वेनाभिहिता पाशाश्च चतुर्विधास्त्वेवम् || २० || तात्पर्यदीपिका इदानीं शक्तिगणं निरूपयति- पाशेति | मलकर्ममायाकार्याणां पाशानामचेतनतया परमेश्व-रशक्त्यावेशं विना पशुबन्धनसामर्थ्याभावात् स्वावेशेन पाशानुग्रहं स्वकार्ये प्रवर्तनं कुर्वती पुरुषतिरोधायिका पुरुषाच्छादिका विभोः परमेश्वरस्य शक्तिः पाशतयोक्ता तत्त्वज्ञैरिति | पाशाश्च चतुर्विधास्त्वेवमित्युपसंहरति | एवमुक्तेन प्रकारेण पाशाश्चतुर्विधा इत्यर्थः | नन्वर्थपञ्चकं पाश इत्युपक्रम्य पाशाश्चतुर्विधा इत्युपसंहारे पूर्वापरविरोध इति चेन्नैवम्, स्थूलसूक्ष्मविभागेनोक्ताया मायाया एकत्वविवक्षया चातुर्विध्याभिधानादिति | पाशाश्च चतुर्विधास्त्वेवमित्युपसंहार-वाक्यस्थेन चशब्देन शास्त्रार्थोपसंहारो द्योतितः | एवं त्रिविधं तत्त्वमिति || २० || इति तत्त्वप्रकाशतात्पर्यदीपिकायां पतिपशुपाशात्मकविचा-रः प्रथमः परिच्छेदः || वृत्तिः इत्थं साक्षात् पाशत्रयमुक्त्वा शक्तेरुपचारेण पाशत्वमिति दर्शयन्नुक्तार्थमुपसंहरति- पाशेति || २० || शुद्धानि पञ्चतत्त्वान्याद्यं तेषु स्मरन्ति शिवतत्त्वम् | शक्तिसदाशिवतत्त्वे ईश्वरविद्याख्यतत्त्वे च || २१ || पुंसो ज्ञकर्तृतार्थं मायातस्तत्त्वपञ्चकं भवति | कालो नियतिश्च तथा कला च विद्या च रागश्च || २२ || अव्यक्तं मायातो गुणतत्त्वं तदनु बुद्ध्यहङ्कारौ | चेतोधीकर्मेन्द्रियतन्मात्राण्यनु च पञ्चभूतानि || २३ || तात्पर्यदीपिका अथ द्वितीयः परिच्छेदः अथ संक्षेपेणोक्तानां पतिपशुपाशानां विस्तारमुपदिशति- शुद्धानीति | अत्राद्यं पञ्चकं शिवस्वरूपत्वाच्छुद्धम्, मध्यमं सप्तकं शुद्धाशुद्धम्, पशुरूपत्वात् | कथमत्र सप्तकत्व-मित्यत आह- पुंसो ज्ञकर्तृतार्थं मायातस्तत्त्वपञ्चकं भवति | पुरुषस्य ज्ञानार्थं कर्तृत्वार्थं च मायातः तत्त्वपञ्चक-मुत्पद्यते | तेन कारणभूता माया, कार्यभूतं पञ्चकम्, तदुपहितः पुरुषः सप्तम इति सप्तकत्वम् | तदुक्तं शैवरहस्ये- माया कालो नियतिः कला च विद्याभिलाषकृत् पुरुषः | कॢप्तानि सप्तधैवं शुद्धाशुद्धानि तत्त्वानि || इति | शिष्टं केवलाशुद्धमव्यक्तादिपृथिव्यन्तम् | अव्यक्तस्य मायात उद्भवः, अव्यक्ताद् गुणतत्त्वस्य, गुणतत्त्वाद् बुद्धेः, बुद्धि-तत्त्वादहङ्कारस्य, अहङ्काराद् मनोबुद्धीन्द्रियकर्मेन्द्रिय-तन्मात्राणामुद्भवः, तन्मात्रेभ्य आकाशादिपृथिव्यन्तानामिति || १-३ || वृत्तिः इत्थं सकलविषयं पाशत्रयमुभयविषयां तिरोधान-शक्तिं चोक्त्वा मयोत्तीर्णविषयं शुद्धाध्वस्वरूपं पाशमाह- शुद्धानीति | शुद्धानि शुद्धतत्त्वानि | किं तानि नित्यानि, उतानित्यानि ? नित्यत्वे सृष्टिविरोधः, अनित्यत्वे किं तेषामुपादानमित्यत आह- तेषु मध्ये शिवतत्त्वं बिन्द्वात्मकम् आद्यं प्रधानमुपादानं स्मरन्ति पूर्वाचार्याः | परमोपादानत्वेनैव चास्य मायावन्- नित्यत्वं सिद्धमित्युक्तम् | अतश्चान्यानि चत्वारि तानि तत्कार्याणीति भावः | तदुक्तम्- मायोपरि महामाया (रौ० सं० ४|२८) इति | इदमत्राकूतम्- विद्यादितत्त्वानां विचित्रभुवनादिसन्निवेशादिमत्-त्वेन श्रुतेः कार्य-त्वाव्यभिचारात् तत्तत्त्ववासिनां च शरीरादि-योगात् तत्कारणं महामायात्मकं सिद्धमिति | यदुक्तम्- उपादानं शरीराणां विद्याविद्येश्वरात्मनाम् इति | किञ्च, नादादिद्वारेण मन्त्रतन्त्राद्युत्- पादकत्वमप्यस्याः श्रूयते- शक्तेर्नादो भवेद् बिन्दुरक्षरं मातृका ततः (मृ० क्रि० १|२) इत्यादि | इत्थं बिन्द्वात्मकं शिवतत्त्वं प्रसाध्य तत्कार्याणि चत्वारि तानि किन्नामानीत्यत आह- शक्तिसदाशि-वेति || २१ || एवं शुद्धानि तत्त्वानि संख्यातो नामतश्चोक्त्वाऽथोऽशु-द्धान्यपि तथैवोद्दिशति- पुंस इति | पुंसो बद्धात्मनोऽज्ञकर्तृतार्थमज्ञत्वकर्तृत्वसिद्ध्यै मायातः साक्षात् पारम्पर्येण च कालादितत्त्वपञ्चकं भवति | पञ्चकञ्चुकयुक्तस्यास्य भोक्तृत्वेन पुंस्त्वम्लयोगात् पुरुषतत्-त्वाख्या भवतीति वक्ष्यति || २२ || किं च- अव्यक्तमिति | धीकर्मेन्द्रियेति, बुद्धीन्द्रियकर्मेन्द्रियाणीत्यर्थः | अव्यक्ता-दीनि पञ्चविंशतितत्त्वानि मायातः पारम्पर्येणोत्पन्नानीति वक्ष्यामः | अत्र लक्षणोक्त्यवसरेण, एतेषां च || २३ || पुरुषस्य भोगहेतोः प्रधानतो विंशतिर्भवेत् त्र्यधिका | यस्मात् प्रकृतिगुणानां नात्यन्तं वस्तुतो भेदः || २४ || तात्पर्यदीपिका किमर्थमेषामुत्पादः कृतो भगवता महेश्वरेणेत्याशङ्क्-याह- पुरुषस्येति | पुरुषस्य पशोः स्वकृतपुण्यापुण्यफलभूतसुखदुःखानु-भवार्थमेषामुत्पत्तिः | भोगस्तु भोगायतनं भूतात्मकं शरीरम्, भोगसाधनानीन्द्रियाणि, भोग्यान् शब्दादिविषयान् विना न संभवतीति भोगार्थमेषां जन्मेति सिद्धम् | अव्यक्तगुणतत्त्व- योरत्यन्तभेदाभावान्न च तत्त्वाधिक्यमिति | एतदुक्तं शैवरहस्ये- अव्यक्तबुद्ध्यहङ्कृतिमनांसि चत्वारि शब्दमात्राद्यम् | श्रोत्राद्यं वागाद्यं वियदाद्यं पञ्चकं च पृथक् || तत्त्वचतुर्विंशतिकं त्रिगुणात्मतयैव केवलाशुद्धम् | इति || ४ || वृत्तिः सर्वेषां चैषां कुत्र कुत्रोपयोगः ? किञ्च, प्रधानात् साक्षाज्जातानि कानि ? तत्त्वान्तरव्यवधानेन जातानि कानीति सर्वं दर्शयिष्यामः | ननु अव्यक्तं मायातः (श्लो० २३) इत्यादिना प्रकृत्यधस्तनतत्त्वानां चतुर्विंशतेरुक्तत्वात् कथमत्र त्र्यधिका विंशति-रुच्यते ? अत आह- यस्मात् प्रकृतिगुणानामिति | गुणानामेव प्रकृतित्वेन सांख्यैरभ्युपगमात् तन्निरासाय तेषामचैतन्ये सत्यनेकत्वाद् घटादीनामिव कारणान्तरेण भवितव्यमिति प्रकृतिसिद्धिरस्माभिरुच्यते | ततः कार्यकारणयोरभेदविवक्ष- यैवमुक्तमित्यविरोधः || २४ || व्यापकमेकं नित्यं कारणमखिलस्य तत्त्वजातस्य | ज्ञानक्रियास्वभावं शिवतत्त्वं जगदुराचार्याः || २५ || तात्पर्यदीपिका प्रथमोद्दिष्टं शिवतत्त्वं लक्षयति- व्यापकमिति | व्यापकं व्याप्तं सर्वगतमित्यर्थः | एकमद्वितीयं सर्व- भूतस्वरूपेणावस्थितमित्यर्थः | नित्यम् अनश्वरम् | अखिलतत्त्व-जातस्य कालादिपृथिव्यन्तस्य कारणमुत्पादकम् | ज्ञानक्रियास्व-भावमिति | ज्ञानमात्रं क्रिया व्यापारः साक्षित्वं स्वभावो यस्य तत्त्वस्य तत् शिवतत्त्वमिति तल्लक्षणम् | जगदुराहुः | आचार्या आगमविद इति | अथवा स्वव्यतिरिक्तमस्ति चेत् तदखिलं व्याप्नोतीति व्यापकमित्युक्तम् | स्वसमानासमानपुरुषान्तराभावादेकत्वम् | व्याप्त्येकत्वे चाकाशस्यापि स्त इति तन्निवृत्त्यर्थं नित्यपदोपादानम् | व्याप्तिनित्यत्वैकत्वानि पशोरपि विद्यन्त इति तन्निवृत्त्यर्थं कारणम-खिलस्य तत्त्वजातस्येति पदम् | मायायाश्च व्यापकनित्यत्वैकत्वाखिल- कारणत्वसद्भावात् तन्निवृत्त्यर्थं ज्ञानक्रियास्वभावमुत्युक्तम् | अतो यद् व्यापकमेकं नित्यमखिलतत्त्वकारणं ज्ञानक्रियास्वभावम्, तच्छिततत्त्वमिति | एतदुक्तं श्वेताश्वतरे- सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः | सर्वव्यापी स भगवांस्तस्मात् सर्वगतः शिवः || (३|११) इति | शिवधर्मोत्तरे च- आदिमध्यान्तनिर्मुक्तः स्वभावविमलः प्रभुः | सर्वज्ञः परिपूर्णश्च शिवो ज्ञेयः शिवागेम || इति | सिद्धान्तहृदये च- कूटस्थममृतं ब्रह्म सत्यमेकमविक्रियम् | निष्प्रत्यनीकं चित्सौख्यं नित्यतृप्तमलुप्तदृक् || अध्वातीतं परं व्योम विश्वव्यापि निरामयम् | अणीयोऽणोरजं नित्यमुक्तं च महतो महत् || अप्रतर्क्यमरूपादि निरौपम्यमलक्षणम् | सदात्मकं स्वयंज्योतिरवाङ्मनसगोचरम् || अतन्निषेधमार्गेण ज्ञायते यच्च सूरिभिः | यच्च भ्रामकवत् कर्तृ ज्ञापकं च प्रदीपवत् || मायासहायं तत्प्राहुः शिवतत्त्वं मनीषिणः | इति || ५ || वृत्तिः यथोद्दिष्टेषु तत्त्वेषु प्रथमोद्दिष्टं तावच्छिवतत्त्वं लक्षयति- व्यापकमिति | यत्प्राक् शुद्धाध्वोपादानत्वेन बिन्द्वात्मकं शिवतत्त्वं साधितं तद् व्यापकम्, शुद्धाशुद्धात्मनो जगतो निजपरिणति-रूपाभिर्निवृत्त्यादिभिः कलाभिर्विश्वं व्याप्नोतीत्यर्थः | यदाहुः- कलावस्थानि तत्त्वानि तत्त्वस्थो भुवनव्रजः (मृ० क्रि० ८|७१) इत्यादि | तच्च एकम्, परमकारणत्वात् | अनेकत्वे हि जडत्वे सत्यनेक-त्वाद् घटादिवत् कार्यं स्यादित्युक्तम् | अत एव नित्यम्, अनित्यत्वे परमकारणत्वाभावात्, तस्यापि चोपादानान्तरापेक्षायामन- वस्थाप्रसङ्गाच्च | निखिलस्य च शुद्धरूपस्य तत्त्वजातस्य कारणम् उपादानम् | न त्वशुद्धस्य तत्त्वस्य, तस्य मायोत्पन्नत्वे-नोक्तत्वादस्य च शुद्धत्वेनाशुद्धकारणत्वायोगात् | किञ्च, ज्ञानक्रिये स्वस्मिन् स्थिते आत्मनां भावयतीति ज्ञानक्रियास्व-भावम् | अयमर्थः- तत्तद्भुवनेश्वराराधनाद् दीक्षया वा स्वकार्यभूतशुद्धाध्वभुवनप्राप्तानां ज्ञानक्रिये प्रकटयतीति | यदुक्तं श्रीमन्मतङ्गे- शान्त्यतीतं परं तत्त्वमविनाश्यव्ययात्मकम् | येनोन्मीलितसामर्थ्याः पशवो (पशवः शिवतां गता इति मुद्रितग्रन्तपाठः शुद्धः |) जीवतां गताः || (वि० ३|३२-३३) इति | अत एवास्य बोधकत्वम् | ननु मायापि कलादिद्वारेण ज्ञानक्रि-याप्रकाशिकेत्युक्तम्, सत्यम्, मयोत्पन्नस्य ज्ञानादेः किञ्चिद्विषय-त्वादनात्मादावात्मादिभावनाहेतुत्वाच्च सा मोहिका | इदं तु सर्वविषयज्ञानादिप्रकाशकत्वाच्छास्त्रसिद्धोपादानद्वारेण शिवादिशुद्धवस्तुबोधकत्वाच्च बोधकमित्यविरोधः | यद्वा ज्ञान-क्रियाख्यं स्वं धनमात्मनां भावयत्यभिव्यनक्तीति ज्ञानक्रि-यास्वभावम् | अथवा ज्ञानक्रिये अस्य न स्वभाव इति नङ्प्रश्लेष-णाज्जडरूपतया व्याख्येयम्, न तु ज्ञानस्वभाव-तया, उपादानत्वेन मृदादिवदचेतनत्वात्, ज्ञानस्वभावस्यो-पादानत्वायोगात् | तदुक्तं श्रीमत्पराख्ये- निमित्तमीश्वरस्तेषा-मुपादानं स बिन्दुराट् इति | अन्यत्रऽप्युक्तम् (पौष्करागमीयं वचनमिदम् |)- सा च कुण्डलिनी शम्भोः शक्तिः शुद्धा जडात्मिका इति | एवंभूतमुपादानरूपं महा-मायाख्यं शिवतत्त्वमाचार्या जगदुरिति | न त्वियमार्या परम-शिवविषयतया तच्छक्तिविषयतया वा व्याख्येया, शिवादिपृथि-व्यन्ततत्त्वल-क्षणप्रस्तावे तत्त्वातीतयोस्तयोरत्राप्रस्तुत्वात् | तयोरेव शिवतत्त्वरूप-त्वेन शुद्धाध्वोपादानत्वाभ्युपगमे परिणामित्-वादचेतनत्वादिदो- षप्रसङ्गात् | न च चिद्विवर्ताभ्युपगमो युक्तः, सर्वप्रमाणसिद्ध-त्वेन जगतोऽसत्यत्वाभावात्, विवर्तस्य चासत्य-त्वाभ्युपगमात् | शिवतत्त्वसंज्ञाया बिन्द्वात्मनः कुण्डलिन्याश्-चित्समवायाभावे-न परिग्रहशक्तित्वेन श्रवणाच्च प्रोक्तैव व्याख्या युक्ता | तदुक्तम्- नात्र (पौष्करागमस्य श्लोका इमे इति लु० सं०, भा० २, पृ० १२१ दर्शनादवगम्यते |) शक्तिरुपादानं चिद्रूपत्वाद्यथा शिवः | परिणामोऽचितः प्रोक्तश्चेतनस्य न युज्यते || चितो विवर्त एवोक्तस्तथात्वे कार्यशून्यता | सर्वप्रमाणसंसिद्धं चिद्विवर्तं कथं जगत् || मायापि नात्रोपादानं मोहकत्वात् स्वतेजसा | सा च कुण्डलिनी शम्भोः शक्तिः शुद्धा जडात्मिका || न तादात्म्यात् स्थिता किन्तु वर्तमाना परिग्रहे | शिवे कर्तरि तादात्म्यान्नेयं कुण्डलिनी स्थिता || उपादानं त्वतो हेतोः कुलाले मृत्तिका यथा | इति | शब्दब्रह्मवादिपक्षेणाप्यात्मन एव नादादिक्रमेण बहुधाऽवस्थानं न युज्यत इत्युक्तं नादकारिकासु- अविकार्यत्रात्मोक्तस्तच्छक्तिश्चाप्यतो न योग्यौ तौ | बहुधा स्थातुं यद्वा चैतन्यविनाकृतौ विकारित्वात् || (१९) इत्यादि | अतः शब्दोपादानत्वेनापि महामाया सिद्ध्यतीत्येवमादि विस्तरेणास्माभिर्मृगेन्द्रवृत्तिदीपिकायां दर्शितमिति ततोऽवधार्यम् || २५ || अस्मिन्निलीय निखिला इच्छाद्याः शक्तयः स्वकं कार्यम् | कुर्वन्ति तेन तदिदं सर्वानुग्राहकं प्राहुः || २६ || तात्पर्यदीपिका ननु निष्क्रियस्य शिवतत्त्वस्य कथं निखिलतत्त्वकारणत्वमित्याशङ्क्याह- अस्मिन्निति | अस्मिन् परमेश्वरतत्त्वे निलीनास्तत्तत्त्वमवलम्ब्य स्थिता इच्छाद्याः शक्तयः स्वकार्यं कुर्वन्ति, न स्वातन्त्र्येण, तासां शिवसामर्थ्यरूपत्वात् | तेनासौ शिवो निखिलतत्त्वकारणम्, अत एव सर्वानुग्राहकश्च भवतीति | अस्य शिवतत्त्वस्य षडध्वव्याप्तिः- स्वराः षोडश वर्णाध्वा ताराद्यं नवकं पदम् | मन्त्रौ षड्वर्णपञ्चार्णौ तत्त्वं तत्र शिवात्मकम् || नेन्तं नमः परायाद्यं त्रिपञ्चभुवनान्यपि | निवृत्त्यादीनि पञ्चात्र शान्त्यतीतादयः कलाः || सर्वत्रान्ते पदं योज्यं स्यात् षडध्वात्मने नमः || ६ || वृत्तिः अत एव- अस्मिन्निति | इच्छाद्याः शिवशक्तयः, अस्मिन् उपादाने प्रथमं निलीय तदधिष्ठानेन स्वकमनुग्राह्यानुग्राहकलक्षणं कार्यं तच्छेषभूतं च सृष्ट्यादिकं कुर्वन्ति | ततस्तदिदमपि परम्परया सर्वानुग्राहकत्वात् सर्वानुग्राहकं प्राहुः, न तु शक्त्यधिष्ठा-ननैरपेक्ष्येणास्वातन्त्र्यात्, अचेतनस्य चेतनाधिष्ठानं विना कार्योत्पादनायोगात् || २६ || चिदचिदनुग्रहहेतोरस्य सिसृक्षोर्य आद्य उन्मेषः | तच्छक्तितत्त्वमभिहितमविभागापन्नमस्यैव || २७ || तात्पर्यदीपिका अथ शक्तितत्त्वमाह- चिदिति | अयमर्थः- पशुपाशानुग्रहार्थं सिसृक्षोः परमेश्वर-स्याद्यो य उन्मेषः उन्निद्रभावः, ईक्षणमिति यावत्, तच्छक्तितत्त्व-मित्युक्तम्, शिवतत्त्वादभिन्नं च, शक्तितद्वतोर्भेदासंभवादिति | ननु कथं शक्तेः सद्भावावगमः ? कार्यानुपपत्त्येति ब्रूमः | निष्क्रियस्य शिवस्य जगत्सृष्ट्यादिकं शक्त्यभावे न संभवतीति तत्सिद्धिः | तथा हि- यथाग्नेरङ्गुलिसंयोगे विद्यमानेऽपि मण्यादि-प्रतिबन्धकसद्भावदशायां स्फोटकार्यानुद्भवादग्न्यङ्गुलि-संयोगव्यतिरिक्ता दाहिका शक्तिः कल्प्यते, तथात्रापि पञ्चविधकार्-यान्यथानुपपत्त्या शक्तिसद्भावसिद्धिः | न चाग्न्यङ्गुलिसंयोग एव स्फोटहेतुरिति वाच्यम्, तस्य प्रतिबन्धाप्रतिबन्धावस्थयोः सद्भावेनाविशेषेण स्फोटकार्योदयप्रशङ्गात् | न च प्रतिबन्ध-काभावात्मककारणाभावात् तदानीं कार्यानुदयो न शक्त्य-भावादिति वाच्यम्, प्रतिबन्धकाभावस्याकारणत्वात् | भूतानां भविष्यतां देशान्तरे वर्तमानानां च प्रतिबन्धकानाम-भावसद्भावेऽपि स्फोटकार्यानुत्पत्तेस्तस्याकारणत्वसिद्धिः | न चैतस्य प्रतिबन्धकाभावस्य कारणत्वेन तद्व्यतिरिक्ताभावसद्-भावेऽपि कार्यानुदयो घटत इति वाच्यम्, एतदभावस्य कारणत्वे प्रमाणा-भावात्, विपरीतप्रमाणसद्भावाच्च | तथाहि- विमतो भावः स्फोटाजनकः, प्रतिबन्धकाभावत्वात्, तदन्याभाववदिति | तथैतत्-प्रतिबन्धकविगमने एतदभावसद्भावेऽपि प्रतिबन्धकान्तरसद्भावे स्फोटकार्यानुदयाच्चैतस्याकारणत्व- सिद्धिः | न च सर्वेषां प्रतिबन्धकानामभावः कारणम्, उपरिदीपनयनस्याङ्कुरोत्पत्ति- प्रबन्धकस्यापनयने बीजादङ्कुरोत्-पत्तिप्रसङ्गात् | अथ न दीपनय-नप्रध्वंसः कारणम्, तत्प्राग-भावस्य कारणत्वात् | स चात्र नास्तीति तस्य तत्र नीतत्वादिति चेत्, नैवम्, उपरिदीपनयनप्रागभावान्तरसद्भावेनाङ्कुरोत्पादप्र-सङ्गात् | न चासावेव कारणमिति वाच्यम्, उपरिनीतदीपेषु बीजाङ्कु-रेष्वेतद्दीपनयनप्रागभावस्य सद्भावात् तेभ्यो बीजेभ्योऽङ्कुरोत्पत्तिप्रसङ्गात् | अतो दीपनयनादतीन्द्रियं किमपि कारणं नष्टमित्यवगम्यते, तदभावाप्रतिबन्धावस्थायां कार्यानुदयनप्रतिबन्धका-भावस्याभावादिति | ननु शक्तेर्विनाशे कारणाभावात् प्रतिबन्ध-कावगमेऽग्नेः स्फोटकार्याभावो गतिस्तम्भने च सर्पादेर्ग-मनाभावश्च प्रसज्यते, मन्त्रेण नष्टशक्तित्वादिति चेत् ? नैवम्, नष्टशक्तिज्वालानाशे पुनरुत्पद्यमानज्वालायाः शक्तिनाशा-भावेन स्फोटोदयोप-पत्तेः | सर्पस्य तु ध्यातमारवशात् गमना-भावः, न शक्तिनाशादि-ति पुनर्गमनोपपत्तेः | तस्माद् कार्यान्य-थानुपपत्त्या शक्तिसद्भा-वसिद्धिः | तदुक्तं भट्टपादेन- शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः इति | सेयं परा शक्तिं परमेश्वरादभिन्ना | तस्या विकारा इच्छायाः शक्तयस्तदभिन्ना इति | तदुक्तं मातङ्गे- पत्युः शक्तिः परा सूक्ष्मा जाग्रतो द्योतनक्षमा | तया प्रभुः प्रबुद्धात्मा स्वतन्त्रः स सदाशिवः || (वि० ५|२०) इति | अस्य शक्तितत्त्वस्य षडध्वव्याप्तिः- अनन्तायेति पूर्वं यत् पदानां तु चतुष्टयम् | तत्त्वशक्तिः कलातीता पूर्वस्मात्तु विशिष्यते || ७ || वृत्तिः इत्थं शिवतत्त्वं प्रसाध्य तत्कार्यभूतं शक्तितत्त्वमाह- चिदिति | शिवो हि चितामात्मनामनुग्रहं मोक्षं कर्तुमिच्छुस्तेषां मलपाकाय कर्मभोगार्थं च सृष्ट्यादि कृत्वा पाशानामचिता-मनुग्रहं स्वव्यापारसामर्थ्योत्पादनं करोति | अत्र पाशानु-ग्रहे साध्ये प्रथमोपादानत्वाद् बिन्दुः साधनमित्युक्तम् | अतोऽयमर्थः पर्यवसन्नः- सिसृक्षोः परमेश्वरस्य चिदचिद्विषयो योऽनुग्रहः, तद्धेतोस्तत्साधनरूपस्य अस्य बिन्दोर्य आद्य उन्मेषः प्रथमः परिणामः शान्त्यादिभुवनात्मनो नादात्मकश्च, तच्छक्तितत्त्वमुच्यते | नन्वेतच्छक्तितत्त्वं बिन्द्वादिवन्निरवयवमुत सावयवमत आह- अविभागापन्नमिति | विभज्यन्ते एभिः पदार्थाः परस्परं विविच्यन्त इति विभागा अवयवाः | अविभागापन्नं निरवयवस्वरूपम्, अस्यैव परमकारणस्य बिन्दोर्मायाया वा शक्ति-रूपस्यैव परमकारणत्वात् | शान्त्यादीनि तु कार्यरूपाणि तत्त्वानि व्यक्तत्वेन भुवनाद्याधारत्वात् सावयवान्येव | ननु शिवतत्त्वेऽपि भुवनानि श्रुयन्ते ? सत्यम्,- न तु साक्षात् | किन्तु शान्तिकलामस्तक एव तानि स्थितानि, मायाभुवनानीव कलामस्तक इत्यविरोधः || २७ || ज्ञानक्रियाख्यशक्त्योरपकर्षोत्कर्षयोरभावेन | यः प्रसरस्तं प्राहुः सदाशिवाख्यं बुधास्तत्त्वम् || २८ || तात्पर्यदीपिका अथेदानीं सदाशिवादिशुद्धतत्त्वानां स्वरूपं निरूपयितुमाह- ज्ञानेति | अयमभिप्रायः- पराशक्तिविकारभूतज्ञानेच्छाक्रियाशक्ती-नां प्रसरावस्थायां ज्ञानक्रियात्मकशक्तिद्वयसाम्ये सतीच्छो-द्रेको यदा विवक्ष्यते, तदा शिवतत्त्वं सदाशिवाभिधानमिति | तदुक्तं सिद्धान्तहृदये- ज्ञानक्रियाख्ये न्यक्तुल्ये शक्तीच्छोद्रेकमश्नुते | यदा सदाशिवाख्यस्तु तदासौ शिव उच्यते || इति | तत् तत्त्वं स्फटिकनिभम् | तदुक्तं चन्द्रज्ञाने- सदाशिवाख्यं विमलं शुद्धस्फटिकसन्निभम् | इति | अस्य सदाशिवतत्त्वस्य षडध्वव्याप्तिः- वर्णाध्वात्र ककारः स्याच्छाश्वतायादिकं त्रिकम् | पदाध्वा च स्वयं तत्त्वभुवने शान्तिरेव च || ८ || व्ट्तिः अथ सदाशिवतत्त्वमाह- ज्ञानेति | सिसृक्षुत्वेन प्रागुक्तस्य परमशिवस्य ज्ञानक्रियाशक्त्योः साम्येनाधिष्ठानात् तस्यैवोपादानतयोक्तस्य बोन्दोर्यो द्वितीयः प्रसरः परिणामः शक्तितत्त्वव्यवधानेन जायते, तत् सदाशिवतत्त्वमाहुः || २८ || न्यग्भवति यत्र शक्तिर्ज्ञानाख्योद्रिक्ततां क्रिया भजते | ईश्वरतत्त्वं तदिह प्रोक्तं सर्वार्थकर्तृ सदा || २९ || तात्पर्यदीपिका ईश्वरतत्त्वनिरूपणार्थमाह- न्यगिति | न्यग्भूतज्ञानेच्छात्मकशक्तिद्वयसाम्ये सति यदा क्रियोद्रेको भवति, तदा शिवतत्त्वमीश्वराभिधानं भवति | तत् सर्वसत्त्वानां कर्तृस्वभावम्, क्रियोद्रेकात् | तत् पावकाभम् | तदुक्तम्- अत (श्लोकोऽयं चन्द्रज्ञानस्य स्यात् |) ऊर्ध्वं भवेदन्यदीश्वरावरणं महत् | दीप्तपावकवर्णाभं विद्येशास्तत्र संस्थिताः || इति | ननु ज्ञानेच्छान्यग्भावस्य स्वविषयं प्रकाश्य तुष्णीम्- भावरूपत्वेनासत्त्वरूपत्वाभावात् | तदुक्तं सिद्धान्तहृदये- ज्ञानेच्छे न्यक्समे शक्ती क्रियाधिक्यं यदाश्नुते | तदासावीश्वराख्यां तु लभते परमेश्वरः || इति | अस्य षडध्वव्याप्तिः- खकारो वर्णाध्वा | ध्यानाहारायेत्-यादीनि त्रीणि पदानि | नं ईशानमूर्ध्ने, ऽनमः शिवायऽ इति मन्त्रौ | स्वयं तत्त्वाध्वा | अनन्तादिशिखण्ड्यन्तानि भुवनानि | विद्या कलाध्वा || ९ || वृत्तिः तृतीये तु प्रसरे- न्यगिति | यत्र जगत्कर्त्रनन्ताद्यधिष्ठानेन क्रियाशक्तेर्व्यापारबाहुल्-यम्, तत्सादाख्यतत्त्वाधस्तनं प्रसरमीश्वरतत्त्वमाहुः | तस्य च सर्वार्थकर्तृत्वं क्रियाशक्त्यधिष्ठितत्वात्, सर्वकर्तॄणामनन्-तादीनामत्रैवान्तर्भावस्य वक्ष्यमाणत्वाच्च || २९ || न्यग्भवति कर्तृशक्तिर्ज्ञानाख्योद्रेकमश्नुते यत्र | तत्तत्त्वं विद्याख्यं प्रकाशकं ज्ञानरूपत्वात् || ३० || तात्पर्यदीपिका विद्यातत्त्वं वर्णयति- न्यगिति | न्यग्भूतेच्छाक्रियाशक्तिसाम्ये सति यदा ज्ञानोद्रेको भवति, तदा शिवतत्त्वं विद्याख्यं भवति | तदप्युक्तम्- उद्रिच्यते ज्ञानशक्तिः क्रियेच्छे न्यक्समे यदा | तदासौ शुद्धविद्याख्यः सर्वविद्यानिधिः शिवः || इति | प्रयोजनमाह- प्रकाशकमिति | तत्र हेतुमाह- ज्ञानरूपत्वा-दिति | पद्मरागसमानवर्णा | तदुक्तम्- तद्बाह्ये (श्लोकोऽयं चन्द्रज्ञानस्य स्यात् |) शुद्धविद्या स्यात् कोटीनां शतलक्षका | सुदीप्ता निर्मला सूक्ष्मा पद्मरागसमप्रभा || इति | अस्याः षडध्वव्याप्तिः- गकारो वर्णः | शिवायेत्यादीनि त्रीणि पदानि | मं तत्पुरुषवक्त्राय इति, नमः शिवाय इति मन्त्रौ | शुद्धविद्या तत्त्वम् | वामाद्या नव भुवनानि | प्रतिष्ठा कला || १० || वृत्तिः तथा- न्यगिति | यस्त्वीश्वरतत्त्वाधस्तने बिन्दुपरिणामरूपे तत्त्वे सप्तकोटिम-हामन्त्राधिष्ठानेन ज्ञानशक्तेरुद्रेको भवति, तत्तत्त्ववासिनां ज्ञानरूपत्वात् सर्वज्ञत्वप्रकाशहेतुत्वात् प्रकाशकं तद् विद्यात-त्त्वमुच्यते || ३० || नादो बिन्दुः सकलौ सादाख्यं तत्त्वमाश्रितौ कथितौ | विद्येशाः पुनरैशे मन्त्रा विद्याश्च विद्याख्ये || ३१ || तात्पर्यदीपिका ननु नादबिन्दु शास्त्रान्तरे तत्त्वमध्ये कथितौ, अतस्तत्त्वा-धिक्यमनयोरन्तर्भावो वा वक्तव्यः | तथाहि- तदूर्ध्वं बैन्दवं तत्त्वं निर्मलं सर्वतोमुखम् | परमं सर्वतत्त्वानामनन्तं ज्योतिरव्ययम् || इत्यादि | तथा विद्येश्वरविद्यामन्त्राणां सदाशिवे वृत्तिमन्ये मन्यन्ते | ततस्तन्निरासार्थं तयोरन्तभावार्थं चाह- नाद इति | अयमभिप्रायः- नादबिन्दू कलावत्तया सकलौ सदा सर्वदा शिवाख्यं तत्त्वमाश्रितौ, तदभिन्नौ कथितावित्यर्थः | केचित् सदाशिवं तत्त्वमाश्रितावित्याहुः | विद्येशानन्तादय ईश्वरतत्त्वे वर्तन्ते | तदुक्तं सिद्धान्तागमे- अनन्तसूक्ष्मौ शिवतमैकनेत्रैकरुद्रकाः | त्रिमूर्तिपूर्वं श्रीकण्ठः शिखण्डी च ततोऽष्टमः || एते विद्येश्वरास्त्वष्टावीश्वरे संप्रकीर्तिताः || इति | मन्त्राश्च विद्याश्च प्रकाशकतया प्रकाशकं विद्यातत्त्व-माश्रित्य वर्तन्त इति | तदुक्तम्- मन्त्रा विद्याश्च विद्यायां बीजभूता भवन्ति हि इति || ११ || वृत्तिः इत्थं शुद्धतत्त्वान्यभिधाय तेष्वेव वस्त्वन्तरस्यान्तर्-भावमाह- नादो बिन्दुरिति | तत्र परबिन्दोः शिवतत्त्वत्वेन तत्कार्यस्य सूक्ष्मनादस्य शक्ति-तत्त्वान्तर्भावेन चोक्त (तत्त्वा ? त्वा)त् सकलो बिन्दुरक्षरबिन्-द्वात्मको नादश्च स्थूलध्वनिरूपः | द्वौ च सदाशिवतत्त्वान्तर्-भूतौ ज्ञेयौ | विद्येशानामनन्तादीनामीश्वरतत्त्वेऽन्तर्भावः | मन्त्राणां सप्तकोटिसंख्याकानां वाचिकशब्दानां च व्योमव्याप्यादीनां विद्यानां च कामिकाद्यष्टाविंशतितन्त्राणां विद्यातत्त्वेऽन्तर्-भावः || ३१ || पञ्चानामप्येषां नहि क्रमोऽस्तीह कालरहितत्वात् | व्यापारवशादेषां विहिता खलु कल्पना शास्त्रे || ३२ || तात्पर्यदीपिका ननु नित्यतया विभुत्वेन चैषां क्रमासंभवात् कथं तत्सद्भावप्रतिपादनमित्याशङ्क्याह- पञ्चानामिति | अयमभिप्रायः- देशकालकृतस्य प्रथमचरमभावात्म-कस्य क्रमस्यासंभवेऽपि शक्तिव्यापारभेदोन्नेयभेदवशा-देषां तत्त्वानां सद्भाव आश्रीयत इति || १२ || वृत्तिः पञ्चेतीति काचिदार्या केषुचित्पुस्तकेषु दृश्यते, तदसत्, द्वयोरप्यध्वनोरेवं क्रमप्रसवयोगिनोः | विलयः प्रातिलोम्येन शक्तितत्त्वद्वयावधिः || (मृ० वि० १३|१७९) इत्यादिभिरेषां सृष्टिसं-हारक्रमप्रतिपादकैस्तत्तद्भुवनवासिनामवस्थानभेदाभिधा- यिभिः शुद्धाध्वन्यपि शुद्धकालसद्भा(वा?व)वेदिभिर्वाक्यैर्-विरोधात् | सेयमशास्त्रज्ञैः प्रक्षिप्तेत्युपे(क्षै?क्ष्यै)व || ३२ || तत्त्वं वस्तुत एकं शिवसंज्ञं चित्रशक्तिशतखचितम् | शक्तिव्यापृतिभेदात् तस्यैते कल्पिता भेदाः || ३३ || तात्पर्यदीपिका ननु किमर्थं परमेश्वरतत्त्वस्य स्वत एवामी भेदा नाभ्यु-पगम्यन्ते, येन शक्तिव्यापारोपाधिकृतभेदाश्रयणमित्याशङ्-क्याह- तत्त्वमिति | यतः शिवतत्त्वस्य परमार्थतो भेदासंभवस्ततः शक्तिव्या-पारोपाधिकृता एवामी पञ्च भेदाः | तद्भेदासंभवश्च ईश्वरानेकत्वकल्पनासंभवादिति, भेदस्वरूपासंभवाद्वा | स चाश्रयासंभवात् | तथा हि- कोऽयं भेदाश्रयः ? भिन्नो वा स्यादभिन्नो वा ? यद्यभिन्ने वस्तुनि भेदस्य वृत्तिः, तदैकपदार्था- भावप्रसङ्गः, भेदसमावेशात् | यदि भिन्ने भेदस्य वृत्तिः, किं तर्हि भेदेन प्रयोजनम् ? वस्तुतः पूर्वमेव भिन्नत्वात् | अस्तु भेदवति भेदस्य वृत्तिः | तत्र यदि भेदान्तरेण भिन्ने तद्वृत्त्यभ्युपगमस्त-दानवस्था, भेदान्तरस्यापि भिन्नवृत्तित्वात् | न च स्वेनैव भिन्ने स्वयं वर्तत इति वाच्यम्, आत्माश्रयप्रसङ्गात् | तस्मादभिन्न एव वस्तुनि भेदस्य वृत्तिरभ्युपगमनीया | तदा च तस्य चन्द्रभेदवद-परमार्थत्वम्, अभिन्नवृत्तित्वादिति | न च स्वरूपमेव भेदः, अयमस्मादभिन्न इति सापेक्षस्य भेदप्रतिभासस्याभावप्रसङ्गात् | न च घट इत्यघटव्यावृत्तेरप्यवभास इति वाच्यम्, पदार्थेषु वर्तमान- ताद्यवभासेनावर्तमानतादिव्यावृत्त्या क्षणिकत्वादि-प्रसङ्गात् | तत्त्वं वस्तुतः परमार्थत एकम् अभिन्नम् अद्वितीयम् | किं तदित्यत आह- शिवसंज्ञं शिवाख्यम्, प्रमाता प्रमितं च विश्वं शिवः सदैको बहुधा चाकशीति इति श्रुतेः | चित्रशक्तिशत- खचितमिति नानारू-पशक्तिसहस्रमुद्रितम् | तदुक्तमध्वसिद्धौ- चित्रशक्तिसहस्राढ्यं शिवतत्त्वं समातिगम् | विभक्तं पञ्चधा चैकं शक्त्युल्लासविभेदतः || इति | तस्माच्छक्तिव्यापारभेदादेव तस्य महेश्वरस्यैते सदाशिवादिभेदा इति || १३ || वृत्तिः शिवस्यापि सदाशिवाअदिभेदः शास्त्रेषु श्रूयते, स किं परमार्थतो न वेत्यत आह- तत्त्वमिति | परमार्थतः परमशिवाख्यमधिष्ठातृरूपं तत्त्वमेकमेव, तस्य कर्तृत्वेन चैतन्याव्यभिचारात्, चैतन्यस्य च विकारित्वाभावादित्युक्तम् | तच्च चित्रशक्तिशतखचितम् | शक्तर्ज्ञेयकार्यानन्त्यादौपाधिकानन्तभेदभिन्नया शक्त्या समवेतमित्यर्थः | ततश्चास्य शक्तिव्यापारभेदादुपचारेण सदा-शिवादिभेदाः काल्पनिका एव, न तु परमार्थतः | अधिष्ठेयस्य तु बिन्दोः शिवतत्त्वाद्यवस्थाभेदः सत्य एवेत्युक्तम् | यच्छ्रूयते- किन्तु यः पतिभेदोऽस्मिन् स शास्त्रे शक्तिभेदतः | कृत्यभेदोपचारेण तद्भेदस्थानभेदजः || इत्यादि | (मृ० वि० १३|१६४-१६५) लयादिभेदः प्रागुक्तो यदुपाधौ शिवस्य तु | स बिन्दुरिति मन्तव्यः सैव कुण्डलिनी मता || इति | अत एव सदाशिवाद्याकारकल्पनमपि तस्य ध्यानार्थमेव, न तु परमार्थत इत्युक्तं श्रीमत्पौष्करे- साधकस्य तु लक्ष्यार्थं तस्य रूपमुदाहृतम् इति | श्रीमन्मृगेन्द्रेऽपि- वपुषोऽविद्यमानत्वाद् यद्यत्कृत्यं करोति सः | तत्र तत्रास्य तत्कर्तृवपुषाऽनुकृतं वपुः || इति || ३३ || (क्रि० ३|४१) चिदचिदनुग्रहहेतो रूपाण्येतानि स प्रभुः कृत्वा | कुरुते चितामनुग्रहमनादिमलरुद्धशक्तीनाम् || ३४ || तात्पर्यदीपिका ननु किमर्थमेतानि रूपाणि करोति भगवानित्याशङ्क्याह- चिदिति | अनादिमलप्रच्छादितशिवस्वभावानां पशूनां पाशानां जडानां चानुग्रहं कर्तुमेतानि रूपाणि स भगवान् करोतीत्यर्थः | तदुक्तम्- शिवात्मकमिदं विश्वं शिव आधारकारणम् | अस्य शक्तिर्विपक्त्री स्यान्नियन्ता च सदाशिवः || ईशः कर्ता कारकश्च शुद्धविद्या प्रकाशिका | एभिरीशोऽनुगृह्णाति कॢप्तैर्भेदैश्चराचरम् || इति || १४ || वृत्तिः एतदेवाह- चिदिति | शिवो हि चिदनुग्रहार्थमेवैतानि रूपाणि करोति, सदाशिवादिभ्येयाकारानधितिष्ठतीत्यर्थः | ततस्तानधिष्ठाया-चिदनुग्रहोपचिता- नामात्मनामेवानुग्रहं करोति, तस्यापि चिदचिदनुग्रहार्थत्वेनोक्तत्वात् | अनादिमलरुद्धशक्तीनामित्येतद-नुग्रहापेक्षायां विशेषणद्वारा हेतुः || ३४ || भुक्तिं मुक्तिमणूनां स्वव्यापारे समर्थताधानम् | जडवर्गस्य विधत्ते सर्वानुग्राहकः शम्भुः || ३५ || तात्पर्यदीपिका चितामचितां च कीदृशमनुग्रहं करोति भगवानित्याशङ्-क्याह- भुक्तिमिति | भुक्तिं सुखदुःखानुभवरूपाम्, मुक्तिं नित्यानन्दानुभ-वलक्षणां च अणूनां संसार्यात्मनाम् | स्वव्यापारे समर्थताधानं जडवर्गस्य पाशवर्गस्य विधत्ते करोति | सर्वानु-ग्राहकः, अतः कारणाच्छम्भुरिति | ननु सुखदुःखानुभवप्र- दानस्य कथमनुग्रहरूपत्वम्, नित्यनिरतिशयानन्दे विद्यमाने विषदूषितमध्वन्नकल्पसुखलेशप्रदानस्यानुग्रहरूपत्वा-सम्भवात् | दुःखानुभवप्रदानस्याननुग्रहरूपत्वं सर्वेषां सम्मतमेवेति चेत् ? उच्यते, सुखानुभवस्य तथाभूतस्यापि नित्यसुखरागोत्पादद्वारेणापवर्गहेतुतयाऽनुग्रहरूपत्वम् | दुःखानुभवस्यापि संसारवैराग्योद्वेगजननद्वारेणापवर्ग-हेतुतयाऽनुग्रहरूपतत्वमिति तत्प्रदातुरनुग्राहकत्वम् | ननु तथाप्यस्य न सर्वा-नुग्राहकत्वम्, दक्षाध्वरादौ दक्षादिनि-ग्रहश्रवणात् | घृणानिधित्वं च तेनैव बाधितम् | नहि घृणा-वतः कदाचिदपि प्राणिहिंसा दृष्टेति | रागादिमत्त्वं च तेनैवानु-मितम् | नहि रागादिरहितस्य प्राणिहिंसा दृष्टेति | नैवम्, तन्निग्रहस्य दोषनिर्हरणार्थतया सर्वलोकपथ्यतया चानुग्रहरूपत्वात् | तदुक्तं श्रीवायवीये- ये के च निग्रहा लोके ब्रह्मादिषु निदर्शिताः | तेऽपि लोकहितायैव कृताः श्रीकण्ठमूर्तिना || सदोषा एव देवाद्या निगृहीता यथोचितम् | अतस्तेऽपि विपाप्मानः प्रजाश्च विगतज्वराः || इति | (शि० वा० १|३१|२३, २५) अत्रेश्वरनिन्दा दक्षादीनां दोषः | तस्या दोषत्वम् अथ य एनं द्वेष्टि, स एव पापीयान् भवति इत्यादिश्रुतेरवगम्यते | एवेत्यव-धारणा | अनन्तफलत्वं च तथा | शिवनिन्दा गुरोर्निन्दा शिवज्ञानस्य दूषणम् | देवद्रव्यापहरणं गुरुद्रव्यविनाशनम् || हरन्ति ये च संमूढाः शिवज्ञानस्य पुस्तकम् | सुमहापातकान्याहुरित्यनन्तफलानि षट् || इति शिवधर्मोत्तरागमाच्च तदवगमः | अतोऽनन्तफलस्य शिव-निन्दादोषस्य फलानुभवलक्षणेन यमदण्डेन विनाशासम्भ-वं मन्यमानो भगवान् करुणानुन्नहृदयो निग्रहेण दक्षादीन् स्ववशान् कृत्वा स्वप्रणामात्मकं स्वनिन्दाप्रायश्चित्तं कारयामास | नहि प्रायश्चित्तान्तरैः खद्योतकल्पैर्नैशतमःकल्पमहेश्वरनिन्दादोषपरिहारो घटते, तेषां परिमितविषयतया परिमितानामपरिमितमहेश्वरविषया-परिमितनिन्दापरिहारासंभवात् | यथा नैशतमसोऽनन्तस्याप्य-नन्तादित्योदयेन प्रबलेन विनाशस्तथा महेश्वरप्रणामेना- नन्तेनानन्ततन्निन्दाप्रतिक्षेप इति | तदुक्तं श्रीवायवीये- निग्रहोऽपि स्वरूपेण विदुषां न जुगुप्सितः | अत एव हि दण्ड्येषु दण्डो राज्ञां प्रशस्तये || सर्वोऽपि निग्रहो लोके न च विद्वेषपूर्वकः | नहि द्वेष्टि पिता पुत्रं यो निगृह्यापि शिक्षयेत् || निदानज्ञस्य भिषजो रुग्णे हिंसां प्रयुञ्जतः | न किञ्चिदपि नैर्घृण्यं घृणैवात्र प्रयोजिका || इति | (शि० वा० १|३१|२६, ३४, ३८) तस्मादुपपन्नं सर्वानुग्राहक इति || १५ || वृत्तिः तमेव चिदचिद्विषयमनुग्रहं दर्शयति- भुक्तिमिति || ३५ || चिदनुग्रहस्त्वयं किल यन्मोक्षः शिवसमानतारूपः | सोऽनादित्वात् कर्मण इह भोगमृते न याति संसिद्धिम् || ३६ || तात्पर्यदीपिका ननु तर्हि भुक्तिमुक्त्योरनुग्रहयोर्मुख्यतमं निःश्रेयसमे-वासौ विदध्यात्, नामुख्यं भोगात्मकमित्याशङ्क्याह- चिदिति | सत्यं संसारनिवृत्त्यात्मकापवर्गप्रदानमेव मुख्यानु-ग्रहो न भोगप्रदानम्, तथापि जात्यायुर्भोगफलानां कर्मणा-मनादिभूतानां फलभोगं विना नाशासंभवात् तन्नाशं विना निःश्रेयसानुपपत्तेस्तदर्थमेव भोगप्रदानमाश्रयणीयम् | स मोक्षः कियात्मक इत्याशङ्क्याह- शिवसमानतारूप इति | शिवेन समानता निर्विशेषताविवेकता रूपं स्वरूपं यस्य स शिवसमा-नतारूपः, सायुज्यलक्षण इति यावत् || ३६ || वृत्तिः नन्वस्तु मोक्षोऽनुग्रहः, दुःखनिवृत्तिहेतुत्वात् | भोगस्तु सुख- दुःखसंवेदनात्मकः, स कथमनुग्रहत्वेनोच्यते ? अत आह- सत्यं पाशनिवर्तनेन सर्वार्थदृक्क्रियात्मकशिवत्वव्यक्त्या च शिवसाम्यरूपस्य मोक्षस्यैवानुग्रहत्वम्, भोगस्य तु नाभुक्तं (महाभारतभाण्डारकरसंस्करणे त्रयोदशेऽनुशासनपर्वणि १५ परिशिष्टे २२०० पङ्क्त्यनन्तरं श्लोकार्ध एष दृश्यते |) क्षीयते कर्म कल्पकोटिशतैरपि इति न्यायात् कर्मक्षयहेतुतया परम्परयाऽनुग्रहहेतुत्वमित्यनुग्रहतयोक्त-मित्यविरोधः || ३६ || तेन विभुस्तद्भुक्त्यै कुरुते तनुकरणभुवननिष्पत्तिम् | कर्त्रा विना न कार्यं न तथोपादानकरणाभ्याम् || ३७ || तात्पर्यदीपिका ननु तर्हि कर्मफलभोग एव विधातव्यः, न जगदारम्भ इत्याशङ्क्याह- तेनेति | यतो भोगं विना न कर्मनाशः, अतस्तद्भुक्त्यै भगवां- स्तनुकरणभुवननिष्पादं करोति | तनुः शरीरम्, सूक्ष्मस्थूलात्-मना द्विप्रकारम् | करणं च द्विविधं बाह्यमान्तरं चेति | तत्र बाह्यं कर्मेन्द्रियज्ञानेन्द्रियात्मना दशविधम् | अन्तःकरणं त्रिविधं मनोऽहङ्कारो बुद्धिश्चेति | भुवनशब्देन चतुर्विंशत्य-धिकशतद्वयलोका उच्यन्ते | तान्येतानि भगवान् महेश्वरः करोति भोगार्थमिति | ननु कस्मान्महेश्वरस्तानि भुवनानि कृतवानित्यु-च्यते, भवतु तेषां सर्वेश्वरेण विनोत्पाद इत्यत आह- कर्त्रा विना न कार्यं न तथोपादानकरणाभ्यामिति | यतः कर्तुरभावे न कार्यसंभवोऽतो महेश्वरस्तनुकरणभुवनानि कृतवानित्युच्यते | तथा तद्वदुपादानकारणाभावे च न कार्यं जायेत, अतस्तत्रो-पादानकारणमपि किञ्चिदाश्रयणीयम् | एवं करणाभावे न कार्यसंभव इति करणं चात्र किञ्चिदभ्युपेयमिति | तथाहि- घटाद्युत्पत्तौ तावत् कुलालादिः कर्ता, हस्तपादादिकं करणम्, मृदाद्युपादानम्, चक्राद्युपकरणमिति दृष्टम्; तेषामेकस्याप्य-भावे कार्यस्य घटादेरुत्पादासंभवात् | अतोऽत्रापि तान्यवश्या-श्रयणीयानि, अन्यथा जगदात्मकस्य कार्यस्योत्पादासंभवादिति | ननु किं जगत्कर्तृसद्भावे प्रमाणम् ? अनुमानागमावस्मदा-दीनाम्, अस्मद्विलक्षणानां योगिनां प्रत्यक्षमिति ब्रूमः | तथाहि- विमतं कालाद्यवनिपर्यन्तं कार्यजातं बुद्धिमत्-कारणकम्, कार्यत्वात्, यद्यत् कार्यं तत्तद् बुद्धिमत्कारणकं दृष्टम्, यथा घटः, तथेदं कालाद्यवनिपर्यन्तं कार्यम्, तस्माद् बुद्धिमत्कारणकमिति | न च क्षित्यादीनां कार्यत्वस्यानु- पलम्भादनिश्चितपक्षवृत्तिरसिद्ध इत्यसिद्धत्वं हेतोरिति वाच्यम्, अनुमानागमाभ्यां तत्कार्यत्वसिद्धेः | तथाहि- क्षित्यादि कार्यम्, मूलोपादानव्यतिरिक्तजडत्वात्, यद्यन्मूलोपादानव्यति-रिक्तं जडं तत्तत् कार्यम्, यथा घटः, तथेदम्, तस्मात्तथेति | न च क्षित्यादेरेव परमाणुभावापन्नस्य मूलोपादानत्वाभ्युप-गमादसिद्धमस्माकं मूलोपादानातिरेकि-त्वविशेषणमिति वाच्यम्, परमाणोर्मूलत्वप्रतिषेधस्य वक्ष्यमा-णत्वात् | तथा क्षित्यादि कार्यम्, परतन्त्रत्वात्, त्रिगुणात्मकत्वात्, आत्ममूलान्य-वस्तुत्वाच्च घटादिवदिति | तथा आत्मन आकाशः संभूतः, आकाशाद् वायुः, वायोरग्निः, अग्नेरापः, अद्भ्यः पृथिवी (तै० उ० २|१|१) इत्यादिनागमेन क्षित्यादेः कार्यत्वमवगम्यते | तथा आत्मव्यतिरिक्तस्य सर्वस्य मायामूलत्वप्रतिपादनाच्च | तथाहीश्वरगीतायाम्- चतुर्विंशतितत्त्वानि मायाकर्मगुणा इति | एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः || ..... एतेषामेव पाशानां माया कारणमुच्यते | (७|२१, ३०) इति न स्वरूपासिद्धं क्षित्यादिषु कार्यत्वमिति | ननु विमतं जगत् सत्, भासमानत्वात्, शुक्तिरजतवदित्यनुमा-नेन क्षित्यादेरसिद्धत्वनिश्चयात्, शशशृङ्गं तीक्ष्णं शृङ्ग-त्वात्, गोशृङ्गवदिति वाऽस्याश्रयासिद्धतेति चेत्, नैवम्, भ्रान्तिज्ञा-नस्य शुक्तिविषयतया तदन्यासद्रूपरजतगोचरत्वानुपपत्तेः, असद्रजता-संभवेनास्य धर्म्यसिद्धदृष्टान्ततयाऽप्रमाण-त्वात्, कार्यत्वहेतोरिवास्याप्याश्रयासिद्धत्वसाम्याच्च | प्रत्यक्षतः क्षित्यादेः सत्त्वावगमेन प्रत्यक्षविरोधाच्चास्या-प्रमाणत्वमिति | न च नियतिकालाव्यक्तगुणाहङ्कारादेरसिद्धत्वा-दाश्रयैकदेशासिद्धिरिति वाच्यम्, तेषामागमादिसिद्धत्वस्योक्तत्वात् | न च कालाकाशादेर्नि-त्यत्वेन कार्यत्वस्याभावाद् भागासिद्धो हेतुरिति वाच्यम्, तत्कार्यत्व-स्यानुमानागमाभ्यां साधितत्वात् | नन्विदमनुमानं सिद्धसाध्यतालक्षणासिद्धत्वसद्भा-वादप्रमाणम् | तथाहि- बुद्धिमत्कारणवत्त्वं क्षित्यादेर्भवता साधितम् | तदस्माकमपि सिद्धम्, बुद्धिमतामस्मदादीनामप्यदृ-ष्टद्वारेण कालादितत्त्वकलापं प्रति कर्तृत्वस्य सद्भावात् | न च पुण्यापुण्यात्मके कार्यान्तरे यत् कर्तृत्वं न तदेव जगदात्मके कर्तृत्वं भविष्यतीति वाच्यम्, कारणकारणतया तदुपपत्तेः | यथा पटकारणतन्तुसंयोगमात्रकर्तुः कुविन्दस्य पटकर्तृत्वम्, शरादि-क्षेप्तुर्वा शत्रुहिंसाकर्तृत्वम्, एवं जगत्कारणकर्म-कर्तुरेवास्म-दादेर्जगत्कर्तृत्वोपपत्तेः सिद्धसाध्यताप्रसङ्ग इति | नैवम्, उपादानोपकरणसंप्रदानप्रयोजनविषयप्रत्यक्षबुद्धि-मत्कारणवत्त्वस्य बुद्धिमत्कारणत्वशब्देन विवक्षितत्वात् | अतोऽस्मदादीनां तच्चतुष्टयविषयापरोक्षज्ञानाभावान्न सिद्धसाध्यतेति | नन्वप्यंशे सिद्धसाध्यताप्रसङ्गः, त्र्यणुकादिजन्य-कार्याणामुपादानं त्र्यणुकादिकम्, भूतादिजन्यकार्याणा-मुपादानं भूतादिकं वास्मदादिप्रत्यक्षम् | अदृष्टद्वारेण कर्तृत्वं चास्मदादीनां सिद्धम् | उपकरणं च कालादि किञ्चित् प्रत्यक्षम् | संप्रदानभूताश्च देवदत्तादयः प्रत्यक्षसिद्धाः | प्रयोजनं च स्थानासनादिकं प्रत्यक्षमिति भवेदेवांशे सिद्धसाध्यतेति | नैवम्, विमतस्यैव क्षित्यादेस्तथाविधकर्तृमत्ता-साधनात् | यत्र द्व्यणुकत्र्यणुकादीनामुपादानादिकालादीनां वा न प्रत्यक्षम्, तत्र तथाविधकर्तृमत्तासाधनान्नोक्तदोषाव-काश इति | ननु च शक्यक्रियत्वमुपाधिः, तस्योपाधिलक्षणसद्भावात् | तथा हि- साधनाव्यापकः साध्यसमव्याप्तिरुपाधिरिति तस्य लक्षणम् | तदस्य घटादिषु सर्वेष्वनुगतत्वाद् मूलहेतुना कार्यत्वे-नासाध्यत्वाच्चास्तीति सोपाधित्वेनाप्रयोजकत्वात् कार्यत्वस्य व्याप्यत्वासिद्धिरिति | नैवम्, शक्यक्रियत्वस्योपाधि-लक्षणाभावेनास्य सोपाधित्वाभावात् | स च साधनव्यापकत्वात् | तथाहि- क्षित्यादि कस्यचित् शक्यक्रियं कार्यत्वाद् घटादिवदिति मूलसाधनेन साधयितुं शक्यत्वात् साधनव्यापकत्वमिति | न च क्षित्यादि कस्यचिच्छक्यक्रियं कार्यत्वाद् घटादिवदित्यस्यापि कर्तृमत्त्वोपाधिवशादप्रयोजकत्वमिति वाच्यम्, शक्यक्रियत्वकर्तृ-मत्त्वादि यद्यदुपाधितया भवता प्रतिपाद्यते, तस्य सर्वस्याप्ये-केनैव प्रयोगेण साध्यतया साधनव्यापकत्वेनोपाधित्वासंभ-वात्, तथा सर्वानुमानेषु समानत्वाच्च | तथाहि- पर्वतोऽग्निमान् धूमवत्त्वाद् महानसादिवदित्यत्रापि जायमानभस्मवत्त्वस्यो-पाधेः सद्भावाद् धूमानुमानस्याप्यप्रयोजकत्वप्रसङ्गः | अथ तत्र धूमवत्त्वेनैव जायमानभस्मवत्त्वस्यापि साध्यतया नोपाधित्वमित्यस्य ना-प्रयोजकत्वमिति चेत् ? नैवम्, तत्राप्यग्निमत्त्वस्यैवोपाधेः सद्भावेन तत्साधनासंभ-वात् | अथ धूमवत्त्वादेव जायमानभस्मवत्त्वाग्निमत्त्वादिसर्वो-पाधेः साध्यतया साधनव्यापकत्वसद्भावेनानुपाधित्वान्ना-त्र तद्दोष इति चेत्, तर्हि कार्यत्वेनैवात्रापि सर्वस्य शङ्कितस्योपाधेः साध्यतता सोपाधित्वासंभवान्नोक्तदोषावकाश इति | किञ्च, शक्या क्रिया चलनलक्षणा यस्य तच्छक्यक्रियम्, तस्य भावः शक्यक्रियत्वमिति यद्यभ्युपगमः, तदा परमाणुमनसो-रपि नित्ययोर्भवत्पक्षे शक्यक्रियत्वसद्भावात् साध्यसमव्याप्त्य-भावेन तस्योपाधित्वाभावः | यदि शक्या क्रिया उत्पत्तिलक्षणा यस्य तच्छक्यक्रियं तस्य भावः शक्यक्रियत्वमित्यभ्युपगमः, तदाधि-कविशेषणत्वापरनामकं व्यर्थविशेषणत्वं प्रसज्यते, उत्पत्तेरेव कर्तृमत्त्वप्रयोजकत्वेन शक्यपदवैयर्थ्यात् | न चाङ्कुरादेरप्युत्पत्तिसद्भावे कर्तृशून्यतया तद्व्यवच्छेदार्थं शक्यपदोपादानमिति वाच्यम्, तेषां च शक्योत्पादनतया व्यवच्छेदासंभवात् तथेतरेतराश्रयप्रसङ्गाच्च क्षित्यादेः कर्तृशून्यत्वे सिद्धे तद्व्यवच्छेदकशक्यविशेषणसार्थता, विशेषणोपाधिसद्भावेन कार्यत्वस्याप्रयोजकत्वे सिद्धे कर्तृशून्यतासिद्धिरिति | तदुक्तम्- निश्चिते तदकर्तृत्वे सोपाधित्वं भवेदिह | सोपाधित्वेऽनुमानस्य कर्तृभावविनिश्चयः || इति | न च करचरणादिनोदनीयत्वमुपाधिः, प्रसादप्रकारादौ तदभावात्, प्राणादौ तदसद्भावेन च साध्यसमव्याप्त्यभावात् | तथा क्षित्यादि कस्यचित् करचरणादिनोदनीयम्, कार्यत्वात्, घटादिवदिति साधनव्यापकत्वाच्चास्य नोपाधित्वमिति | न च करादिजन्यत्वमुपाधिः, अधिकविशेषणत्वात् | न च क्षित्यादेर्व्यवच्छेद्यत्वम्, अन्योन्याश्रयप्रसङ्गादित्युक्तमिति, सर्पाद्याकर्षणस्वदेहप्रेरणादौ सकर्तृके करजन्यत्वाभावेन साध्यसमव्याप्त्यभावाच्चेति | न च कार्यविशेषस्य कर्त्रा व्याप्तिरिति वाच्यम्, विशेषस्यानुपलम्भात् | ननु किञ्चित् कार्यमुपलभमानस्य सकर्तृकत्वबुद्धिर्भवति, किञ्चिदुपलभमानस्य न भवतीत्येतदन्यथानुपपत्त्या कार्यविशे-षोऽभ्युपगन्तव्यः | स च विशेषो घटादिषु सकर्तृकेष्वनुस्यूतस्तृ-णादिभ्यो ह्यकर्तृकेभ्यो व्यावृत्तः सन्नेव रसविशेषवदनिर्देश्यः | तदुक्तम्- सकर्तृकेष्वनुस्यूतो व्यावृत्तोऽन्येभ्य एव सः | किञ्चित्कार्यविशेषोऽन्यैः स्वीकार्यो मतिभेदतः || किंरूप इति वादोऽयमिक्षुक्षीरगुडादिषु | माधुर्यभेदप्रत्यक्षदृष्टान्तादुपशाम्यति || इति | तस्मात् स एव कर्त्रा व्याप्यते, न कार्यसामान्यमिति | नैवम्, गर्तोन्नयनादिकार्ये सकर्तृके तादृशबुध्यभावेनानेकान्तात् | तदुक्तम्- गर्तोन्नयनकार्यस्य चिरकालात्यये सति | सकर्तृकत्वधीगम्यभावो नैवोपलभ्यते || इति | प्रसिद्धानुमाने समानोऽयं पर्यनुयोगः | तथा हि- पर्वतादौ धूमदर्शिनोऽपि कस्यचिदग्निमत्त्वं नावगम्यते, असंभावनादिना प्रतिबन्धात् | अत एव हि पर्वतोऽग्निमान् धूमवत्त्वादित्यादिपरोपदेशसापेक्षपरार्थानुमानोपन्यासः | तेन तत्रापि विशेषकल्पनया तस्यैवाग्निना व्यापकत्वादप्रयोजकं धूमानुमानमापद्यत इति | अथ यत्र धूमवानग्निमानिति सामान्यव्याप्तिग्रहणबलादनुमानं प्रवर्तत इति चेत्, अत्रापि तर्हि कार्यं कर्तृपूर्वकमिति सामान्यव्याप्तिग्रहणवलादनुमान-प्रवृत्तिराश्रयणीया विशेषाभावादिति | न च घटत्वं कर्तृमत्त्वे प्रयोजकम्, परस्य तदभावेन कतृमत्त्वाभावप्रसङ्गात् | नापि पटत्वम्, घटादेस्तदभावेनाकर्तृमत्त्वप्रसङ्गात् | न च घटत्वप-टत्वकुड्यत्वादयः सर्व एव कर्तृप्रयोजका इति वाच्यम्, प्रयोजकबहुत्-वापातात् | न च तद् युक्तम्, व्यक्तीनामेव कर्तृप्रयोजकत्वप्रसङ्गेन घटान्तरस्याकर्तृमत्त्वप्रसङ्गात्, आनन्त्येन कर्त्रा सह व्याप्तिग्रह- णासंभवस्योभयत्रापि तुल्यत्वात् | तथा महानसत्वशालात्वादेः प्रयोजकत्वापातेन धूमवत्त्वस्याप्रयोजकत्वप्रसङ्गः | तदुक्तम्- घटादिव्यक्तिमात्राणां कर्त्रा व्याप्तिर्न गृह्यते | यथानन्त्यं तथा ज्ञातुर्घटत्वादेः प्रतीयताम् || इति | ननु तर्हि प्रमेयत्वादेवाधिकव्याप्त्या कर्त्रा व्याप्तिराश्रय-णीया, न कार्यत्वस्येति चेन्न, अन्यथासिद्धत्वात् | स्वगोचरज्ञानमा-त्रेण प्रमेयत्वं सत्त्वं च कर्त्रभावेऽपि पदार्थानामभ्युपग-तं भवता | अस्मत्पक्षेऽपि मायापुरुषशिवानां कर्तृहीनानामपि प्रमेयत्वं सत्त्वं चाभ्युपगतम् | अतः प्रमेयत्वादेः कर्तृव्याप्- त्यसंभव इति | कार्यत्वं तु कारणविशेषस्य कर्तुः कारणान्तरस-म्पादकतया प्रधानभूतस्याभावे न संभवति | नहि मृद्दण्ड-चक्रादिसद्भावेऽपि तत्प्रयोक्तुः कुलालस्याभावे घटोत्पादो घटते | कुलालसद्भावे तु कारणान्तरनिष्पत्त्या कार्यजन्मोपपत्तिरिति कार्यत्वात् कर्तृसद्भावसिद्धिरिति | किञ्च, कार्यत्वं हि पदार्थाना- मुत्पत्तिः | सा च कारणक्रियामपेक्षते | सा च पुरुषव्यापारं विना न भवति | स तु प्रयत्नादृते न स्यात् | स चेच्छां विना न भवति | इच्छा चेष्टसाधनज्ञानं विना न स्यादिति कार्यत्वं बुद्धिमत्का-रणाभावे न भवतीति तत्प्रयोजकत्वान्नास्यासिद्धत्वमिति | नापि विरुद्धोऽयं हेतुः, पक्षविपक्षयोरेव वर्तमानो विरुद्ध इत्युक्तविरु- द्धलक्षणाभावात् | तथाहि- सपक्षे घटादौ कार्यत्वस्य वर्तमा-नत्वाद् विपक्षे चाकर्तृके मूलकारणशिवादौ कार्यत्वस्याभावाद-स्य पक्षविपक्षयोरेव वर्तमानत्वासंभवाद् विरुद्धत्वाभाव इति | ननु सर्वज्ञकर्तृकत्वं क्षित्यादेः साध्यते, नान्यकर्तृकत्वम्, असर्वज्ञस्य प्रपञ्चकर्तृत्वासंभवात् | तथाहि- जगदुपादानादिचतुष्टयविनियोगक्रमविषयप्रत्यक्षज्ञानवत एव कर्तृत्वं साध्यते | ततस्तस्य सर्वज्ञत्वम् | सर्वज्ञनिर्मितस्य चान्यस्य संप्रतिपन्नस्या-भावात् सपक्षाभाव इति सपक्षे सत्त्वाभावः | तेन कार्यत्वस्य क्षित्यादिकालान्ते पक्षे वर्तमानस्य सर्वज्ञनिर्मितत्वसाध्यरहिततया विपक्षभूतघटादौ च वर्तमानतया पक्षविपक्षयोरेव वर्तमानत्वाद् विरुद्धत्वमिति | तथा शरीरिकर्तृत्वस्याप्यङ्कुरादावसत्त्वेनाशरीरिकर्तृत्वमपीह साध्यते | तत्र च सपक्षाभावेन सपक्षे सत्त्वा-भावात् कार्यत्वस्य पक्षविपक्षयोरेव वर्तमानत्वाद् विरुद्धत्वमिति | नैवम्, सर्वज्ञाशरीरिकर्तृकत्वस्य अत्रासाध्यत्वात् | तथाहि- विप्रतिप-त्त्यनुरूपेणात्र साध्यनिर्देशाद् यदा किं सकर्तृकं क्षित्यादि अकर्तृकं वेति विप्रतिपत्तिः, तदा सकर्तृकं क्षित्यादीति साध्यनिर्देशः | यदा बुद्धिमत्पूर्वकं वा न वेति, तदा बुद्धिमत्पूर्वकं क्षित्यादीति साध्यनिर्देशः | यदा सोपादानोपकरणादिप्रत्यक्षवता जन्यं वा न वेति, तदोपादानादि-प्रत्यक्षवता जन्यमिति साध्यनिर्देशान्न विरुद्धत्वम्, घटादौ सपक्षे साध्यसाधनयोः सद्भावात् | न च कदाचिदपि सर्वज्ञाश-रीरिकर्तृकं क्षित्यादीति साध्यनिर्देशः, तथा विप्रतिपत्त्यभावात्, (स च?) असर्वज्ञशरीरिकर्तृकत्वस्य क्षित्यादीनां भवद्भिरनाश्रित-त्वादिति | ननु तथा साध्यनिर्देशेऽपि तथाविधकर्तुरभिप्रेततया कार्यत्वस्य विरुद्धत्वमिति चेन्न, सर्वानुमानेषु समानत्वात् | तथा हि- पर्वतस्याग्निमत्त्वं यः साधयति, तस्याप्यतद्देशकालानुमेय-संप्रतिपन्नप्रत्यक्षाग्निनाग्निमत्त्वं नाभिप्रेतम्, किन्तु महानसादिगतवह्निव्यतिरिक्तपर्वतगततत्कालानुमेयविप्रतिपन्ना- प्रत्यक्षापुरुषपूर्वकतरुसंघट्टजन्याग्निनाऽग्निमत्त्वमभि-प्रेतम् | तस्य महानसादावभावाद् धूमानुमानमपि विरुद्धमापद्येत | अथ तथापि तत्साध्यस्य शब्देनानुपादानात् पर्वतस्य स्वगताग्निनाऽग्निमत्त्वस्य साधनाच्च न विरोध इति चेत्, तर्हि प्रकृतेऽपि सर्वज्ञाशरीरिकर्तृकत्वस्य शब्देनानुपादानात् क्षित्यादेः स्वोपादानसमर्थकर्तृमत्त्वस्य साधनाच्च नोक्तदोषावकाश इति | न चासर्वज्ञशरीरिव्याप्तत्वात् कार्यत्वमपि शरीरिसर्वज्ञविशेषं प्रतिक्षिपतीति वाच्यम्, कार्यत्वस्य शरीरिकर्तृव्याप्त्यभावात् | स च तृणादौ तथाविधकर्तुरभावेऽपि कार्यत्वोपलम्भादवगम्यते | तदुक्तम्- परोऽपि न शरीरस्य व्याप्तिमिच्छति वस्तुतः | प्रत्यक्षबाधया देही नाश्रितो यदिहाङ्कुरे || न च शरीरिकर्तुरभावे कर्तृमात्रस्यासत्त्वम्, तस्यायोग्यत्वात् | तदुक्तम्- न चाशरीरिकर्तृत्वं बाध्यं देहे तु बाधिते | शरीरस्येव योग्यत्वं यतो नास्ति परात्मनः || इति | ननु न कार्यत्वं स्वव्यापकशरीरिकर्तृविरुद्धत्वान्नाशरीरि-कर्तृनिषेधकम्, किन्तु स्वव्यापककर्तृसामान्यविरुद्धत्वादिति ब्रूमः | यत्र कुलालादौ कर्तृत्वं तत्र नाशरीरित्वम् | यत्र मुक्तात्-मन्यशरीरित्वम्, तत्र न कर्तृत्वमिति कर्तृत्वाशरीरित्वयोः सहानव- स्थानलक्षणविरोधसद्भावेन स्वव्यापककर्तृविरुद्धत्वादशरीरि-कर्तारं कार्यत्वमेव प्रतिक्षिपति | धूमवत्त्वमिवाशीतभास्व-राग्निव्याप्तं शीतान्धकाराग्निमिति चेत्, नैवम्, कार्यत्वस्य कर्तृसामान्येन व्याप्त्यभावे प्रतिक्षेपायोगात् | तथा च यदि कार्यत्वस्य कर्तृसामान्येन व्याप्तिः, तर्हि न कार्यत्वव्यापकः कर्ता | तेन तद्विरुद्धत्वेऽप्यशरीरित्वं न प्रतिक्षिपेत्, स्वाव्यापका-विरुद्धत्वात् तस्य | यदि कार्यत्वं कर्तृसामान्येन व्याप्तम्, तदा च न प्रतिक्षेपः, कर्तृसामान्यापर्यवसानलभ्यत्वाद् विशेषस्य | यथा पर्वते परिदृश्यमानधूमेनाग्निसामान्यमनुमाय तदपर्यवसानान्महानसादावपरिदृष्टोऽग्निविशेषः पर्वते कल्प्यते, तथैव प्रपञ्चे परिदृश्यमा-नं कार्यत्वं कर्तारं विनानुपपद्यमानं कर्तृसामान्यमवस्-थापयत् तस्यापि विशेषणद्वारेण सम्बन्धसिध्यर्थं शरीरिविशेष-णमसंभवात् परिहृत्य तद्विपरीतं सर्वज्ञशरीरिविशेषं व्यवस्थापयत्येव, अन्यथा स्वव्यापककर्तृसामान्यव्यवस्था-पनासंभवात् | न च तद् युक्तम्, व्याप्यसद्भावे व्यापकासत्त्व-स्यानुपपन्नत्वात् | नहि धूमसद्भावेऽग्न्यभाव उपपद्यत इति | न चाव्याप्तत्वेऽपि व्याप्त्युपलम्भमात्रेण प्रतिक्षेप इति वाच्यम्, तस्याप्रमाणत्वात् | नहि कृतकत्वं नित्यताव्याप्तमिति केनचिदुक्ताप्रमाणवाक्यसिद्धव्याप्त्यपेक्षया कृतकत्वेन तद्विरुद्धानित्यत्वप्रतिक्षेपो घटत इति | न च कर्तृत्वमदेहित्वप्रति-क्षेपकम्, कार्यत्वेन साधितस्य कर्तृत्वस्याशरीरिविशेषाभावेऽनु-पपन्नतया तस्याक्षेप्यत्वात् | न च शरीरिविशेषाक्षेपेणाशरीरि-विशेषप्रतिक्षेपः, तस्य योग्यानुपलम्भनिरस्ततयाक्षेपासंभ- वात् | न च साधितस्य कर्तृत्वस्य विशेषद्वयराहित्यं संभवतीत्य-शरीरिकर्त्रभ्युपगम इति | नाप्यङ्कुरादावसाधितस्यादेहित्वप्रति-क्षेपकत्वम्, अविरोधादिति | तथा मोक्षावस्थायां शरीरेन्द्रियाद्यभावेऽप्यात्मगुण- नित्यसुखविषयबुद्धिसन्ततिसंभवं भगवान् भट्टपादो मन्यते | तेनादेहित्वबुद्धिमत्कारणत्वयोर्न विरोधः, पूर्वबुद्धि-विशिष्टस्यात्मन उत्तरबुद्ध्युत्पत्तिहेतुत्वाभ्युपगमादिति | किञ्च, यदि जगत्कर्त्रनुमानस्यैवं विरोधोद्भावनम्, तदा परमाण्वनु-मानस्यापि भवताऽभ्युपगतस्य विरोधप्रसङ्गः | तथा हि- आद्यं कार्यं स्वन्यूनानेकसमवायिकारणम्, कार्यद्रव्यत्वात्, घटादिवदिति परमाण्वनुमानम् | तेनाद्यकार्यकारणतया परमाणूनां नित्यत्वनिरवयवत्वकार्यत्वनिरतिशयाणुत्वादिक-मर्थादवगम्यते | तत्राप्ययं दोषः सुव्यक्तः | यत्र भवत्पक्षे व्योमादौ नित्यत्वम्, तत्रासर्वगतद्रव्यपरिमाणलक्षणमूर्तत्वं नास्ति | यत्र पुनर्घटादौ मूर्तत्वम्, न तत्र नित्यत्वमिति मूर्तत्व-नित्यत्वयोः सहानवस्थानलक्षणविरोधसद्भावात् परमाण्वनु-मानपि विरुद्धमापद्यत इति, तथा परात्मानुमानमपीति | तथाहि- परशरीरचेष्टा आत्मपूर्विका, जीवच्छरीरचेष्टात्वात्, अस्मच्छरीर-चेष्टावदिति परात्मानुमानम् | तत्रापि यत्रात्मत्वं स्वात्मनि तत्र न परत्वम्, यत्र परत्वं घटादौ तत्र नात्मत्वमिति परत्वात्म- त्वयोर्विरोधात् परात्मानुमानासंभव इति | अथ यदि द्रव्यसम-वायिकारणस्य मूर्तस्य नित्यत्वमन्यत्र न दृष्टम्, तथाप्याद्य-कार्यकारणतया नित्यत्वं तस्याभ्युपेयम्, अन्यथाऽनवस्था-प्रसङ्गात् | तस्य च नित्यत्वमर्थादवगम्यते | आद्यकार्यस्य स्वन्यूनसमवायिकारणकत्वमात्रसाधनान्नात्र विरोधः | तथा परात्मानुमाने परशरीरगतायाश्चेष्टाया आत्मपूर्वकत्व-मात्रसाधनात् स्वव्यापारस्य तत्र योग्यानुपलम्भनिरस्तत्वात् परत्वमर्थादवगम्यते, न शब्दत इति न विरोध इति चेत्, एवं तर्हि जगत्कर्त्रनुमानेऽपि सकलविनाशे सत्याद्य-कार्यकारणस्य बुद्धिमन्मात्रस्य साधने तस्यानित्यतायां कर्त्रन्तरकारणान्-तरकल्पनयाऽनवस्थानप्रसङ्गेन तस्य नित्यत्वमर्था- दवगम्यते न शब्दत इति | तथा कर्तृमात्रसाधने शरीरिणो योग्यानुपलम्भ- निरस्तत्वेनाशरीरिणोऽर्थादवगम्यमानतया च न विरोध इति समानः पन्थाः | ननु पक्षधर्मताव्याप्तिग्राहकप्रमाणाभ्यां प्राप्तयोर्-विशेषयोर्विरोधे न कश्चिदर्थः सिद्ध्यति | तथाहि- व्याप्तिबलात् शरीर्यसर्वज्ञानीश्वरसंसारी कर्तावगम्यते, पक्षधर्मतया च कार्यस्य तदुत्पादनसमर्थः सर्वज्ञोऽशरीरी नित्यो नित्यमुक्तः सर्वेश्वरः कर्तावगम्यते | तदनयोरितरेतरसापेक्षयोर्विरोधे न किञ्चित् सिध्येत् | नैवम्, सर्वानुमानेषु समानत्वात् | तथाहि- धूमानुमाने तावद् दृष्टान्तभूमिगतप्रत्यक्षाननुमेयसं- प्रतिपन्नापर्वतगताचन्दनेन्धनपुरुषजन्यत्वादिधर्मविशिष्टो वह्निविशेषो व्याप्तिग्राहकप्रमाणेनावगम्यते | पक्षधर्मतया तु पर्वतगतानुमेयविमततरुसंघट्टजन्याप्रत्यक्षचन्दनेन्धनत्व-अदिधर्मविशिष्टोऽवगम्यते | तत्रापि न किञ्चित् सिद्ध्येदिति | अथ धूमवानग्निमानिति सामान्येन व्याप्तिग्रहणं न विशेषत इत्यत्रानुमानप्रवृत्तिरा-श्रीयत इति चेत्, तर्हि प्रकृतेऽपि कार्यं बुद्धिमत्कारणकमिति सामान्येनैव व्याप्तिग्रहणं न विशेषतः, अङ्कुरादौ तथाविध- कर्तृदर्शनादि-ति भवेत्येवानुमानप्रवृत्तिरविशेषादिति | ननु किं तर्हि दृष्टान्तदृष्टमाश्रयणीयं दार्ष्टान्तिके इति चेत्, अविरुद्धमिति ब्रूमः | न च शरीरकरणनिवृत्त्या कर्तृत्वनिवृत्तिरिति वाच्यम्, स्वशरीरप्रेरणाकर्षणादिष्विवेच्छात्मककरणान्तरसद्-भावादपि कर्तृत्वोपपत्तेः | न च स्वशरीरप्रेरणे प्रेर्यस्य शरीरस्य करणत्वं संभवति, कर्मणः करणत्वासंभवात् | नह्यङ्गुल्यग्रेड तदग्रस्पर्शनमुपपद्यत इति | न च तत्र शरीरान्तरं करणमिति वाच्यम्, अनवस्थाप्रसङ्गात् | न च पक्षे देहसम्बन्धः सर्वत्राव्यभिचारेण करणमिति वाच्यम्, देहसम्बन्धस्य हस्ताङ्गुल्यादिप्रेरणे कर्त्रानपेक्षितत्वात् | तथाहि- हस्तस्योत्क्षेपणमवक्षेपणं वा कुर्वान्नात्मा तत्सम्बन्धमेवा-पेक्षते, न तु पुनर्देहसम्बन्धम्, तस्मिन् विद्यमाने हस्तसंबन्ध-विनाशे काष्ठीभूतेऽस्मिन् हस्तक्रियाकर्तृत्वादर्शनात् | अतः केवलव्यतिरेकात् साक्षादिच्छानुविधायिक्रियाश्रयत्वयोग्यत्वमे-वात्र प्रयोजकम् | तत् प्रपञ्चे भगवतोऽनुमानसिद्धम् | तथाहि- विमतं मूलकारणादि कस्यचित् साक्षादिच्छानुविधायिक्रियाश्रयत्वयोग्यम्, अचेतनत्वात्, देहवदिति | अत एवाशरीरित्वेऽपि पुराणोक्ताष्टमूर्तित्वविरोधः परिहृतः, साक्षादिच्छानुविधायिक्रियाश्रयतादेहलक्षणसद्भावेन मूलाद्यवन्यन्ततत्त्वजातस्य महेश्वरदेहतया मूर्तिमत्त्वोप-पत्तेः | ननु कथं तर्ह्यदेहित्ववचनम्, उच्यते- यथोपादानभूत-मृत्तत्त्वाद्यतिरिक्तं शरीरं कुलालकुविन्दादेरुपलब्धम्, तथा मूलकारणतत्कार्याद्यतिरिक्तमत्र शरीरं नास्ति भगवत इत्यदेहित्वोपपत्तिरिति | नाप्यनैकान्तिकत्वम्, पक्षत्रयवृत्तिरनैकान्तिक इत्युक्ततल्लक्षणाभावात् | तथाहि- यदि कालाद्यवन्यन्तेषु विमत्यधिकरणतया सन्दिग्धसाध्येषु पक्षेषु घटादिषु च निश्चितसाध्यतया सपक्षभूतेषु कार्यत्वस्य वृत्तिः, तथापि निश्चितसाध्यव्यतिरेकतया विपक्षभूतेषु मायापुरुषशिवेषु कार्यत्वहेतोर्वृत्त्यभावात् पक्षत्रयवृत्त्यभाव इति | नन्वङ्कुरादि-षु कर्तृशून्येषु कार्यत्वस्योपलम्भात् पक्षत्रयवृत्तित्वेन कार्यत्वस्यानेकान्तत्वमिति चेन्न, अङ्कुरादेः पक्षत्वेन विपक्षत्वाभावात् | ननु नाङ्कुरादेः पक्षत्वम्, सन्दिग्धकर्तृकत्वाभावात् | तथाहि- सन्दिग्धसाध्यः पक्ष इति हि पक्षलक्षणम् | तदङ्कुरादेर्नास्ति, निश्चितसाध्यव्यतिरेकतया विपक्षत्वादिति चेत्, नैवम्, परस्य बुद्धिमतः साध्यस्य प्रत्यक्षानर्हत्वेनासत्त्वानिश्चयादङ्कुरादेः सन्दिग्धसाध्यत्वो-पपत्तेरिति | न च सन्दिग्धानैकान्तिकत्वं कार्यत्वस्याशङ्कनीयम्, विपर्यये बाधकतर्कस्योक्तत्वात् | तदुक्तम्- कारकाणां च सर्वेषां नियोक्तुर्यदि नास्तिता | वैयर्थ्यं स्यात् तदा तेषां सतामप्यसतामिव || इति | नाप्यनध्यवसितत्वम्, साध्यासाधकपक्ष एव वर्तमानोऽनध्यवसित इति तल्लक्षणाभावात् | नहि नित्या भूः, गन्धवत्त्वादितिवत् कार्यत्वस्य पक्ष एव वृत्तिः, सपक्षे घटादौ च वर्तमानत्वादिति | न चासौ कालात्ययापदिष्टः, प्रमाणबाधिते प्रतिज्ञातार्थे वर्तमानो हेतुः कालात्ययापदिष्ट इति प्रोक्ततल्लक्षणाभावात् | न चानुष्णोऽग्-निः कृतकत्वाज्जलवदितिवदस्य प्रत्यक्षविरुद्धकालात्ययापदिष्टत्वम्, परात्मनो बुद्धिमत्कारणस्य प्रत्यक्षानर्हत्वात् | प्रत्यक्षानर्ह-स्यापि तदनुपलम्भेनासत्त्वाभ्युपगमे सर्वानुमानोच्छेद-प्रसङ्गः | तथा घटादावपि कर्ता कुलालः प्रत्यक्षतो नावगम्यते, शरीरस्य करणभूतस्यैव प्रत्यक्षत्वात् | न तु शरीरस्य कर्तृत्वम-चेतनत्वात् कुठारवदिति कुलालादिशरीरस्य कर्तृत्वे निषिद्धे तदात्म-नः कर्तृत्वं शरीरस्य च करणत्वमवशिष्यत इति न क्वचिदपि कर्तुः प्रत्यक्षार्हत्वमिति न तदनुपलम्भेनासत्त्वमिति केचित् | अन्ये तु शरीरत्वेऽपि कर्तुः सूक्ष्मत्वदूरत्वस्थत्वादिनाऽनुपलम्भसंभवात् कार्यदेशे तदनुपलम्भो नासत्त्वादिति ब्रुवते | तदुक्तम्- यतः कार्यस्य कर्त्रा तु विना भावो न विद्यते | अतो देशान्तरस्थोऽयमिच्छया कुरुते जगत् || इति | द्विविधमिह कार्यम्- कायिकव्यापारजन्यमिच्छामात्रजन्यं चेति | तत्र कायिकव्यापारजन्यं घटादि | तदेव शरीरसन्निधानम-पेक्षते | इच्छामात्रजन्यं त्वाकर्षणादि | न तच्छरीरसन्निधान-मपेक्षते | योजनशतव्यवहितसर्पाद्याकर्षणस्य दूरस्थैः क्रियमाणत्वादिति | अपरे तत्र वर्तमानस्य शरीरस्यायोग्यत्वात् प्रत्यक्षेणानुपलम्भो नाभावादिति ब्रुवते | तदुक्तम्- अथवा दृश्यमेवास्तु शरीरं चक्षुरादिवत् | श्रुतिस्मृतिभ्यां तत् सिद्धं शशशृङ्गो न तादृशः || इति | ननूक्तं शरीरस्यानित्यत्वे स्वयं निजशरीरस्य निर्माणमति-साहसम्, कर्त्रन्तरविनिष्पत्तावीश्वरानन्त्यमापतेदिति ? सत्यम्, बीजा-ङ्कुरवद् देहस्यानादित्वेन न विरोध इति केचित् | तदुक्तम्- पूर्वसिद्धेन देहेन शरीरान्तरकर्तृता | तच्च पूर्वेण देहेनेत्यनादित्वमिहाश्रितम् || इति | एकब्रह्माण्डतद्वर्तिसकलकार्यविनाशे ब्रह्माण्डान्तरसद्-भावात् तत्र स्थित्वासौ कार्यं करोतीति न कश्चिद् दोषः | अण्डानां बहुत्वं श्रुतिस्मृतिसिद्धम्, यथा खल्वलाबूलतायां विततानि फलानि, एवं महेश्वरशक्तौ ब्रह्माण्डसहस्राणि इति श्रुतेः | ईदृशानां तथाण्डानां कोट्यो ज्ञेयाः सहस्रशः | तत्र तत्र चतुर्वक्त्रा ब्रह्माणो हरयो भवाः || इति स्मृतेश्च तदवगमः | अन्ये नित्यं माहेश्वरं शरीरम्, अनादित्वात्, तच्चानादिसृष्ट्यादिकर्तुर्महेश्वरस्य देहानादित्वस्या-भ्युपगमनीयत्वात् | तच्छरीरं मायेति चाहुः | अपरे शब्दब्रह्म-तनुत्वं भगवतो मन्यन्त इति | अथ प्रत्यनुमानबाधितमिदमनु-मानम् | तथा हि- क्षित्याद्यसर्वज्ञकृतम्, कार्यत्वादित्यनुमानात् सर्वज्ञकर्तृकत्वानुमानस्य सप्रतिसाधनत्वमिति | तदसत्, विकल्पानुपपत्तेः | किं सर्वज्ञकर्तृनिषेधमात्रं विवक्षितम्, किं वा किञ्चिज्ज्ञकर्तृमत्त्वम्, किं वा कर्तृशून्यत्वम् ? नाद्यः पक्षः, असर्वज्ञकर्त्रभ्युपगमप्रसङ्गात्, वामेनाक्ष्णा न पश्यतीति विशेषनिषेधवद् विशेषनिषेधस्य शेषाभ्यनुज्ञा-विषयत्वात् | अथ परस्य सर्वज्ञकर्तृकत्वमभिमतमिति तन्निषेधमात्रमत्र क्रियत इति चेन्नैवम्, कर्तृमात्रनिषेधादेव सर्वज्ञकर्तृनिषेधसिद्धेस्तदेव निषेध्यं न विशेष इति | तथा घटादीनामप्यदृष्टादिप्रेरण-द्वारेण सर्वज्ञजगत्कर्तृपूर्वकत्वस्याभ्युपगमनीयत्वात् साध्यविकल-दृष्टान्तता च भवेत् | न च तत्रान्यः कर्ता, कर्तृभेदे प्रमाणाभा-वात् | न च कार्यमहत्त्वात् कर्तृबहुत्वकल्पनं कार्यमिति वाच्यम्, इच्छामात्रजन्ये कार्ये बहुत्वस्यानुपयोगित्वात् | कायिकव्यापारजन्ये तु तदुपादानादिनोदनमुपायान्तरेण यत्रैकस्यैव न स्यात् तत्रैव बहुत्वकल्पना | अथवा सर्वेष्वपि कार्येष्वेकस्यैव कर्तृत्वान्न क्वचि-दपि बहुत्वकल्पना, एकाचार्यानुगमात्, बहुत्वेऽपीतरेषां वास्यादिवदकर्तृत्वाद्वा | आचार्यानेकतायां च ज्ञानाधिक्यवशादेकस्यैव कर्तृत्वम्, तत्साम्ये च कार्यभेदेन भागभेदेन वैककर्तृत्वोपपत्तिः | इतरथा तद्वैयर्थ्यापातादिति | तथा कार्यमहत्त्वस्य तु कर्तृमहत्त्वाद-प्युपपत्तेर्न बहुत्वकल्पनासंभवः, धर्मिकल्पनायां गौरवापातात् | तथा समाभिप्रायत्वे वैयर्थ्यम्, विरुद्धाभिप्राय-त्वे कार्यवैशसप्रसङ्ग इति न सर्वथा कर्तृबहुत्वकल्पनोपपत्तिरिति | तथा घटाद्यदृष्टव्यापारः क्षितिकर्तृविनिर्मितः, अदृष्टव्यापार-त्वात्, क्षित्याद्यदृष्टव्यापारवदित्येककर्तृत्वे सिद्धे तस्य सर्वज्ञ- सर्वेश्वरत्वादिसिद्धिः | अथ किञ्चिज्ज्ञकर्तृमत्त्वं विवक्षितमिति चेन्न, अपसिद्धान्तता-प्रसङ्गात् | नहि मीमांसकादयो जगतः कर्तृमत्त्वमभ्युप-गच्छन्ति | अतो दूरनिरस्तं किञ्चिज्ज्ञकर्तृत्वमिति | तथा किञ्चित्त्वस्य कार्योत्पा-दानुपयोगित्वाद् वैयर्थ्यं च | तथासर्वज्ञस्य सर्वकर्तृत्वासंभ-वाद् माता मे वन्ध्येतिवत् प्रतिज्ञाविरोध-प्रसङ्गः | यदि किञ्चिज्ज्ञस्यापि कर्तृत्वं साध्येत, तदा सिद्धसाध्यता, क्षेत्रज्ञानामप्यदृष्टद्वारेण जगत्कारणत्वा-भ्युपगमात् | न च जीवानामेव कर्तृत्वसाधनात् परमेश्वरस्या-कर्तृत्वमिति वाच्यम्, उपादानाद्यभिज्ञकर्तुः पञ्चरूपवतानु-मानेन साधितत्वात् | न च जीवानां कर्तृत्वम्, हेतुत्वमात्रस्य विवक्षितत्वात् | अथाकर्तृत्वं विवक्षितमिति चेन्नैवम्, घटादेः कर्तृमत्त्वेन साध्यविकलदृष्टान्तत्वात् | मूलकारणदृष्-टान्तत्वे साधनविकलमुदाहरणम्, तत्र हेतोरभावात् | सत्त्वप्रमेय-त्वादिसाधनोपन्यासे घटादिभिर्व्यभिचारः, घटादेश्च पक्षता-यां प्रत्यक्षविरोध इति धूमानुमानेऽप्ययं दोषः समानः | पर्वतो धर्मी अपर्वतगताग्निमानिति साध्यो धर्मः, धूमवत्त्वाद् महानसवदिति वक्तुं शक्यत्वादिति | ननु महेश्वरः क्षित्यादिकर्ता न भवति, अशरीरत्वात्, पुरुषत्वाद्वा, मुक्तात्मत्वाद्वाऽस्मदादिव-च्चेत्यनुमानविरोध इति चेन्नैवम्, भवतां जगत्कर्तृत्वसिद्धेराश्र-यासिद्धताप्रसङ्गात् | अथ भवत्पक्षे जगत्कर्ताऽसिद्ध इति नाश्रया- सिद्धिदोष इति चेन्नैवम्, परसिद्धे प्रमाणमूलत्वे तेनैव धर्मिग्रा-हकेण प्रमाणेन बाध्यमानत्वात् | न च विपरीतानुमानस्यानुत्था-नान्नाअनेन तस्य बाध इति वाच्यम्, तस्य तन्मूलतया तद्बाधकत्वा-संभवात् | तथापि यदि बाधाभ्युपगमः, तदा महेश्वरस्याप्रसिद्धत्वादस्य आश्रयासिद्धत्वप्रसङ्गः | अथ न प्रमाणमूला परप्रसिद्धिरिति चेन्न, तर्हि विपरीतानुमानोपन्यासः कार्यः | प्रमाणाभावादेव प्रमेयासिद्धेरस्याश्रयासिद्धिदोषप्रसङ्गाच्चेति | ननु प्रमाणसिद्धस्यापि तस्य पक्षत्वमुपपद्यते, सिद्धत्वा- देवाश्रयासिद्धिदोषाभावादिति चेन्नैवम्, सुरभि गगनकुसुमं कुसुमत्वात् सम्प्रतिपन्नवदित्यस्यापि गगनकुसुमशब्दसिद्धतया आश्रयासिद्ध्यभावप्रसङ्गात् | न च पुरुषः क्षित्यादिकर्ता न भवति, पुरुषत्वात्, अस्मदादिवदिति वाच्यम्, सिद्धसाध्यताप्रसङ्गात् | विशिष्टपुरुषपक्षीकरणेऽपि जगत्कर्तृत्वव्यतिरिक्तकर्तृविशेषणविशिष्टत्वे सिद्धसाध्यता | जगत्कर्तृत्वविशिष्टपुरुषपक्षीकरणे भवेदेवाश्रयासिद्धिः, धर्मिग्राहकप्रमाणबाधो वेति | न च सर्वे पुरुषाः क्षित्यादि-कर्तारो न भवन्ति, पुरुषत्वात्, कुलालादिवदिति वाच्यम्, अंशे सिद्धसाध्यताश्रयासिद्धिधर्मिग्राहकप्रमाणबाधात्मकदोष-त्रयापाताद् दृष्टान्ताभावाच्चेति | ननु विमतः पुरुषः क्षित्यादिकर्ता न भवति, पुरुषत्वादित्-यस्मिन् साध्ये न दोषत्रयावकाशः | न तावदाश्रयासिद्धिः, आत्मनः पुरुषस्य सिद्धत्वात् | नापि सिद्धसाध्यताविप्रतिपत्तिः, अन्यपुरुषव्यवच्छेदात् | नापि धर्मिग्राहकप्रमाणबाधः, तस्य जगत्कर्तृत्वानङ्गोकारेण सिद्धत्वादिति चेत्, नैवम्, पुरुषमात्रे विप्रतिपत्त्यभावात् | क्षित्यादिकार्यमधिकृत्य विप्रतिपत्तिर्न पुरुषे | अस्तु वा पुरुषे विप्रतिपत्तिः, तथापि न पुरुषमात्रे, तस्य जगत्कर्तृत्वा-नभ्युपगमात् | विशिष्टे चेत्, केन विशेषणेन | विशिष्टे यदि किञ्चिज्ज्ञत्वादिना विशिष्टे, तत्र च न विप्रतिपत्तिः | यदि सर्वज्ञत्वादि-विशेषणविशिष्टे, तत्र च न विप्रतिपत्तिः, जगत्कर्त्रनुमानप्रवृत्तेः प्राक् तस्याप्रसिद्धत्वात् | नह्यप्रतिपन्ने धर्मिणि धर्ममूला विप्रतिपत्तिर्युक्ता, जगत्कर्त्रनुमानप्रवृत्त्युत्तरतश्च न विप्रतिपत्तिः, तस्य प्रमाणासिद्धत्वात् | तस्मान्न विप्रतिपत्तेर्व्यवच्छेदकत्वमिति | तथेश्वरः शरीरादिमान् कर्तृत्वादित्यादयश्च निरसनीयाः, उक्तन्यायसाम्यादिति | अथ क्षित्यादि कर्तृशून्यम्, तद्व्यापकशरीररहितत्वात्, यद् यद् व्यापकरहितं तत् तद् व्याप्येनापि रहितम्, यथा जलं धूमव्याप-काग्निरहितं धूमेनापीत्यनुमानविरोधात्; इति चेन्न, अस्यानुमा-नस्य विशेषणासिद्धत्वेनाप्रामाण्यात्, शरीरकर्तृत्वयोर्व्याप्य- व्यापकभावेन तद्व्यापकशरीररहितत्वस्यासिद्धत्वात् | अस्मदनु-मानाप्रामाण्ये भवदनुमानासिद्धिपरिहारः, भवदनुमान-बाधयाऽस्मदनुमानाप्रामाण्यमिति इतरेतराश्रयप्रसङ्गश्च | अस्मदनुमा-नस्य भवदनुमानस्याप्रामाण्यमन्तरेणापि रूपपञ्चकोपपत्तेर्निरपेक्षं प्रामाण्यमृत्युभयोः परस्पर- विरुद्धयोर्बाध्यबाधकसाम्येऽपि भवदनुमानस्य विशेषणा- सिद्धिरूपदोषान्तरसद्बावादबाधकत्वमिति | अथ क्षित्यादि कर्तृशून्यं शरीररहितत्वादिति हेतूपन्यासादसिद्धिपरिहारो भवेदिति चेन्न, घटादिव्यभिचारात् | घटादयोऽपि शरीररहितास्-तथापि कर्त्रशून्या इति | अथ शरीराजन्यत्वं विवक्षितमिति चेन्न, शरीरविशेषणवैयर्थ्यात्, अजन्यत्वस्यैव कर्तृशून्यताव्याप्तत्वा-दिति | न च स एव हेतुरिति वाच्यम्, स्वरूपासिद्धताप्रसङ्गादिति | तथाग्नीषोमीयपशुहिंसा धर्मफला, हिंसात्वात्, ब्राह्मण-हिंसावदितिवद् नास्यागमविरुद्धकालात्ययापदिष्टत्वम्, कर्तृभावप्रतिपादकागमानुपलम्भात् | न च- अकर्तालेपको नित्यो मध्यस्थः सर्वकर्मणाम् इत्याद्यागमविरोधः, तस्य सव्यापारकर्तृत्वमात्रनिषेधत्वात् | तच्चागमान्तरैः- न तं विदाथ य इमा जजान (ऋ० १०|८२|७; तै० सं० ४|६|२|२), मा नो हिंसीज्जनिता यः पृथिव्याः (ऋ० १०|१२|९) इत्यादिभिः परमेश्वरस्य जगत्कर्तृत्वप्रतिपादनादवगम्यते | तस्मादयस्- कान्तवन्निर्व्यापारकर्तृत्वमस्येति सिद्धमिति | न चासौ प्रकरण-समः, स्वपरपक्षसिद्धावत्रिरूपो हेतुः प्रकरणसमः इत्युक्ततल्ल-क्षणाभावात् | तथाहि- यथा क्षित्यादि बुद्धिमत्पूर्वकं कार्यत्वाद् घटवदित्यस्मिन् प्रयोगेऽस्य कार्यत्वस्य पक्षधर्मत्व-सपक्षसत्त्वविपक्षव्यावृत्त्यात्मकरूपत्रयसद्भावः, न तथा क्षित्यादि बुद्धिमत्पूर्वं न भवति कार्यत्वान्मायावदिति परपक्षसाधनेऽस्य रूपत्रयसद्भावः, मायादौ कार्यत्व-स्याभावेन सपक्षे सत्त्वाभावाद् घटादौ विपक्षे कार्यत्वसद्-बावेन विपक्षाद् व्यावृत्त्यभावाच्चेति | तस्माद् रूपपञ्चकसद्-भावादिदमनुमानं जगत्कर्तुः परमेश्वरस्य सद्भावे प्रमाणमेवेति सिद्धम् | आगमाश्च विश्वतश्चक्षुः (श्वे० उ० ३|३) इत्याद्याः परमेश्व-रस्य जगत्कर्तुः सद्भावं बोधयन्ति | न च तेषां विधिशेषत्वात् स्वार्थेऽप्रामाण्यमिति वाच्यम्, वेदवाक्यत्वाद् विधिवाक्यवदिति | न च आदित्यो यूपः (ऐ० ब्रा० ५|२७) इत्यादिवदौपचारिकत्वम्, स्वार्थे बाधाभावात्, तथा ब्राह्मणादौ तदुक्तमृषिणा इति मन्त्राणां स्वार्थे प्रामाण्यप्रतिपादनाच्चेति | तस्मादनुमानागमाभ्या-मस्मदादीनां सिद्धो महेश्वर इति | योगिनां तु करतलामलक-वदखिलमवलोकयतां प्रत्यक्षतोऽपि सिद्धः | तथाहि- परमेश्वरः केषाञ्चित् प्रत्यक्षसमधिगम्यः, प्रमेयत्वात्, करतलामलकवदित्यनुमानाद् महेश्वरस्य प्रत्यक्षगम्यत्व-सिद्धिः | योगिनां सद्भावश्च अस्मदाद्यप्रत्यक्षा मूलकारण-धर्माधर्मादयः प्रधानपुरुषप्रत्यक्षाः, प्रमेयत्वात्, करतलामलकवदित्यनुमानसिद्धः | तत्र प्रधानपुरुषो महेश्वरोऽप्रधानपुरुषा योगिन इति तत्सिद्धिरिति || १७ || इति तत्त्वप्रकाशतात्पर्यदीपिकायां शुद्धवर्गविनिर्णयो द्वितीयः परिच्छेदः || वृत्तिः एवं पाशानुग्रहोऽपि भोगभोजनद्वारेण पश्वनुग्रहार्थ-मेवेत्यत आह- तेनेति | तत्र तनुकरणशब्देनासाधारणी सूक्ष्मशरीरसृष्टिरुच्यते | भुवननिष्पत्तिशब्देन साधारणी भुवनाद्यात्मिका साधारणा-साधारणी च भुवनजशरीरात्मिका सृष्टिरुच्यते | एतच्चानन्तादि-द्वारेण करोतीत्युक्तम् | अत्र चोदयति- कर्त्रा विनेति | यथा कार्यस्य कर्तारं विना नोत्पत्तिर्दृष्टा तथोपादानकरणे अपि विनेति शिवस्यापि तनुकरणादेरशुद्धाध्वन्युत्पादे किमुपादानं किं वा करणमिति पूर्वः पक्षः || ३७ || शक्तय इहास्य करणं मायोपादानमिष्यते सूक्ष्मा | एका नित्या व्यापिन्यनादिनिधना शिवासक्ता || ३८ || तात्पर्यदीपिका अथ तृतीयः परिच्छेदः अथेदानीं करणोपादानयोः स्वरूपनिरूपणार्थमाह- शक्तय इति | अयमभिप्रायः- पराशक्तिविकारा इच्छाद्याः शक्तयः परमेश्वरस्य करणं हस्तादिस्थानीयम् | परास्य शक्तिर्विविधैव श्रुयते स्वाभाविकी ज्ञानबलक्रिया च (श्वे० उ० ६|८) इति श्रुतेः शक्तिकरणसद्-भावसिद्धिः | मायोपादानं मृत्तन्त्वादिस्थानीय-मिति मायां तु प्रकृतिं विद्यात् (श्वे० उ० ४|१०) इति श्रुतेस्तदुपादान-त्वसिद्धिः | तर्हि सा माया कस्मान्नोपलभ्यते घटवदित्यत आह- सूक्ष्मेति | सूक्ष्मत्वादनुपलम्भो मायाया नासत्त्वादित्यर्थः | तथाहि- अतिदूरत्वातिसामीप्येन्द्रियघातमनोऽनवस्थानसौक्ष्म्य- व्यवधानाभिभवसमानाभिहारानुद्भवाः सत एवार्थस्या-नुपलम्भकारणभूता लोके दृष्टाः | उत्पतन् व्योम्नि पक्षी सन्नप्यतिदूरतया प्रत्यक्षतो नोपलभ्यते | अतिसामीप्याच्चक्षुस्थमञ्जनं सदपि नाध्यक्षतोऽवगम्यते | मनोऽनवस्थानात् कामाद्युपप्लुतचेताः परिषदादिकं न पश्यति | इन्द्रियघाताद् अन्धत्वबधिरत्वादेर्घटरूपशब्दाद्यनुपलम्भो भवति | सौक्ष्म्यात् परमाण्वादिकं प्रणिहितचित्तोऽपि न पश्यति | व्यवधानादन्तःस्थघटाद्यनुपलम्भः | आदित्यप्रभाभिभूतत्-वाद् दिवा तारका नोपलभ्यन्ते | समानाभिहारात् तोयदमुक्तजल- धाराणां जलाशयेऽनुपलम्भः | अनुद्भवात् क्षीराद्यवस्था-यां दध्याद्यनुपलम्भ इत्येभिः कारणैः सत एवार्थस्यानुप-लम्भदर्शनान्नानुपलम्भमात्रादसत्त्वनिश्चयः | सप्तमरसस्य प्रमाणाभावादसत्त्वेनानुपलम्भो नैभिः कारणैरिति | मायाया विद्यमानायाः सूक्ष्मतयाऽनुपलम्भः, कार्यस्य जगत उत्पादनकारणतया तत्सद्भावसिद्धेरिति | तदुक्तं सांख्याचार्यैः- अतिदूरात् सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् | सौक्ष्म्याद् व्यवधानादभिभवात् समानाभिहाराच्च || सौक्ष्म्यात्तदनुपलब्धिर्नाभावात् कार्यतस्तदुपलब्धेः | (सा० का० ७-८) कालाद्यवनिपर्यन्ततत्त्वजातं स्वात्यन्तसदृशोपादान-कारणवत्, कार्यत्वात्, यद्यत्कार्यं तत्तत् स्वात्यन्तसदृशोपादान-कारणवद् दृष्टम्, यथा घटशरावादयो मृण्मयाः स्वात्यन्त-सदृशमृदुपादानजन्याः, तथेदं तत्त्वजातं कार्यम्, तस्मात् स्वात्यन्तसदृशोपादानकारणवदिति | यच्च सर्वेषां तत्त्वानां जडानां जडतया सदृशमुपादानं तन्मायाख्यं तत्त्वमिति तत्सिद्धिः | तदुक्तम्- कारणगुणात्मकत्वात् कार्यस्याव्यक्तमपि सिद्धम् इति | (सा० का० १४) तथा कालाद्यवनिपर्यन्तानि तत्त्वान्यपरिमितैकोपादानानि, परिमितत्वात्, यद्यत् परिमितं तत्तदपरिमितैकोपादानं दृष्टम्, यथा घटशरावादयः परिमिता अपरिमितैकमृदुपादानाः, तथा कालादयः परिमिताः, तस्मादपरिमितैकोपादाना इति | यदत्रैकमेषामपरिमितमुपादानं सा मायेति | तथा कालादयः स्वाव्यक्तावस्थाकारणवन्तः, व्यक्तत्वात्, कूर्माद् व्यज्यमानत-दङ्गवदिति सिद्धा माया | एका सा, अनेकत्वे प्रमाणाभावात् | नन्वेकत्वे च प्रमाणाभावादनेकत्वमिति चेत्, नैवम्, एकत्वस्य सत्त्वमात्रेणैव सिद्धत्वात् | अनेकत्वस्य पुनः प्रमाणान्तरापे-क्षया सद्भावसिद्धरपि | सा नित्या च, तस्या उपादानान्तराभावे-नाकार्यत्वात् | तदभावे चानवस्थाप्रसङ्गः | एतेषामेव पाशानां माया कारणमुच्यते | मूलप्रकृतिरव्यक्ता इति मायाया मूलप्रकृतित्वोपादानाच्च सिद्धा | व्यापिनी स चा स्वकार्येषु सर्वेष्वनुगमात् | अनादिनिधना उत्पत्तिनाशरहितेत्यर्थः | शिवा शुद्धा, गुणबन्धशून्यत्वात् | सैवमुक्ता तत्त्वविद्भिरिति | अथवा एकेत्यनेकोपादानजन्यतां प्रपञ्चस्यारम्भवाद्य-भ्युपगतां प्रत्याचष्टे | तथाहि- पृथिव्यप्तेजोवायुतदवयवादी-नां चावयवविभागेनापरमाण्वन्तो विनाशः संहारः | न च परमाणोर्विनाशः संभवति, अवयवविभागासंभवात् | स चावयवाभावात् | स च परमाणुत्वात् | ततश्च सृष्टिदशायां परमाणुद्वयसंयोगादाद्यकार्यस्य द्व्यणुकस्योत्पत्तिः | तत्र परमाणुद्वयमुपादानकारणम्, कार्याश्रयत्वात् | तत्संयोगोऽ-समवायिकारणम्, स्वाश्रये कार्यारम्भकत्वात् | शेषमदृष्टादि निमित्तकारणम् | ततो द्व्यणुकैस्त्रिभिस्त्र्यण- कस्योत्पत्तिः | तत्र च द्व्यणुकत्रयं समवायिकारणम् | तत्संयोगोऽसमवायिकारणम् | शेषं निमित्तकारणमिति | तावदेवमवगन्तव्यम्, यावदन्त्यावय-व्युत्पत्तिरित्यारम्भवादिनो वैशेषिकनैयायिकभाट्टप्राभाकराद-यः | पटादिषु स्वन्यूनानेकोपादानत्वोपलम्भात् प्रपञ्चस्यापि स्वन्यूनमनेकमुपादानमिति प्राहुः | तत् प्रत्याचष्टे- एकेति | एकस्मात् मृत्पिण्डोपादानादनेकघटशरावकुम्भमृदङ्गा-दयः, रुचक-स्वस्तिकाङ्गुलीयकादयो वा स्वर्णपिण्डात्, वृक्षाद्वा मञ्जूषाफ-लकादयः | यतोऽध्यक्षेणैव जायमाना उपलभ्यन्ते, अतो जगतः कार्यत्वेनोपादानकारणकल्पनायां गौरवपरिहाराय तदेकत्वं कल्पनीयमिति नानेकत्वं मूलोपादा-नस्येति | तदुक्तं भगवता वेदव्यासेन- (वचनमेतद् भाण्डारकरसंस्करणे महाभारतस्य उद्योगपर्वणि (विदुरनीतौ) १६९ संख्याके ताराङ्किते पाठे समुपलभ्यते |) एकस्माद् वृक्षाद् यज्ञपात्राणि (राजन्निति तत्रत्यः पाठः |) तक्ष्यात् स्रुक् च द्रोणी बोडनी च इत्यादि | नित्या विनाशरहिता | व्यापिनी घटशरावकुम्भादिषु मृद्वत् स्वकार्येषु कालाद्यवन्यन्-तेषु जडतयाऽनुस्यूतेति | अनादिनिधना वृद्धिव्ययशून्या | अवयवो-पचयो वृद्धिः, तदपचयो व्ययः | तद्द्वयरहितेत्यर्थः | एकत्वान्नित्यत्वात् सर्वगतत्वाच्चेति | शिवासक्तेति केचित् पठन्ति | तदा शिवे आसक्ता आभीक्ष्ण्येन संबद्धा, शिवस्य विग्रहत्वेनावस्थितेत्यर्थः || १ || वृत्तिः सिद्धान्तस्तु- शक्तय इति | प्राग्वदुपाधिभेदभिन्ना शक्तिरेवेहाशुद्धाध्वन्यपि तस्य करणम् | उपादानं तु माया | सा च सूक्ष्मा अमूर्ता, परमका-रणत्वेन शक्तिरूपत्वात् | सा च एका | अचैतन्ये सत्यनेकत्वेऽनित्यत्वं सिद्धमित्यत एकेति भावः | नित्या आद्यन्तरहितत्वात्, सृष्टिसंहारप्र-बन्धस्य नित्यत्वेनावस्थानात्, तस्याप्याद्यन्तविरहात् | अतो व्यापिनी सर्वस्य कलादेः स्वकार्यस्य च | उत्पत्तिविनाशशून्यत्वादनादिनि-धना, शिवे त्वसक्ता असमवेता, उपादानत्वेन बिन्दुवत् परिग्रहशक्तित्वात् || ३८ || साधारणी नराणां कारणमपि चेयमखिलभुवनानाम् | निखिलजनकर्मखचिता स्वभावतो मोहसंजननी || ३९ || तात्पर्यदीपिका तस्या रूपमाह- साधारणीति | अयमभिप्रायः- सकलजीवसाधारणी समाना | यतः सर्व- जन्तुशरीरेन्द्रियविषयात्मना परिणममाना सर्वपुरुषोपभोग्या माया, अतोऽस्याः सर्वपुरुषसाधारण्यमिति | ननु सर्वपुरुष-साधारण्ये मुक्तस्यापि पुरुषस्य शरीराद्यारम्भप्रसङ्ग इत्याशङ्क्याह- निखिलजनकर्मखचितेति | सकलामुक्तजन्तुपुण्या- पुण्यमुद्रिता | तेन मुक्तानां कर्माभावात् तन्निमित्तशरीराद्या-रम्भाभाव इति भावः | अथवा प्रलयावस्थायां कर्मणां कुत्र वृत्तिरिति वाच्यम् ? न तावदात्मनि, तस्य स्वच्छचैतन्यरूपतया निरञ्जनस्य तदाश्रयत्वानुपपत्तेः | तदुक्तम्- यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते | सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते || (भ० गी० १३|३२) यथा हि धूमसंपर्कान्नाकाशो मलिनो भवेत् | अन्तःकरणजैर्भावैरात्मा तद्वन्न लिप्यते || इति | (ई० गी० २|२४) न च तदा सूक्ष्मदेहाश्रितं कर्मेति वाच्यम्, तस्य तदानीं प्रकृतौ निलीनतयाऽसत्त्वात् | न च तदानीं कर्मणामसत्त्वेनाश्र-यत्वस्यानिरूपणीयतेति वाच्यम्, कर्मणामसत्त्वे निमित्ताभावेन पुनः सृष्ट्यभावप्रसङ्गात् | तस्मात् क्व तदानीं कर्मणां वृत्तिरित्याशङ्क्याह- निखिलजनकर्मखचितेति | स्वभावतो मोहसंजननीति | स्वीयेन जडत्वभावेनात्मप्रच्छादनं कृत्वा स्वस्मिन्नात्मबुद्धिं कुर्वती पशून् मोहयतीति | तदुक्तं किरणे- माया विमोहिनी प्रोक्ता विषयास्वादभोगतः | यत्र तत्र स्थितस्यास्य स्वकर्ममलहेतुतः || इति | (वि० २|१६-१७) नन्वव्यक्तं सकलकार्योपादानकारणम्, अतस्ततोऽन्या माया न कल्पनीयेति चेत्, नैवम्, तस्य त्रिगुणात्मतया कार्यत्वेन तत्कारण- भूतनित्योपादानान्तरस्यावश्यमाश्रयणीयत्वात् | तथाहि- प्रधानं कार्यं त्रिगुणात्मकत्वाद् घटादिवदिति तस्य कार्यत्व-सिद्धिः | न चाव्यक्तस्य त्रिगुणात्मकत्वमसिद्धमिति वाच्यम्, सत्त्वरजस्तमसां साम्यावस्थारूपतया तस्य त्रिगुणात्मकत्वसि-द्धेः | तथा अजामेकां लोहितशुक्लकृष्णाम् (श्वे० उ० ४|५) इत्यादिश्रुतेश्च तत्सिद्धिः | ननु- प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम | इत्याद्यागमबाधादयुक्तमेतदिति चेत्, नैवम्, अक्षययं ह वै चातुर्मास्ययाजिनः सुकृतं भवति (श० ब्रा० २|५|४|१) इति वाक्यबोधितसुकृताक्षययत्ववन्महदादिकालापेक्षयाधिककाल-सम्बन्धस्य विवक्षितत्वात् | ननु तत्र अनित्यं चातुर्मास्यफलं कार्यत्वाद् इतरकर्मफलवदित्यनुमानादिना प्रमाणान्तरेण तदनित्यत्वसिद्धेर्युक्तमक्षययपदस्य दीर्घकालसम्बन्धपरत्व-कल्पनमिति चेन्न, अत्राप्यव्यक्तानित्यत्वबोधकस्यानुमानस्योक्तत्वात्, आगमस्य सद्भावाच्च | तथा- अव्यक्तादभवत् कालः प्रधानं पुरुषः परः | तेभ्यः सर्वमिदं जातम् (३|१) इतीश्वरगीतायां प्रधानोत्पादप्रतिपादनात् तदनित्यत्वसि-द्धिः, श्रीविष्णुपुराणे च प्रधानपुरुषकालानामुत्पादप्रति-पादनाच्च | तथाहि- विष्णोः स्वरूपात् परतो हि ते द्वे रूपे प्रधानं पुरुषश्च विप्र | तस्यैव तेऽन्येन धृते वियुक्ते रूपं तु यत्तद् द्विज कालसंज्ञम् || इति | (वि० पु० १|२|२४) मायां तु प्रकृतिं विद्यात् (श्वे० उ० ४|१०) इति मायामूलोपा-दानत्वप्रतिपादनाच्च तत्सिद्धिरिति | तस्मान्माया जगन्मूलोपादा-नमिति सिद्धम् | सा माया हरितालनिभा | तदुक्तम्- तद्वाह्ये (वचनमिदं चन्द्रज्ञानस्य स्यात् |) तु भवेन्माया हरितालाभसन्निभा इति | अस्या षडध्वव्याप्तिः- घकारो वर्णः | अघोरहृदयायेत्या-दीनि त्रीणि पदानि | शिम् अघोरहृदयाय पञ्चार्णौ मन्त्रौ | माया तत्त्वम् | महातेजादि सप्त भुवनानि | निवृत्तिः कला || २ || वृत्तिः आत्मनां च साधारणी कारणमखिलभुवनानामित्युप-लक्षणं देहादेरपि | प्रलयकाले च बुद्धेरपि तत्रैव लयाद् बुद्धिगुणरूपैर्निखिलात्मकर्मभिरुपेता | कर्म हि कृष्यादिवत् प्रकृतिसंस्काररूपत्वाद् बुद्धिगुणत्वेनैवेष्यते, नात्मगुणत्वेन, तस्य विकारित्वप्रसङ्गात् | मोहिका चेयम्, अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मप्रतिपत्तिहेतुत्वात् || ३९ || कर्माण्यवेक्ष्य शम्भुर्मायां विक्षोभ्य शक्तिभिः स्वाभिः | प्रतिपुरुषं भोगार्थं वपुंषि करणानि चाधत्ते || ४० || तात्पर्यदीपिका ननु कथं भगवान् जगत् सृजति, कैः करणैः, किमर्थं चेत्याशङ्क्याह- कर्माणीति | कर्मानुरूपेण प्रतिपुरुषं शरीरेन्द्रियाणि च शब्दादिविष-यांश्च भोगार्थं शम्भुरिच्छाभिः स्वाभिः शक्तिभिर्मायां विक्षोभ्य विविधं क्षोभं विकारं कृत्वेति | नह्यपादानादिकं कारणं कर्त्राऽप्रेरितं कार्योत्पादने पर्याप्तमिति क्षोभसिद्धिरिति || ३ || वृत्तिः ततश्च- कर्माणीति | शिवोऽप्यात्मनां कर्माणि प्रलये पक्वानि बुद्ध्वा तद्भोगार्थं स्वशक्त्याधिष्ठिताभिरनन्तशक्तिभिर्मायां विक्षोभयति प्रसवाभिमुखीं करोति | तदुक्तं श्रीमद्रौरवे-वामादिशक्तिभिर्युक्तः शिवेच्छाविधिचोदितः | विद्याराजाधिराजेशो मायां विक्षोभ्य मन्त्रराट् || कलामुत्पादयामास (१|६-७) इति | विक्षोभ्य तदधिष्ठानेनैव प्रतिपुरुषं भिन्नानि वपंषि स्थूलशरीराणि, करणोपलक्षितांश्च सूक्ष्मदेहान्, चशब्दात् साधारणानि भुवनादीनि च सृजति || ४० || नानाविधशक्तिमयी सा जनयति कालतत्त्वमेवादौ | भाविभवद्भूतमयं कलयति जगदेष कालोऽतः || ४१ || तात्पर्यदीपिका अथेदानीं सर्वकार्यकारणतया तेषु प्रथमोद्दिष्टं कालतत्त्वं लक्षयति- नानेति | इच्छादिबहुविधशक्तिप्रेरिता माया जनयति कालाख्यं तत्त्वम् | आदौ प्रथमम्, कालजन्यानां तत्त्वान्तराणां कालानुत्पत्तौ जननासंभवात् | ततस्तत्त्वान्तराणि तज्जन्यानीति | यथा घटोत्पाद-नाय तत्कारणभूतचक्रादिकं कुलालः प्रथममुत्पादयति, तदनुत्पत्तौ घटोत्पादनासंभवात्, तथा कालं प्रथमं सृजति माया, तस्य स्वव्यतिरिक्तसर्वकारणत्वादिति | कालस्य तु स्वोत्पत्तौ कालापेक्षायां कालान्तराभ्युपगमेनानवस्थाप्रसङ्गात् तदुत्पत्तौ न कालापेक्षेति शिवशक्तिकर्ममायात्मकचतुष्कजन्यः काल इति | तस्य लक्षणमाह- भाविभवद्भूतरूपं कलयति जग-देष कालोऽत इति | यत् तत्त्ववशात् पदार्थेषु भाविभवद्भूतरूपा-वभासं तत् कालाख्यं तत्त्वम् | अथवा यत् तत्त्वं भाविभवद्-भूतरूपं जगत् कलयति बध्नाति, क्षणलवादिरूपेण संख्याप-यति वा, तत् कालाख्यं तत्त्वमिति | तथा वैशेषिकादिभिरप्युक्तम्- परापरव्यतिकरचिरक्षिप्रादिप्रत्ययहेतुः कालः इति | यूनि दिक्कृत- परत्वाश्रयेऽपरत्वावभासः, स्थविरे च स्वकृतापरत्वाश्रये परत्वावभासः परापरव्यतिकरः, तस्य चिरव्यवहारस्य क्षिप्रव्यवहारस्य च, आदिशब्देन युगपत् करोति क्रमेण करोतीत्यादि-व्यवहारस्य च यो हेतुः, स काल इति | अनेनैव लक्षणवाक्येन काल- तत्त्वे प्रमाणं चोपन्यस्तम् | तथाहि- भूतत्वादिविशिष्टा बुद्धिर्वि-शेषणपूर्विका, विशेष्यज्ञानत्वात्, यद्यद् विशेष्यज्ञानं तत्तद् विशेषणपूर्वकम्, यथा दण्डी कुण्डली छत्रीत्यादिविशेष्य-ज्ञानं दण्डादिविशेषणपूर्वकम्, तथा चेदं विशेष्यज्ञानम्, तथा चेदं विशेष्यज्ञानम्, तस्माद् विशेषणपूर्वकम् | यदत्र विशेषणं नियत्याद्यवनिपर्यन्ततत्त्वव्यतिरिक्तम्, तत् कालतत्त्वमिति तत्सिद्धिः | तस्य चित्रं वर्णम् | तदुक्तम् ततः (श्लोकोऽयं चन्द्रज्ञानस्य स्यात् |) कालनियत्याख्यः सम्पुटो व्याप्य चावृतः | शितिः श्यामोऽरुणः शुक्लः क्वचिद् व्यामिश्रकस्तथा || इति | अस्य षडध्वव्याप्तिः- ङकारो वर्णः | ओं नमो नम इत्यादि द्वे पदे | वां वामदेवगुह्याय पञ्चार्णौ मन्त्रौ | सुखदैकवीरौ भुवने | शान्त्यतीता कला || ४ || वृत्तिः अत्र कालादिपृथिव्यन्तत्रिंशत्तत्त्वानां सूक्ष्मदेहोपका-रितां दर्शयितुं तत्सृष्टिक्रमः कथ्यते- नानेति | सत्कार्यवादाभ्युपगमेन महाप्रलये कार्याणां शक्तिरू-पेण तत्रावस्थानाच्छक्तिसमाहारात्मिका मायाऽनन्तक्षोभितां कालतत्त्वं जनयति | एष चास्य बिन्दोः परिणामः क्षीरदधिन्यायेन न सर्वात्मना, अपि तु घृतकीटन्यायेन एकदेशेनेति मन्तव्यम् | ननु श्रीमन्मतङ्गादौ कालाविद्यारागेभ्योऽनन्तरमस्य व्यापारः श्रूयते, सत्यं कालादीनामुत्तरोत्तरस्यैव तत्र प्रवृत्तिक्रमो दर्शितः, अत्र तु सृष्टिक्रम इत्यविरोधः | नन्वेष कालो नैयायिकादि-भिर्नित्योऽभ्युपगतः | अत आह- भावीति | तस्य भूतादिरूपेण त्रिविधत्वादचैतन्ये सत्यनेकत्वेनास्यनित्यत्वं सिद्धमिति भावः | केन कार्येणास्य सिद्धिरित्याह- कलयतीति | चिरक्षिप्रादिप्रत्ययोपाधि-द्वारेण कलयतीति, आक्षिपतीत्यर्थः | यदाहुः- कालो धिया विभज्यते इति || ४१ || नियतिर्नियमनरूपा मायातः साऽप्यनन्तरं भवति | नियमयति येन निखिलं तेनेयं नियतिरित्युक्ता || ४२ || तात्पर्यदीपिका अथ नियत्या लक्षणमाह- नियतिरिति | मायातत्त्वादेव नियतितत्त्वं कालतत्त्वादनन्तरमुत्पद्यते, कालस्यापि नियत्युत्पत्तौ कारणत्वात् | तस्या निरुक्तिपूर्वकं लक्षणमाह- नियमयतीति | येन नियमयति व्यवस्थापयति निखिलम्, तेनेयं नियतिसंज्ञयोद्दिष्टा | अनेनैव वाक्येन तस्याः प्रमाणमप्युक्तम् | तथाहि- लोके तावत् तिलेषु तैलम्, न सिकतासु; व्रीहिषु तण्डुलाः, न मुद्गादिषु; एवमूधसि पयो नान्यावयवेष्वित्यादिनियमो नियामकेन विना न संभवतीति तन्नियामकं किञ्चिदभ्युपगन्तव्यम्, अन्यथा तन्नियमासंभवप्रसङ्गात् | यदत्र तन्नियामकं तन्नियतितत्त्वमिति तत्सिद्धिः | तदुक्तं पारमेश्वरे- अथेदानीं मुनिव्याघ्र कारणस्यामितद्युतेः | शक्तिर्नियामिका पुंसो महासत्त्वेन सर्पिता || नियामकेन भावेन नियमस्थितिहेतुना | ययाऽणुर्भोगसन्ताने नियम्य विनिवार्यते || ...... व्यवस्थाकारिणी नान्या विद्यते तत्त्वसन्ततौ | कोटिद्वयमसंख्यातं धर्माधर्मात्मकं पशोः || तदर्थं व्यक्तिमायाति शरीरं सर्वदेहिनाम् | तद्विपाकेष्वनायासं क्षेत्रज्ञं सुनिरूप्य तु || नियामयति यस्माद् वै तस्मान्नियतिरुच्यते | तयोरभ्याधिकं यच्च दुःखं वाप्यथवा सुखम् || न ददाति समं धत्ते स्ववीर्येणैव नान्यथा | इत्यादि | (म० पा०, वि० १३|१-२, ५-८) नियतेश्च कालवद् वर्णम् | अस्याः षडध्वव्याप्तिः- चकारो वर्णः | गोप्त्रे निधनायेति द्वे पदे | यं सद्योजातमूर्तये पञ्चार्णौ मन्त्रौ | नियत्याख्यं तत्त्वम् | संवर्तज्योतिषी भुवने | शान्तिः कला || ५ || वृत्तिः किञ्च- नियतिरिति | अयमभिप्रायः- नियत्यभावेऽन्यैरुपार्जितान्यपि कर्माण्यन्ये भुञ्जीरन्, राजनियमाभावे कृष्यादिफलानीव दस्यवः, अतस्तन्नियामकत्वेनेयं सिद्धा | न च कर्मणो नियामकत्वम्, तस्य फलजनन एव चारितार्थत्वात्, कार्यान्तरहेतुत्वे प्रमाणाभावात्, अनेकतत्त्वपरिकल्पनाभयप्रसङ्गाच्च | शिवशक्तिर्नियामिकास्त्विति चेत्, तन्न, तस्यास्तत् तत्त्वान्तरव्यवधानेनैव भोगविषये कार्यकरणात्, अन्यथा सर्वतत्त्वाभावप्रसङ्गाच्च || ४२ || मायातस्तदनु कला मलं नृणामेकतस्तु कलयित्वा | व्यञ्जयति कर्तृशक्तिं कलेति तेनेह कथितेयम् || ४३ || तात्पर्यदीपिका अथ कलातत्त्वं निरूपयति- मायात इति | कालनियतितत्त्वादनन्तरं कलातत्त्वं मायात एवोत्पद्यते | येन पशूनामाणवं मलमेकस्मिन् प्रदेशे संकुचयय तेषां कर्तृशक्तिर्व्यक्तीक्रियते, तत् कलातत्त्वम् | यतः कर्तृशक्तिरनेन व्यक्तीक्रियते, ततोऽस्याः सद्भावसिद्धिः | तदुक्तम्- कलां तदनु माया सा कलयित्वैकतो मलम् | कर्तृत्वव्यञ्जिकां नर्ते कर्तारं हि जडोद्भवः || मातङ्गे च- यथाग्नितप्तं मृत्पात्रं जतुनालिङ्गने क्षमम् | तथाऽणुं कलया विद्धं भोगः शक्नोति वासितुम् ||..... भोगधात्री कला ज्ञेया तदाधारश्च पुद्गलः |..... भोगानामपि नान्योऽस्ति कलां त्यज्य समाश्रयः || ततोऽयं नियतः स्पष्टः संसारोऽतिदुरुत्तरः | इत्यादि | (वि० ९|२८,३१,३३) तस्मात् कलाख्यं तत्त्वमभ्युपेयमिति || ६ || वृत्तिः मायातस्तदनु कला भवतीति प्राक्तनेन संबन्धः | सा आत्मनां मलावृतत्वेन भोगासंभवात् तदर्थमेतेषां मलमेकदेशे कलयित्वा क्षिप्त्वा कर्तृशक्तिं व्यनक्ति | शक्तेरेकत्वाद् ज्ञानक्रियाशक्तिं किञ्चित्प्रकटयति | ततस्तेन कार्येण कलासिद्धिरित्यर्थः || ४३ || कालेन नियत्या चाप्युपसर्जनतामुपेतया सततम् | विदधाति व्यापारं निजमेषा ह्यवनिपर्यन्तम् || ४४ || तात्पर्यदीपिका तत्त्वत्रयं सर्वत्रोपयुज्यत इत्याह- कालेनेति | यया कालनियतिसहितया मायामात्रवस्थानाद्यवन्यन्तकार्यजातं विदधाति करोति, सेयं कलेति | वर्णश्चास्याः श्वेतपीतारुणकृष्णमिश्रात्मकः | तदुक्तम्- कला (श्लोकोऽयं चन्द्रज्ञानस्य स्यात् |) तत्त्वं परं तस्माद् विद्यातत्त्वादशोभनम् | श्वेतपीतारुणं कृष्णं मिश्रवर्णं द्वचित् तथा || इति | अस्याः षडध्वव्याप्तिः- एकारो वर्णः | सर्वयोगाधिगतायेत्यादि द्वे पदे | यं अस्त्राय पञ्चवर्णौ मन्त्रौ | कलाख्यं तत्त्वम् | पञ्चान्तकसूकरौ भुवने | विद्या कला || ७ || वृत्तिः ततश्च- कालेनेति | कला हि भोक्तृस्वरूपोपकारकत्वेनान्तरङ्गत्वात् प्रधानम्, कलादिस्तु बहिरङ्गत्वादप्रधानमिति भावः || ४४ || उद्बुद्धकर्तृशक्तेः पुंसो विषयप्रदर्शननिमित्तम् | विद्यातत्त्वं सूते प्रकाशरूपं कलैवैषा || ४५ || तात्पर्यदीपिका इदानीमशुद्धविद्यास्वरूपमाह- उद्बुद्धेति | कलयाऽभिव्यक्तकर्तृशक्तेः पुरुषस्य विषयानुभवार्थं कला विद्यातत्त्वं जनयति | तस्याः प्रकाशरूपत्वेन विषयप्रदर्शनहेतुत्वसम्भव इति | अन्ये तु मायात एव विद्योत्पत्तिं ब्रुवते | तदुक्तं शैवरहस्ये- सुखदुःखमोहवपुषो भोग्या या व्यञ्जिका च सा बुद्धेः | मायात एव विद्या प्रकाशरूपा समुद्भवति || इति || ८ || वृत्तिः एवं च- उद्बुद्धेति | यदुक्तं श्रीमद्रौरवे- कलातत्त्वाद्रागविद्ये द्वे सत्त्वे संबभूवतुः | अव्यक्तं च (वि० २|१५) इति || ४५ || आवरणं भित्त्वैषा ज्ञानाख्यायाः स्वकर्मणा शक्तेः | दर्शयति विषयजातं करणं सेहात्मनः परमम् || ४६ || तात्पर्यदीपिका तस्या विषयप्रदर्शनप्रकारमाह- आवरणमिति | एषा विद्या स्वसामर्थ्येनैव पुद्गलस्य ज्ञानशक्तेस्तिरोधानां संभिद्य विषयसमूहं दर्शयतीति सा विद्येह संसारमार्गे पशोरात्मनः प्रकृष्टं करणमिति || ९ || वृत्तिः विषयप्रदर्शननिमित्तत्वमेव प्रकटयति- आवरणमिति | ननु कलयैव मलविदाहरेण ज्ञत्वमपि प्रदर्शितम् | सत्यम् | अभिव्यक्तस्वरूपमपि तत्करणं विना विषयं गृहीतुमशक्तम्, अतश्चेयं विद्या स्वव्यापारेण ज्ञानशक्तेर्विषयग्रहणाक्षमत्वलक्षणमावरणं मलरोधं व्यपोह्य विषयं प्रकाशयति | ननु विषयग्रहणे बुद्ध्यादीनि करणानि सन्ति | सत्यम् | यथा घटादिज्ञानं चक्षुरादिव्यतिरेकेण न संभवति, तथा सुखादिविषयग्रहणं करणसापेक्षम् | अत एवेयमात्मनः परममन्तरङ्गकरणम्, तेषां बहिरङ्गत्वात् | एतदुक्तं भवति- अश्वेन पथा दीपिकया यातीत्यादाविवात्रानेककरणसाध्येऽपि फले वद्यैवं परमं करणमिति || ४६ || बुद्धिर्यदास्य भोग्या सुखादिरूपा तदा भवेत् करणम् | विद्यैवं करणं स्याद् विषयग्रहणे पुनर्बुद्धिः || ४७ || तात्पर्यदीपिका ननु शब्दादिविषयाध्यवसायो बुद्धिः, अतस्तयैव विषयप्रदर्शने सिद्धे किमर्थ विद्यातत्त्वपरिकल्पनमित्याशङ्क्याह- बुद्धिरिति | यदा सत्त्वरजस्तमोगुणात्मिका बुद्धिः सुखःदुखमोहनरूपेण परिणता भोक्तुरात्मनो भोग्या भवति, तदेयं विद्या करणं भवेत् | विषयग्रहणे तु बुद्धिरेव करणं भविष्यतीति बुद्ध्याऽध्यवसितमर्थं पुरुषश्चेतयतीति | तदयुक्तम्, पुरुषस्य चितेरक्रियात्मकत्वाद् विरुद्धक्रियत्वाच्चेति | तस्माद् बुद्ध्याध्यवसितमशुद्धविद्ययानुभवति पुरुष इति युक्तम्, पुरुषाद् भिन्नत्वान्मायाकार्यत्वाच्चाशुद्धविद्यायाः परिणामादिसंभवादिति | न च बुद्धिः स्वप्रकाशात्मिका कार्यत्वात् सगुणत्वाद् घटादिवदिति बुद्धेः स्वव्यतिरिक्तप्रकाश्यत्वसिद्धिः, तहा बुद्धिः प्रकाश्या जडत्वात्, जडा च सा कार्यत्वाद् घटादिवदिति | न च बुद्ध्यन्तरग्राह्या बुद्धिः, तदभावात् | न च वृत्त्यन्तरेण तद्ग्रहणम्, बुद्धेरेकदैव वृत्तिद्वयासम्भवात् | न चाशुद्धं शुद्धविद्या वेदयतीति | यदशुद्धावेदकं परं तदशुद्धविद्याख्यं तत्त्वमिति तत्सिद्धिः | तदुक्तं पारमेश्वरे- प्रतिपत्त्यागतान् भोगान् क्रमशो व्यूढगोचरान् | भोगभुक् प्रतिजानाति विद्ययात्मनिषण्णया ||... ख्यातिः प्रधानिकान् भावान् विवेचयितुमुद्यता | यदा तदात्मवर्तिन्या विद्यया सुनिरूप्यताम् || इति | (वि० १०|१३-१४, १८-१९) अशुद्धं बुद्धितत्त्वं वेदयतीत्यशुद्धविद्या, अशुद्धा चासौ विद्येति वा, मलादिनाऽशुद्धस्य क्षेत्रज्ञस्य विद्येति वा | तस्याः सिद्धिः शुद्धविद्यातः, शुद्धविद्यायाः शिवाव्यतिरिक्तया स्वयम्प्रकाशया परमशक्त्येति शैवसिद्धान्तः, विद्येयं सर्वभावनामशुद्धार्थप्रदायिका | शिवसद्भावकुशला विद्यान्या शुद्धगोचरा || इत्याद्युक्तत्वात् | तस्या वर्णमिन्द्रगोपनिभम् | तदुक्तम्- विद्यातत्त्वं (चन्द्रज्ञानस्य वचनमिदं प्रतीयते |) परं रागादशुद्धं पशुमोहनम् | इद्रगोपकसंकाशं क्वचिच्चामीकरप्रभम् || इति | अस्याः षडध्वव्याप्तिः- जकारो वर्णः | ज्योतीरूपायेत्यादि द्वे पदे | वां नेत्रत्रयाय पञ्चार्णौ मन्त्रौ | अशुद्धविद्याख्यं तत्त्वम् | चण्डक्रोधौ भुवने | प्रतिष्ठा कला || १० || वृत्तिः तदेव दर्शयति- बुद्धिरिति | मनोऽधिष्ठितैरिन्द्रियैरुपस्थापितं वस्तु बुद्धिरध्यवस्यति, तदध्यवसितमर्थं पुरुषो गृह्णाति | यदाहुः (स्याद्वादरत्नाकरे ३५ तमे पृष्ठे समुद्धृतमिति म० पा० वृ० (पृ० ३१४, टि० २१) द्रष्टव्या)- बुद्ध्यवसितमर्थं पुरुषश्चेतयति इति | तत्र च ग्रहणे ग्राह्यतापन्नमात्मानं बुद्धिः करणत्वेन ग्राहयितुं न क्षमा | ततस्तद्ग्रहणे विद्या करणमिति विद्यासिद्धिः | यदुक्तं तत्त्वसंग्रहे- रविवत् प्रकाशरूपो यदि नाम महांस्तथापि कर्मत्वात् (श्लो० १४) इत्यादि || ४७ || रागोऽभिष्वङ्गात्मा विषयच्छेदं विनैव सामान्यः | पुरुषप्रवृत्तिहेतुर्विलक्षणो बुद्धिधर्मेभ्यः || ४८ || तात्पर्यदीपिका इदानीं रागतत्त्वं निरूपयति- राग इति | अभिष्वङ्गात्मा रागो विषयमन्तरेण पुरुषप्रवृत्तेः सामान्यो हेतुः | केचिद् रागतत्त्वस्य बुद्धिधर्मत्वमिच्छन्ति | तन्निरस्यति- विलक्षणो बुद्धिधर्मेभ्यः इति | विषयप्रदर्शनद्वारेण पुरुषप्रवृत्तिहेतुभूतो बुद्धिधर्मो रागः | अस्य विषयावभासेन विना पुरुषप्रवृत्तिहेतुत्वाद् बुद्धिधर्मवैलक्षण्यसिद्धिः | मुमुक्षोर्विषयवितृष्णस्य तत्साधने विषयावभासेन विना प्रवृत्तिर्दृष्टा | अतस्तत्प्रवृत्तिहेतुभूतं रागतत्त्वमभ्युपेतव्यम् | तदुक्तं मतङ्गपारमेश्वरे- अथाणोर्विसृतस्यास्य कलाविद्धस्य वेगतः | प्रवृत्तस्याभिलाषेण विद्ययोन्मीलितस्य च ||.... येनासौ रञ्जितः क्षिप्रं भोगभुक् भोगतत्परः |...... रागोऽन्योऽपि परः सूक्ष्मो विशिष्टोऽस्मान्मदात्मकात् || येन नैःश्रेयसे पुंसां प्रवृत्तिरुपजायते | दृश्यते च विरक्तानां नराणां बन्धगोचरात् | आचार्यान्वेषणे रागः शिवमिद्धिश्य सादरम् || इत्यादि | किरणे च- रागरञ्जितचिद्धर्मः संयुक्तश्च त्रिभिर्गुणैः | बिद्ध्यादिकरणानीकसम्बन्धाद् बध्यते पशुः || इत्यादि |(वि० १|१७) तस्माद् रागतत्त्वसद्भावः सिद्धः | तस्य वर्णं कुङ्कुमाभं | तदुक्तम्- तद्वाह्ये (वचनमिदं चन्द्रज्ञानस्य स्यात् |) रागतत्त्वं तु कुङ्कुमोदरसन्निभम् इति | अस्य षडध्वव्याप्तिः- झकारो वर्णः | परमात्मन्नित्यादि द्वे पदे | शिं कवचाय पञ्चार्णौ मन्त्रौ | रागाख्यं तत्त्वम् | प्रचण्डादीनि पञ्च भुवनानि | निवृत्तिः कला || ११ || वृत्तिः रागतत्त्वसिद्धिमाह- राग इति | अभिष्वङ्गोऽभिलाष आत्मा कार्यत्वेन यस्य स रागः | अभिलाषात्मना कार्येण रागतत्त्वसिद्धिरित्यर्थः | ननु विषयगुण एव पुंसोऽभिलाषहेतुरस्तु, अवैराग्यलक्षणो बुद्धिधर्मो वा, तत् किमन्येनात आह- विषयच्छेदमिति | विषयावच्छेदमात्रस्यैवाभिलाषहेतुत्वे वीतरागाभावप्रसङ्गः, तेषामपि विषयावच्छेदसंभवात् | ततस्तं विनैव पुरुषप्रवृत्तिहेतुरत्र रागः सिद्धः | अवैराग्यस्य च बुद्धिधर्मत्वेन वासनारूपत्वान्न पुरुषोपकारः संभवति, अन्यथा बुद्धेरनन्तवासनायोगेन पुंसो युगपद्विरुद्धानन्तप्रतिपत्तिवैशसप्रसङ्गादित्युक्तमस्माभिमृर्-गेन्द्रवृत्तिदीपिकायामिति तत एवावधार्यम् | तस्मादपि विलक्षणः सामान्यः सर्वविषयाभिलाषहेतुरेवायं राग इति || ४८ || तत्त्वैरेभिः कलितो भोक्त्रित्वदशां यदा पशुर्नीतः | पुरुषाख्यतां तदाऽयं लभते तत्त्वेषु गणनां च || ४९ || तात्पर्यदीपिका अथेदानीं पुरुषतत्त्वस्वरूपमाह- तत्त्वैरिति | यदायमीश्वर एभिः कालनियतिकलाविद्यारागाख्यैः पञ्चभिस्तत्त्वैः सम्बन्धात् पशुभावं प्राप्य भोक्तृत्वावस्थां प्राप्नोति, तदा व्यक्तादिचतुर्विंशतितत्त्वमये पुरि शयनात् पुरुषसंज्ञां च लभते, शिवतत्त्वव्यतिरेकेण तत्त्वेषु गणनां चेति | तस्य वर्णः स्वतः शुद्धः, उपाधितोऽनेकवर्णः | अस्य षडध्वव्याप्तिः- ञकारो वर्णः | व्योमिन्नित्यादि द्वे पदे | मं शिखायै पञ्चार्णौ मन्त्रौ | पुरुषाख्यं तत्त्वम् | वामादीनि षड् भुवनानि | शान्त्यतीता कला || १२ || इति तत्त्वप्रकाशतात्पर्यदीपिकायां शुद्धाशुद्धविनिर्णयः तृतीयः परिच्छेदः || वृत्तिः ननु पुरुषस्याजडत्वात् शिववज्जडरूपेषु तत्त्वेषु तत्त्वतया गणना न संभवति | तत्त्वेषु व्यापकत्वाद् रागतत्त्वानन्तरं शास्त्रेषु पाठोऽप्ययुक्तोऽत आह- तत्त्वैरिति | कलादिपञ्चतत्त्वोपबृंहितोऽणुर्भोक्तृत्वेन पुंस्तत्त्वनिर्देशं याति | न तु परमार्थतस्तस्य तत्त्वं भुवनाधारत्वं च विद्यते | अत एव तद्भुवनानां रागतत्त्व एव स्थितिरित्युक्तं श्रीमन्मतङ्गादौ | तस्य च दीक्षायां प्रकृतितत्त्वशुद्ध्यनन्तरमत्रैव पुंस्त्वमलशुद्ध्यर्थं पाठ इति न दोषः क्वचित् || ४९ || पुरुषस्य हि भोगार्थं कलैव तस्मात् प्रसूयतेऽव्यक्तम् | अनभिव्यक्तगुणत्वादव्यपदेश्यं तदव्यक्तम् || ५० || तात्पर्यदीपिका अथ चतुर्थः परिच्छेदः अथेदानीमव्यक्तस्वरूपनिरूपणार्थमाह- पुरुषस्येति | पुरुषस्य सुखाद्यनुभवाय मायातत्त्वादेवाव्यक्तमुत्पद्यते | अव्यक्तपदप्रवृत्तिनिमित्तमाह- अनभिव्यक्तसत्त्वादिगुणवत्त्वादिदं तत्त्वमव्यक्तमित्युच्यते | सत्त्वरजस्तमसां (सांख्यसूत्रमेतत् सांख्यप्रवचनभाष्ये (१|६१) व्याख्यातं द्रष्टव्यम् |) साम्यावस्था प्रकृतिः इति सांख्याचार्या आहुः, अतोऽनभिव्यक्तगुणत्वमस्य सम्भवति | भूततन्मात्रेन्द्रियमनोऽहङ्कारबुद्धीनामव्यक्तकार्याणां सुखदुःखमोहहेतुतया त्रिगुणात्मकत्वात् | तत्कारणस्याव्यक्तस्य त्रिगुणात्मकत्वसिद्धिः | तस्य स्वरूपमप्रतर्क्यम् | तदुक्तम्- तद्बाह्ये (वचनमिदं चन्द्रज्ञानस्य स्यात् |) तु भवेदन्यदव्यक्तं तत्त्वमुत्तमम् | अप्रतर्क्यमविज्ञेयं निर्वाणवदवस्थितम् || इति | अस्य षडध्वव्याप्तिः- टकारो वर्णः | अरूपिन्नित्यादि द्वे पदे | नं शिरसे पञ्चार्णौ मन्त्रौ | गुणप्रकृत्याख्यं तत्त्वम् | कृताकृतादीन्यष्टौ भुवनानि | शान्तिः कला || १ || वृत्तिः एवं भोक्तृत्वं प्राप्तस्य पुंसो भोगार्थं भुज्यन्ते एभिरिति भोगा भोगसाधनानि गुणादीनि तत्त्वानि, तत्सिद्ध्यर्थं तत्कारणत्वेनाव्यक्तम् | तस्मात् प्रागुक्ताद्रागत्त्वादनन्तरं कलैवोत्पादयति | ननु गुणा एवाव्यक्तं बुद्ध्यादिकारणमिति सांख्याः, तदयुक्तमित्याह- अनभिव्यक्तेति | गुणानामचैतन्ये सत्यनेकत्वात् कारणपूर्वकत्वमित्युक्तम्, अतोऽनभिव्यक्तगुणरूपकार्यत्वादेव तदव्यक्तमित्युच्यते | यद्येवं सांख्याभ्युपगतप्रकृतिवन्नित्यमेवेदमस्तु, तन्न | प्रकृतेश्च प्रतिपुरुषं भेदेन जडत्वे त्वनेकत्वात् कार्यत्वं सिद्धम् || ५० || अव्यक्ताद् गुणतत्त्वं प्रख्याव्यापारनियमरूपमिह | सत्त्वं रजस्तमोऽपि च सुखदुःखे मोह इत्यपि च || ५१ || तात्पर्यदीपिका गुणतत्त्वं लक्षयति- अव्यक्तादिति | गुणसाम्यस्वभावादव्यक्ताद् गुणतत्त्वं वैषम्यात्मकं जायते | प्रख्याव्यापारनियमरूपं तद्बृत्तिकम् | प्रख्या प्रकाशो ज्ञानं वृत्तिः सत्त्वगुणस्य, निर्मलत्वात् | व्यापारः क्रिया रजसो वृत्तिः, चलत्वात् | नियमो नियमनं वृत्तिस्तमसः, गुरुत्वादिति सत्त्वरजस्तमोनामकं च सुखदुःखमोहस्वरूपकं च गुणतत्त्वमिति | तदुक्तं सांख्यैः- सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलं च रजः | गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः || (सा० का० १३) अस्य गुणतत्त्वस्य वर्णं शुक्लरक्तकृष्णात्मकम् | तदुक्तम्- तद्बाह्ये (श्लोकोऽयं चन्द्रज्ञानस्य स्यात् |) तु भवेदन्यद् गुणावरणसंज्ञितम् | इन्द्रनीलमहारत्नशुद्धस्फटिकसन्निभम् || इति || २ || वृत्तिः ततश्च- अव्यक्तादिति | प्रकाशप्रवृत्तिनियमाख्यैस्त्रिभिः कार्यैरेतत्सिद्धम् | किञ्च, ते गुणाः सत्त्वादयः सुखादिजनकत्वात् क्रमेण सुखदुःखादय उच्यन्ते | एषां च सर्वेषां तत्त्वानां विस्तरेण साधनं श्रीमन्मतङ्गादौ (मातङ्गपारमेश्वरे विद्यापादे ३-२३ पटलेषु तत्त्वप्रपञ्चो द्रष्टध्यः |) द्रष्टव्यम् | नात्र विस्तरभयाल्लिखितम् || ५१ || भवति गुणत्रयतो धीर्विषयाध्यवसायरूपिणी चेह | सापि त्रिविधा गुणतः प्रोक्ता कर्मानुसारेण || ५२ || तात्पर्यदीपिका इदानीं बुद्धितत्त्वं निरूप्यते- भवतीति | गुणानां सत्त्वरजस्तमसां त्रयं गुणत्रयम्, तस्माद् बुद्धिरुत्पद्यते | तस्या लक्षनमाह- विषयाध्यवसायरूपिणी चेति | विषयेषु शब्दादिष्वध्यवसायो निश्चयो रूपं वृत्तिर्यस्याः सा तथोक्ता | चकाराद् धर्मज्ञानवैराग्यैश्वर्याधर्माज्ञानावै- राग्यानैश्चर्यात्मनाऽष्तविधवृत्तिमत्त्वं बुद्धेः सूचितम् | तदुक्तम्- अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् | सात्त्विकमेतद्रूपं तामसमस्माद् विपर्यस्तम् || (सा० का० २३) तत्राभ्युदयनिःश्रेयसयोर्यो हेतुः, स धर्मः | तत्र कामनापूर्वयागाद्यनुष्ठानजनितो धर्मोऽभ्युदयस्य स्वर्गादिसुखस्य हेतुः | तद्रहितयागाद्यष्टाङ्गयोगानुष्ठानजनितो धर्मो निःश्रेयसस्य हेतुः | योगलक्षणमुपरिष्टाद् वक्ष्यामः | ज्ञानं सम्यग्ज्ञानम् | तद् द्विविधम्- प्रमाणं च स्मृतिश्चेति | अनुभूतविषयासंप्रमोषः स्मृतिः | तद्यथा- सा मे माता, स मे पिता, तद् गृहमित्यादि हि ज्ञानं पूर्वानुभवजनितसंस्कारमात्र-मुद्भवति | सम्यगनुभवः प्रमाणम् | तदुक्तम्- अनुभूतिः प्रमाणं सा स्मृतेरन्या तु सा स्मृतिः | पूर्वानुभवसंस्कारमात्रजं ज्ञानमुच्यते || इति | सम्यक्पदेनात्र विकल्पविपर्ययादिव्युदासः क्रियते | अनुभवपदेन स्मरणं व्युदस्तम् | तद् द्विविधम्- तत्त्वावेदकमतत्त्वावेदकं चेति | तत्रात्मानात्मविवेकज्ञानं तत्त्वावेदकम् | तदुक्तं लैङ्गे- अव्यक्ताद्ये विशेषान्ते विकारेऽस्मिन्नचेतने | चेतनाचेतनान्यत्वविज्ञानं ज्ञानमुच्यते || इति | अनात्मविषयं प्रमाणज्ञानमतत्त्वावेदकम् | तदुक्तम्- द्वे विद्ये वेदितव्येऽत्र परा चैवापरा तथा | कर्मादिविद्या ह्यपरा परा चोपनिषद्गता || इति | तदेतत् प्रत्यक्षमेवेति चार्वाकः | स्पष्टास्पष्टात्मना द्विविधमित्यार्हताः | प्रत्यक्षानुमानात्मना द्विविधं प्रमाणमिति बौद्धवृद्धवैशेषिकौ | तत्रागमस्याप्रामाण्याद् द्वैविध्यं बौद्धैः कल्पितम् | शब्दादीनामप्यनुमानेऽन्तर्भावाद् द्वैविध्यमितरो ब्रूते | सशाब्दं चैतत् प्रमाणमिति सांख्यनूतनवैशेषिकभूषणकाराः | तत्त्रयमुपमानसहितं वृद्धनैयायिकः, सार्थापत्तिं तच्चतुष्कं प्रभाकराचार्यो ब्रूते | साभावं तत्पञ्चकं भट्टपादोपनिषदः | ऐतिहासिकपौराणिका एऐतिह्यसम्भवचेष्टाविरोधसहितं तत्षट्कमाहः | तदुक्तम्- चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्दं तद्द्वैतं पारमर्षः सहितमुपमया तत्त्रयं चाक्षपादः | सार्थापत्तिं प्रभाकृद् वदति तदखिलं पञ्चकं तच्च भाट्टः साभावं द्वे प्रमाणे दिनपतिसमये स्पष्टताऽस्पष्टता च || इति | अन्यथाख्यामुपाश्रित्य सांख्यवच्छिवशासनम् | इति वचनादस्माकं तत् त्रिविधमेव प्रत्यक्षमनुमानमागम इति | परे चाहुः- तत्त्रैविध्यमैन्द्रियकं लैङ्गिकं शाब्दं चेति | अर्थेन्द्रियसंप्रयोगात् संप्रयुक्तेऽर्थे विज्ञानं प्रत्यक्षम् | विज्ञानं प्रत्यक्षमित्युक्ते विकल्पे व्यभिचारः | तन्निवृत्त्यर्थमर्थ इति पदम् | अर्थे ज्ञानमित्युक्ते विपर्यये व्यभिचारः | तन्निवृत्त्यर्थं संप्रयुक्त इति पदम् | अनुमानादिव्यवच्छेदार्थमर्थेन्द्रियसंप्रयोगादिति पदम् | तद् द्विविधम्- निर्विकल्पकं सविकल्पकं चेति | तत्र नामजात्युल्लेखशून्यं प्रत्यक्षज्ञानं निर्विकल्पकम्, यथा प्रथमाक्षसन्निपातजं वस्तुमात्रावभासकं विज्ञानम् | तदुक्तम्- अस्ति ह्यालोचनज्ञानं प्रथमं निर्विकल्पकम् | बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् || (श्लो० वा०, प्र० ११२) इति | नामादिसम्बन्धोल्लेखि प्रत्यक्षज्ञानं सविकल्पकम् | तद्यथा- देवदत्तेति नामविकल्पः | दण्डी कुण्डलीत्यादयो द्रव्यविकल्पाः | शुक्लः कृष्णो महानित्यादयो गुणविकल्पाः | गच्छत्यागच्छति पततीत्यादयः क्रियाविकल्पाः | मनुष्यः पशुर्घट इत्यादयो जातिविकल्पाः | इति पञ्चविधं सविकल्पकमिति | तत् पुनर्द्विविधम्- योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति | देशकालस्वभावविप्रकृष्टार्थविषयमपरोक्षज्ञानं योगिप्रत्यक्षम् | तद्विपरीतमयोगिप्रत्यक्षम् | तद्यथा- देशविप्रकृष्टा मेर्वादयः | कालविप्रकृष्टा रावणादयः | स्वभावविप्रकृष्टा मूलकारणेन्द्रियादयः | तेषु यदपरोक्षं विज्ञानं योगिनाम्, तद् योगिप्रत्यक्षम् | इतरस्योदाहरणमुक्तमिति | लिङ्गादुपजायमानं लिङ्गिविज्ञानमनुमानम् | निरुपाधिकसाध्यसंबन्धि लिङ्गम् | तत् त्रिविधम्- पूर्ववत्, शेषवत्, सामान्यतोदृष्टं चेति | कारणेन कार्यानुमानं पूर्ववत्, यथा विशिष्टमेघोन्नत्या भविष्यति वृष्टिरिति विज्ञानम् | तदुक्तं न्यायविद्भिः- सविद्युतां विदधतां गर्जाडम्बरमम्बरे | घनानामुन्नतिर्दृष्टा न वृष्टिव्यभिचारिणी || त्वङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुङ्गविग्रहाः | वृष्टिं व्यभिचरन्त्येते नैवंप्रायाः पयोमुचः || तथा- शिखण्डिमण्डलारब्धचण्डताण्डवडम्बरैः | प्रावृडाख्यायते मेघमेदुरैर्मेदिनीधरैः || इति | कार्येण कारणानुमानं शेषवत् | तद्यथा- नदपूरणेनोपरिष्टाद् वृष्ट्यनुमानम् | तदन्यत् सामान्यतोदृष्टम् | तद्यथा- रसाद् रूपविषयं विज्ञानमिति | अपरे दृष्टस्वलक्षणसामान्यविषयं पूर्ववत् | तद्यथा- धूमादिलिङ्गदर्शनादध्यक्षयोग्येऽग्नावनध्यक्षे संजायमानं विज्ञानम् | सामान्यतोदृष्टम् अदृष्टस्वलक्षणसामान्यविषयम् | तद्यथा- रूपाद्युपलब्धिः करणजन्या क्रियात्वात् छिदिक्रियावदितीन्द्रियसाधकमनुमानम् | इन्द्रियत्वस्यानुमानविषयस्य स्वलक्षणं पूर्वं न प्रसिद्धमिति नास्य पूर्ववत्त्वम् | अनयोरन्वयमुखेन प्रवर्तमानत्वाद् वीतत्वम् | व्यतिरेकमुखेन प्रवर्तमानं निषेधकमवीतम् | तदेव शेषवदनुमानम् | शिष्यत इति शेषः | स विषयतयास्त्यस्यानुमानस्येति शेषवदिति | तदुक्तम्- प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गाद् शिष्यमाणे संप्रत्ययः (न्या० भा० १|१|५) तच्छेषवदनुमानमिति | तद्यथा- सर्वं कार्यं सर्वज्ञनिर्मितम्, कदाचित्कत्वात्, यद्यत् सर्वज्ञनिर्मितं न भवति तत्तत् कादाचित्कमपि न भवति, यथा मायादि, न च तथेदमकादाचित्कम्, तस्मात् सर्वज्ञानिर्मितमपि न भवतीति | तत् पुनर्द्विविधं स्वार्थं परार्थं चेति | तदुक्तम्- परोपदेशानपेक्षं स्वार्थं स्वस्यानुमापकम् | परोपदेशसापेक्षं परार्थमभिधीयते || इति | परोपदेशः पञ्चावयवं वाक्यम् | प्रतिज्ञाहेतूदाहरणोपनयनिगमनान्यवयवाः पञ्चेति तार्किकाः | प्रतिज्ञाहेतूदाहरणाख्यास्त्रय इति मीमांसकाः | उदाहरणोपनयौ द्वाविति बौद्धः | तत्र प्रतिपिपादयिषया पक्षवचनं प्रतिज्ञा, यथाग्निमान् पर्वत इति | साधनत्वख्यापकं लिङ्गवचनं हेतुः, यथा धूमवत्त्वादिति | स त्रिविधः- अन्वयव्यतिरेकी, केवलान्वयी, केवलव्यतिरेकी चेति | तत्र पञ्चरूपोऽन्वयव्यतिरेकी | रूपाणि तु पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षाद् व्यावृत्तिः, अबाधितविषयत्वम्, असत्प्रतिपक्षत्वं चेति | तत्र साध्यधर्मविशिष्टो धर्मी पक्षः | तत्र व्याप्यवृत्तित्वं हेतोः पक्षधर्मत्वम् | साध्यसमानधर्मा धर्मी सपक्षः | तत्र सर्वस्मिन्नेकदेशे वा हेतोर्वृत्तिः सपक्षे सत्त्वम् | साध्यव्यावृत्तधर्मा धर्मी विपक्षः | तत्र हेतोरवृत्तिर्विपक्षाद् व्यावृत्तिः | प्रमाणाविरोधिनी प्रतिज्ञातार्थे हेतोर्वृत्तिरबाधितविषयत्वम् | स्वपरपक्षसिद्धावत्रैरूप्यमसत्प्रतिपक्षत्वम् | तद्यथा- क्षित्यादिबुद्धिमत्पूर्वं कार्यत्वाद् घटादिवदित्यादि | पक्षसपक्षवृत्तिरविद्यमानविपक्षः केवलान्वयी | तद्यथा- विवादास्पदमदृष्टादि कस्यचित् प्रत्यक्षं प्रमेयत्वात् करतलादिवदिति | पक्षवृत्तिरविद्यमानसपक्षो विपक्षाद् व्यावृत्तः केवलव्यतिरेकी | तस्योदाहरणमवीतानुमानमिति | तथाहि- विमतं कलादिकं मायातो न भिद्यते, मायाकार्यत्वात्, यत्तु भिद्यते न तन्मायाकार्यम्, यथा पुरुषशिवौ, न तथा न मायाकार्यं कलादि, तस्मान्न मायातो भिद्यत इति | एवं हेतुलक्षणोक्त्या हेत्वाभासा निराकृताः | ते चासिद्धविरुद्धानैकान्तिकानाध्यवसि-तकालात्ययापदिष्टप्रकरणसमाः पक्षधर्मत्वादिरूपाभावाद् भवन्ति | तत्रानिश्चितपक्षवृत्तिरसिद्धः | यथा- शब्दो नित्यश्चाक्षुषत्वादित्यादि | पक्षविपक्षयोरेव वर्तमानो विरुद्धः | यथा- आकाशविशेषगुणः शब्दः प्रमेयत्वादित्यविद्यमानसपक्षः | क्षित्यादिकालानतं नित्यं कार्यत्वादिति विद्यमानसपक्षः | पक्षत्रयवृत्तिरनैकान्तिकः | यथा- नित्यः शब्दः प्रमेयत्वादिति साध्यासाधकः | पक्ष एव वर्तमानोऽनध्यवसितः | तद्यथा- नित्या भूर्गन्धवत्त्वादिति विद्यमानसपक्षः | सर्वं क्षणिकं सत्त्वादित्यविद्यमानसपक्षः | प्रमाणबाधिते प्रतिज्ञातार्थे वर्तमानो हेतुः कालात्ययापदिष्टः | शुचि नरशिरःकपालं प्राण्यङ्गत्वात् शङ्खवदित्यागमविरुद्धः | उलूको दिवा रूपं पश्यति, चक्षुष्मत्त्वादित्यनुमानविरुद्धः, रूपदर्शनाविनाभाविचेष्टाभावेन रूपदर्शनाभावानुमानादिति | अनुष्णोऽग्निर्मथनजन्यत्वाद् नवनीतवदिति प्रत्यक्षविरुद्धः | स्वपरपक्षसिद्धावभिरूपो हेतुः प्रकरणसमः | तद्यथा- अनित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद् घटादिवदित्यस्य नित्यः शब्दः पक्षसपक्षयोरन्यतरत्वाद् मायावदित्यत्रापि त्रैरूप्यसद्भावादिति | सम्यग्दृष्टान्ताभिधानमुदाहरणम् | व्याप्तिग्रहणभूमिर्दृष्टान्तः | तद्यथा- यो यो धूमवान् स सोऽग्निमान् यथा महानस इति साधर्म्योदाहरणम्, अन्वयमुखेन दृष्टान्ताभिधानत्वात् | यस्त्वग्निमान्न भवति स धूमवानपि न भवति, यथा जलमिति वैधर्म्योदाहरणम्, व्यतिरेकमुखेन दृष्टान्ताभिधानत्वात् | अनेकोदाहरणाभासा व्युदस्ताः | तथा च नित्यं मनो मूर्तत्वाद् यद् यद् मूर्तं तत्तन्नित्यं यथा घट इति साध्यविकलः, यथात्मेति साधनविकलः, यथा कर्मेत्युभयविकलः, यथा खपुष्पमित्याश्रयहीनः | यन्नित्यं न तन्मूर्तं यथात्मेति साध्याव्यावृत्तः | यथा घट इति साधनाव्यावृत्तः | यथा मायेत्युभयाव्यावृत्तः | शिवतत्त्वाद् न्यूनतया मायाया मूर्तत्वम् | व्याप्तिस्तु स्वकार्यव्याप्ततयैवोच्यते | यथा खपुष्पमित्याश्रयहीनः, असौ महाराज्यं करिष्यति सोमवंशोद्भूतत्वाद् भविष्यद्राजपुत्रवदिति सन्दिग्धाश्रय इत्यादि | दृष्टान्ते प्रसिद्धव्याप्तिकस्य हेतोर्दृष्टान्तोपमानेन पक्षे व्याप्तिव्यापकं वचनमुपनयः | तथा चायं धूमवानिति साधर्म्योपनयः | न च तथा धूमवानयं पर्वत इति वैधर्म्योपनयः | उपनयानन्तरं सहेतुकं प्रतिज्ञावचनं निगमनं तस्मादग्निमानेवेति | तदुक्तं भगवता वेदव्यासेन- पञ्चावयवयुक्तस्य (महाभारतस्य भाण्डारकरसंस्करणे सभापर्वणि प्रथमे परिशिष्टे वचनमेतद् दृश्यते |) वाक्यस्य गुणदोषवित् | उत्तरोत्तरवक्ता च ब्रुवतोऽपि बृहस्पतेः || इति | (म० भा० २|१|७-८) अन्ये तु पक्षधर्मत्वसपक्षसत्त्वविपक्षाद्व्यावृत्त्यात्-मकरूपत्रयवानन्वयव्यतिरेकी | पक्षादिलक्षणं च सन्दिग्धसाध्यः पक्षः | सन्देहश्च विप्रतिपत्तेः | निश्चितसाध्यः सपक्षः | निश्चितसाध्यव्यतिरेको विपक्ष इत्यतोऽग्न्यनुष्णतासाधकस्य कृतकत्वस्य विपक्षाद्व्यावृत्तिरूपाभावेनागमकतया बाधितविषयत्वस्य विपक्षाद्व्यावृत्तावन्तर्भावः | स्वपरपक्षसिद्धावेकस्य त्रैरूप्यासंभवादसत्प्रतिपक्षत्वरूपाभावः, पक्षसपक्षयोरन्यतरत्वस्य चैकस्यासंभवात् | तदुक्तम्- यच्चानुमेयसम्बन्धं प्रसिद्धं च तदन्विते | तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् || विपरीतमतो यत् स्यादेकेन द्वितयेन वा | विरुद्धासिद्धसन्दिग्धमलिङ्गं काश्यपोऽब्रवीत् || एवं केवलान्वयी च रूपद्वयवान्, विपक्षाद् व्यावृत्तिरूपाभावात् | व्यतिरेकी च तथा, सपक्षाभावेन सपक्षे सत्त्वरूपाभादिति मन्यन्त इति | शब्दजन्यं सम्यग्ज्ञानमागमः | स द्विविधः- पौरुषेयवाक्यजन्योऽपौरुषेयवाक्यजन्यश्चेति | तत्र तन्त्रेतिहासपुराणमन्वादि वाक्यानि पौरुषेयाणि | वेदवाक्यान्यपौरुषेयाणि इति | ननु वेदवाक्यानि पौरुषेयाणि वाक्यत्वाद् भारतादिवाक्यवदित्यनुमानात् तेषां पौरुषेयत्वसिद्धिरिति चेत्, नैवम्, तस्मै नूनमभिद्यवे वाचा विरूपनित्यया (ऋ० ८|७५|६) इत्यागमेन वेदनित्यत्वसिद्धेरस्य कालात्ययापदिष्टतयाऽप्रामाण्यात् | प्रलये समनुप्राप्ते नष्टे स्थावरजङ्गमे | एकोऽहं संस्थितो देवि न द्वितीयोऽस्ति कुत्रचित् || तस्मिन् वेदाश्च शास्त्राणि मन्त्रे पञ्चाक्षरे स्थिता | ते नाशं नैव सम्प्राप्ता मच्छक्त्या ह्यनुपालिताः || इति लैङ्गागमविरोधाच्चेति | न च प्रत्युच्चारणं वेदस्योत्पत्तिनाशोपलम्भादनुपपन्नं तन्नित्यत्वमिति वाच्यम्, उच्चारणाया अभिव्यञ्जकत्वेन तदुभयाभावात् | तच्च स एवायं वेद इति स एवायं स्तम्भ इतिवत् प्रत्यभिज्ञाप्रत्यक्षेण प्रागदीपानीमुपलभ्यमानस्य वेदस्य सत्त्वावगमादवगम्यते | न च प्रलयावस्थायां वेदधारणसमर्थपुरुषाभावेन वेदस्य विनाशे पुनः सर्गादौ वेदानां परमेश्वररचितत्वेनानित्यत्वमिति वाच्यम्, द्विजातीनां वेदधर्तॄणामभावेऽपि परमेश्वरस्य वेदधर्तुः सद्भावात् | तथाहि- सर्गादावुत्पन्नस्य वेदस्य यावत्प्रलयमवस्थानं वैशेषिकादिभिर्वेदानित्यत्ववादिभिरभ्युपगम्यते | ततस्तत्र न विवादः | प्रलयकाले तु सद्भावः साध्यते | तथाहि- प्रलयकालो वेदवित्पुरुषसमन्वितः, कालत्वादितरकालवदिति | न च भूभूधरादिसत्त्वमपि तेनैव न्यायेनानुमातुं शक्यत्वादतिप्रसङ्ग इति वाच्यम्, भूभूधरादिशून्यकालस्य प्रलयत्वेन तस्य तद्वत्तासाधने माता मे वन्ध्येतिवत् प्रतिज्ञाविरोधप्रसङ्गात् | एकब्रह्माण्डवर्तिसकलवैदिकपुरुषविनाशेऽपि ब्रह्माण्डान्तरवर्त्यनन्तवैदिकपुरुषसद्भावाच्च वेदनित्यत्वम् | ब्रह्माण्डान्तराण्यप्येतद्वेदवन्ति ब्रह्माण्डत्वात् सम्प्रतिपन्नवदिति सर्वत्र वेदैकत्वम् | वेदानित्यत्वपक्षेऽनन्तशा-खाविततानन्तवेदजनननाशतत्कारणकल्पनायां कल्पनागौरवप्रसङ्गः | नित्यत्वे तु सिद्धस्य वेदस्य नित्यत्वमात्रकल्पनाया लाघवान्न कश्चिद् दोष इति | तथा वेदकर्तुरसम्भवाच्च न वेदपौरुषेयत्वम् | तथा हि- नेश्वरः कर्ता वेदस्य, पूर्ववेदपरित्यागे कारणाभावात् | न च पूर्वकल्पे वेदाभाव इति वाच्यम्, पूर्वकल्पे वेदसद्भावस्यानुमानसिद्धत्वात् | तथाहि- पूर्वः सर्वोऽपि कल्पो वेदवैदिकयुक्तः कल्पत्वादिदानीन्तनकल्पवदिति | न चेदानीन्तनकल्पवदेव भावनामद्यतनानामपि कल्पान्तरे सद्भावानुमानादतिप्रसङ्ग इति वाच्यम्, प्रमाणाविरुद्धभावसद्भावस्येष्टत्वात् | तदुक्तं भगवता मनुना- यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये | दृश्यन्ते तानि तान्येव तथा ब्रह्महरादिषु || इति | तस्मादपौरुषेयो वेदराशिरिति सिद्धम् | वेदाः प्रमाणम्, अनाप्तकृतशब्दत्वात्, सम्प्रतिपन्नवत् | विमतं वेदाध्ययनं तद्वेदाध्ययनपूर्वकम्, वेदाध्ययनत्वात्, इदानीन्तनवेदाध्ययनवदिति | उपमोपमानम् | गोसदृशो गवय इति वाक्यं तज्जनितं वा विज्ञानं यद्युपमानम्, तदागम एव न प्रमाणान्तरम् | योऽयमस्य गोसदृशस्य गवयशब्दो वाचक इति संज्ञासंज्ञिसम्बन्धविषयः प्रत्ययः, स चानुमानमेव | तथा हि- गोसदृशस्यास्य गवयशब्दो वाचकः, तत्र वृद्धैः प्रयुज्यमानत्वात्, यो हि शब्दो यत्र वृद्धैः प्रयुज्यते सोऽसति वृत्त्यन्तरे तस्य वाचकः, यथा गोशब्दो गोत्वे प्रयुज्यमानस्तस्य वाचकः, तथा प्रयुज्यते चायं गवयशब्दो गोसदृशे, तस्मात् तस्य वाचक इति ज्ञानमनुमानान्न भिद्यत इति | यश्च प्रत्यक्षे गवये गोसादृश्यप्रत्ययः, सोऽक्षसंयोगजत्वात् प्रत्यक्षान्तर्भूतः | तथैव प्रत्यक्षमेव स्मर्यमाणायां गवि गवयसादृश्यज्ञानम्, तस्यैकतया प्रत्यक्षगम्यत्वाविरोधात् | तथाहि- भूयोऽवयवसामान्ययोगो जात्यन्तरवर्ती जात्यन्तरे सादृश्यमुच्यते | तस्यैकतया गवये प्रत्यक्षगम्यस्य गोस्मरणानन्तरं गवि प्रत्यक्षत्वाविरोध इति पूर्ववन्निर्विकल्पकानुभूतत्वेन स्मर्यमाणं वा गवि गवयसादृश्यमिति नोपमानवेद्यं किञ्चिदस्तीति न प्रमाणान्तरमिति | एवं जीवतो देवदत्तस्य गृहाभावदर्शनेन बहिर्भावस्य प्रमाणान्तरानवगतस्य परिकल्पनात्मिकाऽर्थापत्तिरपि न प्रमाणान्तरम्, अनुमानत्वात् | सदेव यदेकत्र नास्ति, तदन्यत्रास्ति | सन्नेवाव्यापको यदेकत्र नास्ति, तदन्यत्रास्तीति स्वशरीर एव व्याप्तिग्रहणसंभवात् | तथा च देवदत्तो बहिर्देशसंबन्धी, सत्त्वे सति गृहेऽविद्यमानत्वात्, बहिःस्थवृक्षादिवदिति गृहाभावलिङ्गेन बहिर्भावज्ञानमनुमानमेवेति | न च सत्त्वमात्रावेदकगृहासत्त्वावेदकप्रमाणयोर्ज्योतिःशास्त्रप्रत्य-क्षयोः परस्परविरोधादेकविषयव्यवस्थयाऽर्थापत्तिरिति वाच्यम्, अनवच्छिन्नावच्छिन्नयोः सत्त्वमात्रगृहासत्त्वयोर्विरोधाभावेनाविरोधापादनासंभवात् | नहि यत्र क्वचन सत्त्वस्य गृहासत्त्वेन विरोधः संभवति, भिन्नविषयत्वात् | न च निश्चितो गृहाभावः पाक्षिकतया सांशयिकेन गृहसत्त्वेन प्रतिक्षिप्यते, प्रबलत्वादसत्त्वस्य | न च देशसामान्येन पाक्षिकमस्य गृहसत्त्वं प्रतिक्षिपन् गृहाभावः सत्त्वमात्रं प्रतिक्षेप्तुं सांशयिकत्वं वा नेतुं शक्नोति, तस्य तत्रौदासीन्यादिति | सत्त्वमात्रगृहासत्त्वयोर्विरोधाभावादविरोधापादनं नार्थापत्त्या क्रियत इति न सा प्रमाणान्तरमिति | न च भावान्तरादन्योऽस्त्यभावः, यत्सिद्ध्यर्थमभावाख्यं प्रमाणमाश्रीयेत | नहि भूतलपरिणामविशेषात् कैवल्यक्षणादन्यो घटाभावो नाम | प्रतिक्षणपरिणामिनो हि सर्वे भावा ऋते चितिशक्तेः परमेश्वरादिति स परिणामभेद इन्द्रियसिद्ध इति | अथवा भवतु भावान्तराद् व्यतिरिक्तोऽभावः, तथापि प्रत्यक्षादिप्रमाणसिद्धत्वात् तत्सिद्ध्यर्थं न प्रमाणान्तरमभ्युपगन्तव्यम् | तथाहि- चक्षुर्विष्फारणान्वयव्यतिरेकानुविधानादिह भूतले घटो नास्तीत्यभावज्ञानस्यैन्द्रियकत्वम् | तथा बहिःस्थत्वेन घटादीनां गृहासत्त्वं स्वशरीरवदनुमीयते | तथा भारतपुरुषाणामभावो भारताअगमेनावगम्यत इति | तस्मान्नाभावाख्यं प्रमाणान्तरमस्तीति | सम्भवस्तु खार्या द्रोणाढकप्रस्थावगमः | स चानुमानम्, खारीत्वस्य द्रोणादिव्याप्ततया तेन तदनुमानादिति | यच्चानिर्दिष्टप्रवक्तृकं प्रवादमात्रमिति होचुर्वृद्धा इत्यैतिह्यम्, यथेह वटे यक्षः प्रतिवसतीत्यादि | इदं न प्रमाणान्तरम्, आप्तोक्त्यनिश्चयेन सांशयिकत्वात् | आप्तवक्तृनिश्चये त्वागम एवेति न प्रमाणान्तरमिति | चेष्टा चाभिनयः | स च समयबलेन परोक्षानुभवसाधनत्वादागम एवेति न प्रमाणान्तरमिति | एवं विरोधोऽपि | ह्रदमध्येऽग्न्यभावज्ञानं तदनुमानमेव, जलाग्न्योः परस्परविरुद्धयोरेकत्रासम्भवेनेतरेतराभावव्याप्तत्वादिति त्रीण्येव प्रमाणानीति | तदुक्तम्- दृष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् | त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि || प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् | तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनं च | सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रसिद्धिरनुमानात् | तस्मादपि चासिद्धं परोक्षमाप्तागमात् सिद्धम् || इति | (सा० का० ४-६) ऐहिकामुत्रिकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम्, न रागाभावः | तदैहिकामुत्रिकविषयाणामनित्यत्वसातिशयत्वादि-दोषदर्शनादुपजायत इति | अविघातकरणमैश्वर्यम् | तदष्टविधम्- अणिमा महिमा चैव लघिमा गरिमा तथा | ईशित्वं च वशित्वं च प्राप्तिः प्राकाम्यमेव च || तत्राणुत्वम् अणिमा परमाणुवदवस्थानम् | महत्त्वं महिमा यावदिच्छं स्थूलीभावः | लघिमा लघुत्वम्, यतः सूर्यमरीचीन् आलम्ब्य सूर्यलोकं गच्छति | गुरुत्वं गरिमा अन्यैरचाल्यत्वेनावस्थानम् | ईशित्वमीशभावो भूतभौतिकानां प्रभवादिहेतुत्वम् | वशित्वं वशीकरणभावः सर्वस्य स्वेच्छावशवर्तित्वम् | प्राप्तिः प्रापणम्, येनाङ्गुल्यग्रेण स्पृशति चन्द्रमसम् | प्राकाम्यमिच्छानभिघातः, भूमौ चोन्मज्जति निमज्जति यथोदक इति | सत्यसङ्कल्पतेत्यपरे | यथास्य सङ्कल्पो भवति, तथैव भूतानि भवन्तीति | अस्मदादीनां निश्चयाः पदार्थानुरूपाः, योगिनां तु निश्चयानुविधायिनः पदार्था इत्येतच्चतुष्कं समासतः सात्त्विकम्, सत्त्वादुत्पन्नं रूपमिति | चत्वारस्तामसाश्च विपरीता अधर्माज्ञानावैराग्यानैश्वर्याभिधाना इति | तामसास्तमस उत्पन्नाः | अधर्मोऽनभ्युदयानिःश्रेयसहेतुः | अज्ञानं ज्ञानविपर्ययः, असम्यग्ज्ञानमिति यावत् | तत् त्रिविधम्- विपर्ययो विकल्पो निद्रा चेति | विपर्ययो मिथ्याज्ञानतद्रूपप्रतिष्ठं शुक्तिकादौ रजतादिज्ञानम् | शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः | तद्यथा- शशविषाणादिशब्दश्रवणानन्तरं तदर्थविषयज्ञानमिति | जाग्रत्स्वप्नप्रत्ययाभावहेतुतमःप्रकर्षमवलम्ब्य या बुद्धिवृत्तिरुद्भवति, सा निद्रा | तदुक्तं पतञ्जलिना भगवता- अभावप्रत्ययालम्बना निद्रा (१|१०) इति सूत्रेण | अवैराग्यं च दृष्टानुश्रविकविषयतागः | अणिमादिप्रादुर्भावविरोधी बुद्धिधर्मोऽनैश्वर्यमिति | अन्ये तु परमेश्वरतत्त्वावेदकं ज्ञानम्, तदन्यदज्ञानमिति ब्रुवते | एतदुक्तं सांख्यैः- धर्मेण गमनमूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण | ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः || वैराग्यात् प्रकृतिलयः संसारो राजसाद्भवति रागात् | ऐर्श्यादविघातो विपर्ययात् तद्विपर्यासः || इति | (सा० का० ४४-४५) विषयाध्यवसायरूपिणीत्यनेन बुद्धेः सद्भावश्च प्रतिपादितः | तथाहि- विषयाध्यवसायादिवृत्तेः परिदृश्यमानाया मूलभूतं वृत्तिमद्बुद्धितत्त्वमभ्युपगन्तव्यम्, अन्यथा वृत्त्यभावप्रसङ्गादिति | तदुक्तं पारमेश्वरे- अथ बुद्धेर्विकासो यः स्वधर्मेणानुमीयते | क्षुब्धेभ्यः सहसा पूर्वं गुणेभ्यो भूतगोचरा || बुद्धिरध्यवसायेन भावानां जननी शुभा | वर्ण्यतेऽष्टगुणोपेता संविभज्य यथाक्रमम् || इत्यादि | (वि० १७|१-२) तस्या विभागमाह- सापि त्रिविधेति | सा बुद्धिस्त्रिप्रकारा | कुत इत्यत आह- गुणतः प्राक्तनकर्मानुसारेणेति | पुरुषस्य पूर्वजन्मनि कृतपुण्यापुण्यात्मककर्मानुसारेण गुणभेदादिति | तदुक्तम्- बुद्धिः कर्मानुसारिणी इति | तथाहि- पुण्येनैकेन सात्त्विकी बुद्धिरपुण्येन तामसी मिश्रेण राजसीति | तथा जाग्रत्स्वप्नसुषुप्त्यात्मना च कर्मानुसारेण गुणभेदात् त्रिविधा बुद्धिरिति वा | तथा हि- स्थूलकर्मनिमित्तं सात्त्विकी बुद्धिर्जागर्ति | सूक्ष्मकर्मवशाद् राजसी स्वप्नं गच्छति | जाग्रत्स्वप्नवृत्त्यभावहेतुभूततमःप्रकर्षमवलम्बमाना बुद्धिः सुषुप्तिमुपगच्छति | विश्रमार्थमात्मनः सर्वदैकस्वभावस्य सर्वगतस्य चिन्मात्रस्य जाग्रत्स्वप्नसुषुप्तिसाक्षिणो जाग्रदादित्रयाभावाद् बुद्धेर्विकारवतोऽवस्थात्रयवत्त्वमिति | तस्या वर्णमादित्योदयनिभम् | तदुक्तम्- अहङ्कारस्य (श्लोकोऽयं चन्द्रज्ञानस्य स्यात् | ) बाह्येऽपि बुद्धितत्त्वं व्यवस्थितम् | आदित्योदयसंकाशं बोधयन्तमिवाखिलम् || इति | तस्याः षडध्वव्याप्तिः- ठकारो वर्णः | तेजस्तेज इत्यादि द्वे पदे | तारहृदयपञ्चार्णमन्त्रः | बुद्ध्याख्यं तत्त्वम् | पैशाचाद्यष्टभुवनानि | विद्या कला || ३ || वृत्तिः अयं घट इत्याद्यध्यवसायात्मना कार्येण बुद्धिः सिद्धा | सापि पुंसः कार्यवशात् सत्त्वादिगुणबाहुल्येन सात्त्विकादिरूपा जायते, गुणानां सर्वत्र व्यापारदर्शनात् | अस्याश्च बुद्धेर्धर्माद्यष्टगुणत्वं सिद्ध्यादिप्रत्ययभेदश्च श्रीमन्मतङ्गादाववधेयः || ५२ || स्यात् त्रिविधोऽहङ्कारो जीवनसंरम्भगर्वरूपोऽयम् | संभेदादस्य सतो विषयो व्यवहार्यतामेति || ५३ || तात्पर्यदीपिका इदानीमहङ्कारतत्त्वं निरूपयति- स्यादिति | बुद्धितत्त्वादहङ्कारात्मकं तत्त्वमुत्पद्यते | अहङ्कृतिरहङ्कारः | अहमित्येवंरूपव्यापारवानित्यर्थः | विभागमाह- त्रिविध इति | केन रूपेणेत्याशङ्क्याह- जीवनसंरम्भगर्वरूपोऽयमिति | जीवनाहङ्कारः, संरम्भाहङ्कारः, गर्वाहङ्कारश्चेति | तत्र जीवामीत्याकारो जीवनाहङ्कारः | अहं करोमीति संरम्भाहङ्कारः | प्रबलोऽस्मि रूपवानित्यादि गर्वाहङ्कारः | एतानि रूपाणि यस्य स तथोक्त इति | प्रमाणमाह- संभेदादित्यादि | अहङ्कारसम्बन्धात् शब्दादिविषयो व्यवहार्यतामनुभवार्हतां यातीति | तथाहि- आत्मा तावन्निर्गुणो निष्क्रियश्चिन्मात्र उदासीनस्वभावः | तस्मादसौ न शृणोति, न पश्यति, न च करोतीत्ययमहङ्कारः श्रोत्रादिकृतश्रवणादिकं वागादिकृतवचनादिकं बुद्धिकृताध्यवसायादिकं चित्तकृतसंशयादिकं चाहं शृणोमीत्यादिभिरहं वच्मीत्यादिभिरहमध्यवस्यामीत्यादिभिश्च वृत्तिभिरात्मनि साक्षिणि सम्बध्नाति | तेनाहङ्काराख्यं तत्त्वमभ्युपगन्तव्यम् | अन्यथा देवदत्तकृतस्य यज्ञदत्त इव श्रोत्रादिकृतस्य श्रवणादेरात्मनि सम्बन्धाभावप्रसङ्ग इति | तदुक्तं शैवरहस्ये- संबन्धप्रतिभासो ज्ञातुर्ज्ञेयेन देशकालाभ्याम् | सुलभोऽभिमाननामा व्यापारोऽहङ्कृतेरस्याः || इति || ४ || वृत्तिः तस्याश्च- स्यादिति | आहङ्कारिको हि प्रयत्नात्मकः संरम्भः | यदुक्तम्- संरम्भोऽहङ्कृतेर्वृत्तिः (भो० का० ३३) इति | किञ्च, प्राणादिवायुप्रवृत्तिहेतुत्वेन जीवनमपि तद्धेतुकमेव | तदुक्तम्- संरम्भाद्यस्य चेष्टन्ते शारीराः पञ्च वायवः (मृ० वि० ११|२०) इति | तथा गर्वोऽपि | ग्राह्याध्यवसायाद् बुद्धिकार्याद् भिन्नोऽहमिति ग्राहकाध्यवसायोऽपि तत्कार्यमेव | अत एतैस्त्रिभिरहङ्कारसिद्धिः | ततश्चैतत्संबन्धादेव घटमहं जानामीति व्यवहार इत्याह- संभेदादिति | स च बुद्धेरुत्पन्नः | यदुक्तं सांख्यैरपि- महतोऽहङ्कारः (सां० का० २३) इति || ५३ || सात्त्विकराजसतामसभेदेन स जायते पुनस्त्रेधा | स च वैकारिकतैजसभूतादिकनामभिः समुच्छ्वसिति || ५४ || तात्पर्यदीपिका तस्यैव प्रकारान्तरेण त्रैविध्यमाह- सात्त्विकेति | सत्त्वरजस्तमोविकारतया सात्त्विकराजसतामसभेदवानहङ्कारस्त्रिविधो भवति | स पुनरहङ्कारो वैकारिकतैजसभूतादिकनामभिस्त्रिविधो भवतीति | सत्त्वोद्रिक्तः सात्त्विको वैकारिकाख्यः | रजोद्रिक्तस्तैजसः | केचिद् वैपरीत्यमिच्छन्ति, स च तैजसवैकारिकभूतादिकेति ग्रन्थपाथश्च इत्याहुः | तमोद्रिक्तः तामसः | स भूतादिनामेति गुणतो नामतश्च त्रैविध्यमहङ्कारस्य भवतीति || ५ || वृत्तिः किञ्च- सात्त्विकेति | सात्त्विकादीनामहङ्कारस्कन्धानां तैजसादीनि क्रमान्नामानि भवतीत्यर्थः || ५४ || तैजसतस्तत्र मनो वैकारिकतो भवन्ति चाक्षाणि | भूतादेस्तन्मात्राण्येषां सर्गक्रमोऽयमेतस्मात् || ५५ || तात्पर्यदीपिका कार्यमाह- तैजसत इति | एतस्मादेव त्रिविधादहङ्कारादेषां ज्ञानकर्मेन्द्रियतन्मात्रमनसां षोडशानां सर्गः | किमात्मकान्मनस उत्पत्तिः, किंरूपादिन्द्रियाणाम्, कथंभूतात् तन्मात्राणामित्याशङ्क्य तेषामुत्पत्तिं विभागेनाह- तैजसत इत्यादि | तैजसाख्यादहङ्काराद् राजसात् चलस्वभावं मन उत्पद्यते, वैकारिकात् सात्त्विकात् प्रकाशलाघवोपेतमिन्द्रियदशकम् | भूतादेस्तामसात् तमोबहुलानां तन्मात्राणामुद्भव इति | तैजसात् सात्त्विकात् स्वच्छं लघूत्पद्यते मन इत्यन्ये | सात्त्विकसहकृताद् वैकारिकाद् राजसाद् बुद्धीन्द्रियाणामुत्पत्तिः, ज्ञानसाधनत्वात् | तामससहकृताद् वैकारिकात् कर्मेन्द्रियाणामिति | सांख्याः सात्त्विकादेवाहङ्कारादेकादशेन्द्रियाणाम्, तामसात् तन्मात्राणामुत्पत्तिं मन्यन्ते | सत्त्वतमसोर्निष्क्रियतया स्वयमुत्पादनासामर्थ्यात् चलस्वभावेन रजसा प्रेरितयोस्तयोः कारणत्वमित्युभयमपि रजसा निमित्तेनोत्पद्यत इति, न तु तस्योपादानत्वम्, तत् सत्त्वतमसोरेवेति ब्रुवते | तथाहि- सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् | भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् || इति | (सां० का० २५) एषां सर्गक्रमोऽयमेतस्मादित्यनेन पुनरुक्तेन पञ्चभूतेभ्यः पञ्चानां बुद्धीन्द्रियाणामुद्भवं तार्किकाद्यभिमतं निरस्यति | तथा हि- घ्राणरसनचक्षुस्त्वक्श्रोत्रेन्द्रियाणि भूतेभ्यः (१|१|१२) इति न्यायसूत्रम् | भूतानां बाह्यैकैकेन्द्रियग्राह्यविशेषगुणवत्त्वेन्द्रियप्रकृतित्वे साधर्म्यम् (पृथिव्यादीनां पञ्चानामपि भूतत्वेन्द्रियप्रकृतित्वबाह्यैकैकेन्द्रियग्राह्यविशेषगुणवत्त्वानि इति साधर्म्यवैधर्म्यप्रकरणीयं प्रशस्तपादभाष्यम् |) इति प्रशस्तपादीयं वैशेषिकभाष्यं च पृथिव्यादिभ्य इन्द्रियाणां घ्राणादीनां शब्दादीनां च समुद्भवमभिधत्ते | मनश्च नित्यमिति तार्किकमीमांसका आहुः | तदेतदागमविरुद्धत्वादनुपपन्नम् | तथा हि पारमेश्वरे तावत्- सत्त्वधर्मस्त्रिधा तावदहङ्कारस्य सुव्रत | वैकारिकस्तैजसश्च भूतादिश्चेति स त्रिधा || सत्त्वेनोत्कृष्टवीर्येण गर्वो वैकारिकः स्मृतः | रजसा भूरिसंपृक्तस्तैजसः परिकीर्तितः || भूतादिस्तमसोत्कृष्टस्तेषां वक्ष्यामि वृत्तयः | वैकारिकोऽक्षसेनायाः कारणं योनिरुच्यते || मिथुनाज्जायते गर्वान्मनश्चैवोभयात्मकम् | तस्माद् वैकारिकादेव गर्वात् कर्मेन्द्रियाण्यपि || व्यक्तिमायान्ति संक्षोभात् सिसृक्षोः कारणात्मनः | भूतादेरप्यहङ्कारात् तन्मात्राणि भवन्ति हि || इत्यादि | (वि० १८|४३-४५, ४६, ५०, ६८-६९, ९८) शिवधर्मोत्तरे च- प्रधानादभवद् बुद्धिर्जगद्धेतुः शिवेच्छया | बुद्धेरपि च संक्षोभादहङ्कारस्त्रिधाऽभवत् || अहङ्काराच्च सूक्ष्माणि तन्मात्राणीन्द्रियाणि च | इति | अनुमानाच्च | तथाहि- विमतानीन्द्रियाणि भौतिकानि न भवन्ति, इन्द्रियत्वान्मनोवदिति | अनित्यं मनः, इन्द्रियत्वाच्चाक्षुरादिवत् | सर्वाणीन्द्रियाणि जन्यानि, आत्ममूलकारणव्यतिरिक्तवस्तुत्वात्, मूलकारणातिरेकिजडत्वात्, सगुणत्वात्, मूर्तत्वाद्वा, घटादिवदित्याद्यनुमानादभौतिकत्वकार्यत्वसिद्धौ इन्द्रियाणां कारणापेक्षायामागमबलादहङ्कारस्य कारणत्वमाश्रीयत इति | अत एव नाहङ्कारिकाणीन्द्रियाणि, इन्द्रियत्वात्, मनोवदित्यनुमानस्य कालात्ययापदिष्टत्वात् साध्यवैकल्याच्चाप्रामाण्यमिति | तथा पृथिव्यप्तेजोवायवो गन्धरसरूपस्पर्शोपादाना न भवन्ति, भूतत्वात्, व्योमवत्; व्योम च न शब्दोपादानं भूतत्वात् पृथिवीवदिति; शब्दादीन्युपादानकारणवन्ति कार्यत्वात्; कार्याणि च मूलकारणातिरिक्तानि जडत्वाद् घटादिवदित्यनुमानाद् भूतव्यतिरिक्ततदुपादानाहङ्कारसद्भावसिद्धिः | तस्य वर्णं पावकनिभम् | तदुक्तम्- तद्बाह्ये (श्लोकोऽयं चन्द्रज्ञानस्य स्यात् |) तु भवेत् तत्त्वमहङ्काराख्यमव्ययम् | दीप्तपावकसंकाशं भीमरूपं दुरासदम् || इति | अस्य षडध्वव्याप्तिः- धकारो वर्णः | अरूपेत्यादि द्वे पदे | ईशानपञ्चार्णौ मन्त्रौ | अहङ्काराख्यं तत्त्वम् | छगलण्डद्विरण्डौ भुवने | प्रतिष्ठा कला || ६ || वृत्तिः तत्र तेषु मध्यात् तैजसाऽहङ्कारान्मनोबुद्धीन्द्रियाणि जायन्ते, वैकारिकात् कर्मेन्द्रियाणि, भूतादेरपि तन्मात्राणीत्यर्थः | न च तैजसतो मन एव वैकारिकादुभयरूपाणीन्द्रियाणीति व्याख्येयम्, मूलवचनविरोधाद् युक्तिविरोधाच्च | सत्त्वस्य प्रकाशरूपत्वेन बोधहेतुत्वम्, रजसः क्रियाहेतुत्वं युक्तम् | उक्तं च श्रीमन्मृगेन्द्रे- श्रोत्रं त्वक्चक्षुषी जिह्वा नासा च मनसा सह | प्रकाशान्वयतः सात्त्वास्तैजसश्च स सात्त्विकः || वाणी पाणी भगः पायुः पादौ चेति रजोद्भवाः | कर्मान्वयाद् रजोभूयान् गणो वैकारिकोऽत्र यः || (वि० १२|३-४) ५५ || इच्छारूपं हि मनो व्यापारस्तस्य भवति सङ्कल्पः | बुद्ध्यक्षाणि श्रोत्रं त्वग् दृग् जिह्वा च नासा च || ५६ || तात्पर्यदीपिका अथ मनःपूर्वाणामिन्द्रियाणां स्वरूपमाह- इच्छेति | इच्छारूपं प्रार्थनारूपं मन इति | व्यापारः वृत्तिः, तस्य मनसः सङ्कल्पोऽनिर्धारितविशेषरूपः, संशयरूप इति यावत् | अनेन लक्षणमुक्तम् | सद्भावश्च संशयात्मिकया वृत्त्या वृत्तिमतोऽनुमानादिति | तथा चक्षुरादिकरणसम्बन्धेष्टविषयेषु युगपज्ज्ञानानुत्पादनात् चक्षुरादिव्यतिरिक्तं करणान्तरमस्तीत्यवगम्यते | यदि तन्न स्याद् युगपद् रूपादिज्ञानं जायेत | अतः करणान्तरमस्तीति तन्मन इति तत्सिद्धिः | तस्याणुकल्पत्वं त्वयुगपद् ज्ञानादेवावगम्यत इति विभुत्वानुमानं कौमारिलोक्तं धर्मिग्राहकप्रमाणविरुद्धत्वादप्रमाणमिति | बुद्ध्यक्षाणि बुद्धिवृत्तिसाधनानीन्द्रियाणि | कानि तानीत्यत आह- श्रोत्रं त्वग् दृग् जिह्वा च नासा चेति || ७ || वृत्तिः मनःसिद्धिमाह- इच्छेति | सङ्कल्पोऽवधानमेकाग्रता | तेन व्यापारेणेच्छारूपं मनः सिद्ध्यतीत्यर्थः | अयं तत्राऽभिप्रायः- आत्मन इन्द्रियार्थसन्निकर्षेऽप्यन्यपरस्य यदधिष्ठानं विना बाह्येन्द्रियाणि न प्रवर्तन्ते तन्मन इति | बुद्धीन्द्रियाण्याह- बुद्ध्यक्षाणीति || ५६ || ग्राह्यास्तेषां शब्दः स्पर्शो रूपं रसश्च गन्धश्च | इत्येतेषां विषयाः क्रमेण पञ्चापि पञ्चानाम् || ५७ || तात्पर्यदीपिका तेषां विषयमाह- ग्राह्या इति | बुद्धीन्द्रियाणां श्रोत्रादीनां पञ्चानामेते पञ्च शब्दादयो विषया यतो ग्राह्याः, अतस्ते विषयाः | तान् क्रमेण दर्शयति- शब्दः स्पर्शो रूपं रसश्च गन्धश्चेति || ८ || वृत्तिः अथ एषां ग्राह्यान् विषयानाह- ग्राह्या इति | शब्दादीनां ग्रहणं व्यापारः कीर्तितः क्रमेणैषाम् | वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाणि स्युः || ५८ || तात्पर्यदीपिका बुद्धीन्द्रियाणां स्वरूपं चाह- शब्दादीति | शब्द आदिर्येषां ते शब्दादयः, तेषां ग्रहणं तदाकारभजनम्, एषामिन्द्रियाणां व्यापार उक्तः, तत्त्वज्ञैरित्यर्थः | क्रमादित्यन्यस्यान्यग्रहणं न संभवति | अनेन लक्षणमुक्तं प्रत्येकं श्रोत्रादीनामिति | परीक्षापरं चेदं वाक्यम् | तथाहि- शब्दग्रहणं करणजन्यं क्रियात्वात् छिदिक्रियावदिति श्रोत्रसद्भावसिद्धिः | एवं स्पर्शरूपरसगन्धग्रहणकरणतया त्वगादीन्द्रियसिद्धिरवगन्तव्या | तथाहि- वर्णावर्णात्मना द्विविधशब्दग्रहणं श्रोत्रेण करणेन विना नोपपद्यते, बधिरस्य तद्ग्रहणादर्शनात् | एवं शीतोष्णमृदुकठिनद्रवतीक्ष्णादिस्पर्-शग्रहणं च त्वगिन्द्रियेण विना न स्यात्, त्वग्दोषदूषितस्य तदनुपलम्भात् | तथाहि- श्वेतरक्तकृष्णपीतहरितधूम्रश्याम-ह्रस्वदीर्घादिभेदभिन्नरूपग्रहणं चक्षुःकरणं विना न संभवति, अन्धस्य तद्दर्शनासंभवात् | एवं मधुराम्लतिक्तलवणकटुकषायात्मना षड्विधरसग्रहणमपि तत्प्रवर्तकरसनकरणेन विना न स्यात्, जाड्योपप्लुतरसनेन्द्रियवतस्तदनवगमात् | तथा सुरभ्यसुरभ्यात्मना द्विविधगन्धग्रहणं च तत्करणनासिकाकरणं विना न संभवति, अघ्रातृत्वदूषितेन्द्रियस्य तदनुपलब्धेरिति || ९ || वृत्तिः अतश्च शब्दादिग्रहणान्यथानुपपत्त्यैवैषां सिद्धिरित्याह- शब्दादीति | न चैषां नियतविषयत्वाद् भौतिकत्वं युज्यते, भूतान्तराणां तद्गुणानां कर्मसामान्यादेश्चक्षुरादीनां ग्रहणदर्शनात् | तदुक्तं सिद्धगुरुणा- भौतिकत्वाच्च नियमे कर्मसामान्ययोः स्फुटम् | देवेभ्यो बुद्धयो न स्युः समवाये च देहिनाम् || इति | (भो० का० ४०) तत्र देवनाद् द्योतनाद् देवा इतीन्द्रियाण्युच्यन्ते | कर्मेन्द्रियाण्याह- वाक्पादेति || ५८ || वचनादानविहरणोत्सर्गानन्दाश्च कर्मैषाम् | अन्तःकरणं त्रेधा बुद्धिरहङ्कारचेतसी चेति || ५९ || तात्पर्यदीपिका कर्मेन्द्रियाणि वाक्पाणिपादपायूपस्थानीति पञ्च भवन्ति | तेषां व्यापारमन्तःकरणानां विभागं चोत्तरश्लोकेनाह- वचनेति | एषां कर्मसाधनतया कर्मेन्द्रियाणां वचनादीनि कर्माणि | परीक्षार्थं चेदं वाक्यम् | तथाहि- शब्दोच्चारणान्यथानुपपत्त्या तत्करणभूतवागिन्द्रियसद्भावोऽवगम्यते | न च तदधिष्ठानं वागिन्द्रियमिति वाच्यम्, मूकस्यापि शब्दोच्चारणप्रसङ्गादिति | एतदिन्द्रियान्तरेष्वप्यवगन्तव्यम्, अन्यथा कौण्यपङ्गुत्वोदावर्तक्लैब्यात्मकेन्द्रियवत आदानादिप्रसङ्गात् | तदुक्तं सांख्यैः- बाधिर्यं (वचनमेतत् सांख्यतत्त्वकौमुद्यामेकादशेन्द्रियवधा (४९) इति कारिकाव्याख्यायामुद्धृतं समुपलभ्यते |) कुष्ठिताऽन्धत्वं जडताऽजिघ्रता तथा | मूकता कौण्यपङ्गुत्वे क्लैब्योदावर्तमन्दताः || इति | तस्मादधिष्ठानातिरिक्तानामतीन्द्रियाणामिन्द्रस्यात्मनश्- चिह्नत्वेनेन्द्रियशब्दवाच्यानां सद्भावः सिद्ध इति | विमतानीन्द्रियाण्यतीन्द्रियाणि, इन्द्रियत्वात्, मनोवदिति च तेषामतीन्द्रियत्वसिद्धिरिति | आभ्यन्तरं करणमन्तःकरणं त्रिविधम्, केन रूपेणेत्यत आह- बुद्धिरहङ्कारचेतसी चेति | बुद्धिरहङ्कारो मनश्चेति | अथवा अन्तःकरणमेकैकं त्रिविधं भूतभविष्यद्वर्तमानविषयभेदात् | तदुक्तं मातङ्गे- यदन्तःकरणं नाम त्रिकालविषयात्मकम् || यतोऽवसीयते तस्मात् चिरकालानुसञ्चितम् | वर्तमानमतीतं च यच्चैष्यदनुमानतः || इति | (वि० १८|८६-८७, ८८) तथा सांख्यैश्च- साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् इति || १० || (सां० का० ३३) वृत्तिः अथ व्यापारैः कैरेषां सिद्धिरित्यत आह- वचनेति | विहरणं गमनम्, उत्सर्गो मलापनयनम् | शेषं सुगमम् | अत एव कर्मेन्द्रियाणि ये नेच्छन्ति ते प्रतिक्षिप्ताः | नामकरणा कृतिर्दृश्यते यतः | नन्वेवं चेद् भ्रूक्षेपादीनामपि क्रियात्वादनन्तता कर्मेन्द्रियाणाम् | तन्न, त्वगिन्द्रियवत् सर्वशरीरव्यापकत्वेनैषामभ्युपगमात् | भ्रूक्षेपादि हस्तादेरेव व्यापार इत्यदोषः | तेषु चान्तःकरणबहिःकरणभेदमाह- अन्तःकरणमिति || ५९ || बुद्धीन्द्रियकर्मेन्द्रियभेदाद् बाह्यं पुनर्भवेद् दशधा | तन्मात्रेभ्यः खपवनतेजोऽम्भःक्ष्मेति पञ्चभूतानि || ६० || तात्पर्यदीपिका बाह्यकरणभेदं तन्मात्रवृत्तिं चाह- बुद्धीति | बाह्यं करणं दशविधम्- पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणीति | अथवा अन्तःकरणं बुद्ध्यहङ्कारमनोरूपम् | कर्मेन्द्रियबुद्धीन्द्रियात्मकं बाह्यं च कार्यभेदात् त्रिविधं च | अन्तःकरणस्य प्राणादिवृत्त्या शरीरधारणलक्षणम्, बुद्धीन्द्रियाणां प्रकाशः, कर्मेन्द्रियाणामाहरणमिति | तदुक्तम्- करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् इति | (सां० का० ३२) मनःपूर्वाणामिन्द्रियाणां षडध्वव्याप्तिः क्रमेणोच्यते- उकारो वर्णः | आधूमेत्यादि द्वे पदे | तत्पुरुषपञ्चार्णौ मन्त्रौ | मनस्तत्त्वम् | माकोटाख्यं भुवनम् | निवृत्तिः कला | नकारो वर्णः | शर्वमहेश्वरौ पदे | कवचपञ्चार्णौ मन्त्रौ | श्रोत्राख्यं तत्त्वम् | मण्डलेश्वरं भुवनम् | शान्त्यतीता कला | पकारो वर्णः | महादेवेत्यादि द्वे पदे | शिखापञ्चार्णौ मन्त्रौ | त्वगात्मकं तत्त्वम् | कालञ्जरं भुवनम् | शान्तिः कला | ढकारो वर्णः | महातेजादि द्वे पदे | शिरःपञ्चार्णौ मन्त्रौ | चक्षुराख्यं तत्त्वम् | शङ्कुकर्णं भुवनम् | विद्या कला | बकारो वर्णः | मुञ्च मुञ्चेत्यादि द्वे पदे | हृदयपञ्चार्णौ मन्त्रौ | वागात्मकं तत्त्वम् | मण्डलेश्वरं भुवनम् | शान्त्यतीता कला | यकारो वर्णः | सार्वसान्निध्यकरणेत्यादि द्वे पदे | अघोरपञ्चार्णौ मन्त्रौ | पाण्यात्मकं तत्त्वम् | कालञ्जरं भुवनम् | शान्तिः कला | र इति वर्णः | अनर्चितेत्यादि द्वे पदे | वामदेवपञ्चार्णौ मन्त्रौ | पादात्मकं तत्त्वम् | शङ्कुकर्णं भुवनम् | विद्या कला | लकारो वर्णः | पूर्वस्थितेत्यादि द्वे पदे | सद्योजातपञ्चार्णौ मन्त्रौ | पायवात्मकं तत्त्वम् | स्थूलेशं भुवनम् | प्रतिष्ठा कला | वकारो वर्णः | तुरु तुर्वित्यादि द्वे पदे | अस्त्रपञ्चार्णौ मन्त्रौ | उपस्थात्मकं तत्त्वम् | स्थलेश्वरं भुवनम् | निवृत्तिः कला || ११ || वृत्तिः अथ तन्मात्राणां भूतकारणतयैव सिद्धिरित्याह- तन्मात्रेभ्य इति | खं च पवनश्च तेजश्च खपवनतेजः | शेषं सुगमम् || ६० || तन्मात्राण्यविशेषाः शब्दादीनां प्रकीर्तिताः पञ्च | भूतानि पञ्च तेभ्यो भवन्ति तान्येकगुणवृद्ध्या || ६१ || तात्पर्यदीपिका तन्मात्रेभ्य इत्यत्र कानि तन्मात्राणि, तेभ्यः कथं भूतानामुत्पाद इत्यत आह- तन्मात्राणीति | अविशेषाः सुक्ष्माः शब्दादयः पञ्च तन्मात्राणीत्युच्यन्ते | मात्रशब्देन भूतसंश्लेषो भूतभावेन परिणामो वा व्युदस्तः | केवलाः शब्दादयः सूक्ष्मत्वेनावस्थितास्तन्मात्राणोत्यर्थः | तेभ्यस्तन्मात्रेभ्यः पञ्चभ्यः पञ्च भूतानि एकैकगुणवृद्ध्या भवन्तीति | तथाहि- शब्दतन्मात्रात् शब्दैकगुणमाकाशमुत्पद्यते, शब्दतन्मात्रसहितात् स्पर्शतन्मात्राच्छब्दस्पर्शगुणो वायुः, उक्ततन्मात्रद्वयसहिताद् रूपतन्मात्रात् शब्दस्पर्शरूपगुणं तेजः, उक्ततन्मात्रसहिताद् रसतन्मात्रात् चतुर्गुणा आपः, शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्रोपादानकारणात् शब्दस्पर्शरूपरसगन्धात्मकपञ्चगुणा पृथिवी समुत्पद्यत इति | अपरे केवलेभ्यस्तन्मात्रेभ्यः केवलानि भूतानीत्याहुः | अन्ये तु शब्दतन्मात्रादाकाशस्पर्शतन्मात्रावुत्पद्येते, स्पर्शतन्मात्राद् वायुरूपतन्मात्रौ, रूपतन्मात्रात् तेजोरसतन्मात्रौ, रसतन्मात्राद् जलगन्धतन्मात्रौ, गन्धतन्मात्रात् केवला पृथिवीति | तदुक्तम्- तामसतो (शैवरहस्यस्य वचनं स्यात् |) भूतादेरहङ्कृतेर्भवति शब्दतन्मात्रम् | तस्मादपि तन्मात्रादाकाशः स्पर्शतन्मात्रः || रूपरसगन्धमात्रं पवनाद्यैः सह यथोत्तरं भवति | पूर्वस्मात् तन्मात्रात् केवलतो गन्धतः पृथिवी || इति | परे शब्दतन्मात्रादाकाशः तद्द्वयसहितात् स्पर्शतन्-मात्राद् वायुः, तत्त्रयसहिताद् रूपतन्मात्रात् तेजः, तच्चतुष्क-सहिताद् रसतन्मात्रादापः, तत्पञ्चकसहिताद् गन्धतन्मात्रात् पृथिवीत्याहुः | अपरे शब्दतन्मात्रादाकाशः, तस्मात् स्पर्शतन्मात्रम्, तस्माद् वायुः, तस्माद् रूपतन्मात्रम्, तस्मात् तेजः, तस्माद् रसतन्मात्रम्, तस्मादापः, ताभ्यो गन्धतन्मात्रम्, तस्मात् पृथिवीति ब्रुवत इति | तन्मात्राणां षडध्वव्याप्तिः- णकारो वर्णः | अनादेत्यादि द्वे पदे | अघोरपञ्चार्णौ मन्त्रौ | शब्दतन्मात्रं तत्त्वम् | मण्डलेश्वरं भुवनम् | शान्त्यतीता कला | तकारो वर्णः | धूत्रयादि द्वे पदे | वामदेवपञ्चार्णौ मन्त्रौ | स्पर्शतन्मात्रं तत्त्वम् | कालञ्जरं भुवनम् | शान्त्यतीता कला | थकारो वर्णः | ओं भुव इत्यादि द्वे पदे | सद्योजातपञ्चार्णौ मन्त्रौ | रूपतन्मात्रं तत्त्वम् | शङ्कुकर्णं भुवनम् | विद्या कला | दकारो वर्णः | अनिधनाधि द्वे पदे | अस्त्रपञ्चार्णौ मन्त्रौ | रसतन्मात्रं तत्त्वम् | स्थूलेशं भुवनम् | प्रतिष्ठा कला | धकारो वर्णः | निधनोद्भवेति पदम् | नेत्रपञ्चार्णौ मन्त्रौ | गन्धतन्मात्रं तत्त्वम् | स्थलेश्वरं भुवनम् | निवृत्तिः कलेति || १२ || वृत्तिः कानि पुनस्तन्मात्राणीत्यत आह- तन्मात्राणीति | शब्दस्पर्शादीनां पञ्चानामविशेषा अनभिव्यक्तविशेषाणि सूक्ष्मरूपाणि पञ्चतन्मात्राणीत्युच्यन्ते, यदुक्तम्- गुणाविशिष्टास्तन्मात्रास्तन्मात्रपदयोजिताः (मृ० वि० १२|५) इति | ततश्च सूक्ष्मेभ्यः कारणरूपेभ्यः पञ्चभूतान्यस्मदादिबाह्येन्द्रियपरिच्छेद्यगुणत्वात् स्थूलानि जातानीत्याह- भूतानीति | तानि चाकाशादीनि शब्दाद्येकोत्तरगुणानि भवन्ति | शब्दैकगुणमाकाशम् | शब्दस्पर्शगुणो वायुः | शब्दस्पर्शरूपगुणोऽग्निः | शब्दस्पर्शरूपरसगुणमम्भः | शब्दादिगन्धान्तपञ्चका पृथिवी इति | यच्छ्रूयते- शब्दाद्येकोत्तरगुणमवकाशादिवृत्तिमत् (मृ० वि० १२|२०) इत्यादि | ननु वैशेषिकादिभिराकाशविशेषगुणः शब्द इष्यते | तन्न, आश्रयादन्यत्राप्युपलब्धेः | यदुक्तम्- अस्य हेतोः प्रत्यक्षागमविरुद्धत्वेन कालात्ययापदिष्टत्वात् इति | तथाह्याकाशे तावत्प्रतिशब्दः श्रूयते, वायोः सकसकादिः, अग्नेर्धमधमादिः, चलचलादिकमम्भसि, कटकटादिः पृथिव्यामिति | उक्तं च श्रीमन्मृगेन्द्रे- इति पञ्चसु शब्दोऽयं स्पर्शो भूतचतुष्टये || अशीतोष्णो महीवायवोः शीतोष्णौ वारितेजसोः | भास्वदग्नौ जले शुक्लं क्षितौ शुक्लाद्यनेकधा || रूपं त्रिषु रसोऽम्भस्सु मधुरः षड्विधः क्षितौ | गन्धं क्षितावसुरभिः सुरभिश्च मतो बुधैः | इति | ६१ || (वि० १२|२७-२९) अवकाशव्यूहनपाचनसंग्रहधारणं क्रमादेषाम् | व्यापारो भूतानां व्योमादीनां समुद्दिष्टः || ६२ || तात्पर्यदीपिका अथ पञ्चभूतानां व्यापारमाह- अवकाशेति | अवकाशः स्थानप्रदानं व्योम्नो व्यापारः, भेदकारणत्वात् | व्यूहनं विविधवहनं वायोर्व्यापारः पुञ्जीकरणं वा | पाचनं परिपाककरणं तेजसो व्यापारः | संग्रहः संश्लेषणमपां व्यापारः, क्लेदनं वा | धारणं सम्भरणं पृथिव्या व्यापार इति | तदुक्तम्- व्योम्नोऽवकाशदानं (शैवरहस्यस्य वचनं स्यात् |) व्यूहो वायोर्हविर्भुजः पाकः | संग्रहणमपां धारणमुर्व्याः सर्वात्मना वृत्तिः || आकाशमत्र परमं भूतम् | तच्छब्दगुणम्, शब्दतन्मात्रादुत्पन्नत्वात् | यथा मृदुत्पन्नो घटो मृद्गुणः, कार्पासादुत्पन्नस्तन्तुः कार्पासगुणः, एवं शब्दादुत्पन्न आकाशः शब्दगुण इति | तदिदं भूतमवस्याश्रयणीयम्, अन्यथा मूर्तवस्तुनो गमनागमनवृद्धिसंरोहणव्यायामादिसर्वव्यापाराभाव-प्रसङ्गादिति | तदुक्तं पारमेश्वरे- आकाशं शब्दतन्मात्रादवकाशत्वलक्षणम् | व्यक्तं व्यक्तिकरं विप्र ! पृथक्संस्थानसिद्धये || इति | (वि० १९|६-७) तदेकममू (र्त?र्तं) मूर्तघटकुम्भमठकूपाद्यु-पाधिभेदादनेकभेदभिन्नम् | तस्य वर्णमनिर्देश्यं शुद्धस्फटिकसन्निभमिति | अपरे चन्द्रमण्डलाकारं मण्डलमिति | तदुक्तम्- तद्बाह्ये (चन्द्रज्ञानस्य श्लोकोऽयं प्रतीयते |) तु भवेद् व्योम भूतत्त्वे संव्यवस्थितम् | अप्रतर्क्यमविज्ञेयं मोक्षस्थानमिवापरम् || इति | अस्य षडध्वव्याप्तिः- शकारो वर्णः | पिङ्गपिङ्गेत्यादि द्वे पदे | नेत्रपञ्चार्णौ मन्त्रौ | आकाशात्मकं तत्त्वम् | वस्त्रापदाद्यष्टौ भुवनानि | शान्त्यतीता कला | नीरूपस्पर्शवान् वायुः | स शब्दस्पर्शगुणः | आकाशाद् वायुः (तै० उ० २|१) इत्यागमबलात् परमाणोरुत्पत्तिर्बाधिता | स त्रिविधः- शरीरं प्राणो विषयश्चेति | यातनादेः शरीरस्य वायवीयत्वं तदाधिक्यात्, न तावन्मात्रत्वात् | प्राणः शरीरस्थोऽन्तःकरणसामान्यवृत्तिरूपः | तदुक्तम्- स्वालक्षण्या वृत्तिस्त्रयस्य सैषा भवत्यसामान्या | सामान्यकरणवृत्तिः प्राणाद्याः वायवः पञ्च || इति | (सां० का० २९) इतरो विषयवायुः | तदुक्तं मातङ्गे- येनाविष्टं जगत् कृत्स्नं स्फुरते वृद्धिमेति च | यत्र बद्धा विमानानां कोटयोऽष्टौ च विंशतिः | भ्रमन्ति चक्रवत् सोऽयं वायुः प्राणभृतां वरः || इति | (वि० २०|३,४) अस्याञ्जननिभं वर्णं वृत्तं षड्बिन्दुमण्डलम् | तदुक्तम्- तद्बाह्ये (चन्द्रज्ञानस्य श्लोकोऽयं स्यात् |) वायुतत्त्वं तु भिन्नाञ्जनसमप्रभम् | घर्घरारावमुखरं महाबलजनाकुलम् || इति | अस्य षडध्वव्याप्तिः- षकारो वर्णः | शब्दशब्देत्यादि द्वे पदे | कवचपञ्चार्णौ मन्त्रौ | वायवात्मकं तत्त्वम् | गयाद्यष्टौ भुवनानि | शान्तिः कला | भास्वररूपं तेजः | तद् द्विविधम्- आभ्यन्तरं बाह्यं चेति | शरीरान्तर्वर्तिभुक्ताहारपाकसाधनमाभ्यन्तरम्, इतरद् बाह्यम् | तच्च द्विविधम्- शरीरं विषय इति | देवर्षीणां देहस्तैजसः, तैजसानि शरीराणि भवन्त्यद्भुतकर्मणाम् (भवन्त्यत्रोपपद्यतामिति तत्रत्यः पाठः |) (म० भा० ३|२६१|१३) इति वचनात् | इतरत् सूर्यसोमवह्निविद्युदादि | तस्य वर्णं विद्युन्निभम् | तदुक्तम्- तेजस्तत्त्वं (चन्द्रज्ञानस्य श्लोकोऽयं स्यात् |) तु तद्बाह्ये विद्युत्कोटिसमप्रभम् | मेघस्तनितनिर्घोषं तेजोरूपं जनाकुलम् || इति | मण्डलं स्वस्तिकलाञ्छितं त्रिकोणम् | अस्य षडध्वव्याप्तिः- शिवशर्वेति पदम् | शिखापञ्चार्णौ मन्त्रौ | तैजसं तत्त्वम् | श्रीशैलाद्यष्टौ भुवनानि | विद्या कला | स्वतो द्रवा आपः शब्दस्पर्शरूपरसगुणाः | तत्र स्वकीयो रसगुणः | त्रयोऽन्ये सङ्करजाः | तदुक्तं पारमेश्वरे- रसः स्वाक्योऽत्र बोद्धव्यस्त्रयोऽन्ये संकरोद्भवाः इति | (वि० २२|२) तद् द्विविधम्- शरीरं विषय इति | शरीरं वरुणलोकस्थानम् | विषयभूतमितरत्, भोग्यत्वात् | स्फटिकवर्णं चैतत् | तदुक्तं चन्द्रज्ञाने- पृथिवीतत्त्वमाक्रम्य जलं दशगुणं बहिः | ब्रह्माण्डाधारभूतं तु शुद्धस्फटिकसन्निभम् || इति | अस्य षडध्वव्याप्तिः- हकारो वर्णः | सर्वदादि द्वे पदे | शिरःपञ्चार्णौ मन्त्रौ | अबात्मकं तत्त्वम् | अमरेशाद्यष्टौ भुवनानि | प्रतिष्ठा कला | गन्धवती पृथिवी, पञ्चगुणा च | तदुक्तं पारमेश्वरे- संक्षुब्धाद् गन्धतन्मात्राद् गुणैः पञ्चभिरन्विता || स्वाक्योऽस्या गन्ध एवोक्तश्चत्वारोऽन्येऽनुषङ्गजाः | सारं तावत् परा काष्ठा नखदन्तास्थिजातयः || इत्यादि | (वि० २३|१-२,५) सा चेयं शरीरं विषय इति द्विविधा | शरीरं च स्थावरजङ्गमात्मना द्विविधम् | स्थावरं तृणादिवृक्षान्तम् | जङ्गमं चतुर्विधम्- जरायुजमण्डजं स्वेदजमयोनिजं चेति | मनुष्यपशुमृगाणां जरायुजम् | पक्षिसरीसृपाणामण्डजम् | यूकमत्कुणपतङ्गादीनां स्वेदजम् | भुवनेशदेवर्षीणाम् अयोनिजं चेति | ब्रह्माण्डतदन्तर्वर्तिसप्तद्वीपपातालाष्टा विंशतिकोटिनरकतावत्संख्यविमानादयः पुराणशतेतिहाससिद्धा विषयाः, भोग्यत्वादिति | अण्डात्मकं क्षितितत्त्वं शतकोटियोजनविस्तृतम् | तदुक्तं शैवरहस्ये- पार्थिवमन्तिमतत्त्वं ब्रह्माण्डात्मकमखण्डमपि तावत् | विस्तारायामाभ्यामुक्तं शतकोटियोजनम् || इति | मतङ्गपारमेश्वरे च- एवं कोटिशतं पूर्णं पार्थिवं तत्त्वमत्र तु | अस्माद् दशगुणं तोयं तोयादग्निस्ततोऽनिलः || वायोः खं खादहङ्कारस्तस्माच्च परतो महान् | महतः परतो ज्ञेयं गुणानां त्रितयं मुने || गुणत्रयात् प्रधानाख्यं तत्त्वं दशगुणोत्तरम् | शतोत्तरगुणानि स्युर्मायान्तान्यपि रागतः || सहस्रवृद्धं विद्याख्यं लक्षमैशं ततस्ततः | कोट्या विवर्धितं भूयः शिवतत्त्वं प्रकीर्तितम् || अनन्तरमनन्तं स्यादप्रमेयं च शाश्वतम् | इति | (वि० २४|४१-४५) एतत् क्षितितत्त्वं स्वर्णनिभम् | तदुक्तं चन्द्रज्ञाने- सौवर्णं पृथिवीतत्त्वं सूर्यकोटिसमप्रभम् | कुक्कुटाण्डनिभं चैतद् ब्रह्माण्डं परिकीर्तितम् || इति | चतुरस्रं वज्रलाञ्छितं चन्द्रमण्डलम् | ब्रह्माद्या देवता ज्ञेयाः क्ष्मादीनां पञ्च वै क्रमात् | शिवादिपृथिव्यन्तेषु तत्त्वेषु सकलेष्वपि || भुवनानि चतुर्विंशत्यधिकं तु शतद्वयम् | अस्याः षडध्वव्याप्तिः- क्षकारो वर्णः | शिवायों नमो नम इति पदम् | हृदयपञ्चार्णौ मन्त्रौ | पार्थिवं तत्त्वम् | कालाग्न्यादिभद्रकाल्यन्तान्यष्टोत्तरशतं भुवनानि | निवृत्तिः कला इति || १३ || इति तत्त्वप्रकाशतात्पर्यदीपिकायामशुद्धवर्गविनिर्णयः चतुर्थः परिच्छेदः वृत्तिः अथैषां व्यापारमाह- अवकाशेति | अवकाशदानमाकाशस्य व्यापारः, व्यूहनमवयव-घटनं वायोः, पाकोऽग्नेः, संग्रहोऽवष्टम्भोऽम्भसः, धारणं भूमेरिति | अत्र चाकाशस्यावकाशमात्रादन्यत्व-मनित्यत्वं चास्माभिमृर्गेन्द्रवृत्तिदीपिकायां विस्तरेण दर्शितमिति ततोऽवधार्यम् || ६२ || कार्यमिदं दशधा यत् तत्करणैः कार्यते समाविश्य | करणान्यसमर्थत्वात् कार्यं संश्रित्य चेष्टन्ते || ६३ || तात्पर्यदीपिका अथ पञ्चमः परिच्छेदः अथैवं गुणसाम्यात्मकात् प्रधानादुत्पन्नानि त्रयोविंशतितत्त्वानि कार्यकरणात्मना द्विविधानि | तत्र तन्मात्रापञ्चकभूतपञ्चकात्मना दशविधं कार्यम् | बाह्याभ्यन्तरभेदेन त्रयोदशविधं करणम् | तयोर्विनियोगं दर्शयति- कार्यमिति | अयमभिप्रायः- दशविधं यत् कार्यं तत् करणैः कार्यते स्वीक्रियते, गृह्यत इति यावत् | कार्यं शरीरं सूक्ष्मस्थूलात्मना दशविधम् | सामाविश्य संश्रित्य, आश्रयं विना तेषां चेष्टितुमशक्यत्वादित्यर्थः | अथवा कार्यं विषयम् | दशविधमिदम् | तत् करणैर्विषयीक्रियते | समाविश्य सम्बध्येति || १ || वृत्तिः अथैषां दशानां कार्यत्वमिन्द्रियाधारत्वं चाह- कार्यमिति | कार्यात्मकमेतत् तन्मात्रभूतात्मकं तत्त्वदशकं करणैराविश्य चेष्टां कार्यते | तानि चाविभूत्वात् कार्यमधिष्ठायैव चेष्टन्त इति तत्त्वसंग्रहेऽप्युक्तम्- एतत्कार्यं दशधा करणैराविश्य कार्यते चेष्टाम् | अविभुत्वात् करणानि तु कार्यमधिष्ठाय चेष्टन्ते || इति | (त० सं० ४) ननु भूतान्येवोभयवादिसिद्धानीन्द्रियाधाराणि भवन्तु, किमन्तर्गडुना निरर्थकेन तन्मात्रपञ्चकेन ? तदयुक्तम्, स्थूलसूक्ष्मतया तानीन्द्रियाधाराणि स्थितानीति श्रूयन्ते | यदुक्तं श्रीमन्मृगेन्द्रे (मतङ्गपारमेश्वरे (वि० १९|२१) वचनमिदं दृश्यते, न मृगेन्द्रे |)- तन्मात्राणीह घटवन्महाभूतानि लेपवत् (म० पा०, वि० १९|२१) इति || ६३ || पञ्चानामाद्यानां चिद्रूपतयाऽन्वयः परेषां तु | मायाद्यानां द्वेधा सप्तानां कीर्तितः शैवे || ६४ || अव्यक्तप्रभृतीनां गुणैश्च सुखदुःखमोहरूपतया | अन्वय इह निखिलानां दशके ह्यन्ते विशेषोऽयम् || ६५ || तात्पर्यदीपिका तदेवं षट्त्रिंशत्तत्त्वानां स्वरूपमभिधाय साम्प्रतं शुद्धानीत्यादिना सूचितं शुद्धत्वं शुद्धाशुद्धत्वमशुद्धत्वं च प्रतिपादयितुं तद्धेतुमाह- पञ्चानामिति | अयमभिप्रायः- एकजातिसमावेशोऽन्वयः समानरूपत्वम्, ऐकात्म्यमिति यावत् | तत्र पञ्चानामाद्यानां शिवशक्तिसदाशिवेश्वरविद्यातत्त्वानां चिद्रूपतयाऽन्वयः | तेन कारणेन तेषां शुद्धत्वम्, ज्ञानरूपस्याज्ञानमलसम्बन्धासम्भवात् | मायाकालनियतिकलाविद्यारागपुरुषाणां सप्तानां द्वेधा चिदचिद्रूपतयाऽन्वयः | चिदनुविद्धाचिद्रूपत्वाद् मायादीनां पुरुषव्यतिरिक्तानां द्वेधा समन्वयः, पुरुषस्य चित्स्वभावस्योपाधिकृताचिद्रूपत्वादिति | यथा जपासन्निधानात् स्वतः शुद्धस्य स्फटिकस्य रागः, तथा पुरुषस्याप्युपाधिधर्माध्यारोपादचिद्रूपत्वमिति | तेन सप्तानां मायादीनां शुद्धाशुद्धत्वमिति | अव्यक्तादीनां बाह्यतया चित्सम्बन्धरहितानां सुखदुःखमोहरूपत्वेन गुणैरन्वयः, तेन तेषां केवलाशुद्धत्वमिति || २-३ || वृत्तिः इत्थं तत्त्वलक्षणमुक्त्वा केषु केषां कथमन्वय इत्यत आह- पञ्चानामिति | इयं गौः, इयं गौरित्याद्यनुवृत्तिप्रत्ययहेतुरन्वयः | स चास्मिन् शैवे शास्त्रे व्यक्तिव्यतिरिक्तजात्यनभ्युपगमेऽपि कथञ्चित् सादृश्यमात्रेणोच्यते | ततश्चाद्यानां शुद्धानां पञ्चानां तत्त्वानां सर्वज्ञत्वसर्वकर्तृत्वोपोब्दलनहेतुत्वात् चिद्रूपतया चिदुपकारितयाऽन्वयः | न तु तेषां चैतन्याभ्युपगमो युक्तः, अचेतनत्वस्य प्रागेव साधितत्वात् | परेषां त्वशुद्धानां मायाद्यानां पुंस्त्वान्तानां किञ्चिज्ज्ञत्वाद्युपोद्बलनहेतुत्वाच्चिदुपकारितया सूक्ष्मदेहद्वारेण गुणसम्बन्धात् सुखदुःखमोहजनकतया च द्विविधश्चिदचिदन्वयः || ६४ || अव्यक्तेति | प्रकृत्यादिपृथिव्यन्तानां गुणसम्बन्धात् सुखदुःखमोहरूपतयाऽन्वयः | दशके ह्यन्त इति || ६५ || शब्दादेर्गुणसाम्ये तुल्यत्वेनान्वयोऽत्र विज्ञेयः | अङ्गाङ्गिभावविहितो भवति विशेषस्तु केषाञ्चित् || ६६ || तात्पर्यदीपिका अन्ते दशके भूततन्मात्रात्मके वक्ष्यमाणो यो विशेषः, स किंलक्षण इत्यत आह- शब्दादेरिति | शब्दादीनां सगुणत्वसाम्ये सत्यप्यसमतया सम्बन्धो वेदितव्यः | अङ्गाङ्गिभावः कार्यकारणभावः, तेन विहितः प्रतिपन्नो भावसर्गाख्यो विशेषः केषाञ्चित् कार्यरूपाणां कालाद्यवन्यन्तानां विज्ञेय इति | कार्याणां स्वसाधारणकारणेषु सत्त्वं भावसर्गः | तदुक्तं शैवरहस्ये- प्रातिस्विकेषु हेतुषु तत्तत्तत्त्वात्मकस्य सूक्ष्मस्य | कार्यस्यावस्थानं भावः सत्कार्यवादिमते || इति | सोऽयं भावसर्गः कार्यकारणभावेनावगम्यते | तथाहि- कार्यकारणभावसम्बन्धो नासति सम्बन्ध्यन्तरे कार्ये सम्भवतीति, असतः खरविषाणादेरदर्शनात् | विमतानि कार्याणि कारणेषु सन्त्येव, उत्पत्तिमत्त्वात् | यत् कारणेष्वविद्यमानं न तदुत्पत्तिमत्, यथा खरविषाणम्, न च तथैतानि नोत्पत्तिमन्ति, तस्मात् कारणेषु सन्त्येवेति | तथा उपादानकारणस्वीकाराच्च | यदि तिलेषु तैलं न स्यात्, तर्हि तैलार्थिनः सिकतास्विव तिलेष्वपि स्वीकारो न स्यात्, न तदस्तीति तिलेषु तैलसद्भावसिद्धिः | एतस्मादेव कारणात् सर्वसद्भावाच्च सदेव कार्यम् | यदि कारणेष्वसत् कार्यं जायेत, तर्हि तस्मादेवाखिलकार्यसंभवप्रसङ्गः, असत्त्वस्य सर्वत्राविशेषात् | न च तदस्तीति सदेवोत्पद्यत इति | शक्तात् कारणाच्छक्यकार्यजननाच्च | यदि कारणेष्वविद्यमानं कार्यं जायेत, तर्ह्यशक्तादपि तदुद्भवप्रसङ्गः, असत्त्वे शक्तिकल्पनावैयर्थ्यात् | तथा शक्तेः कार्यसूक्ष्मावस्थारूपत्वाच्च सत् कार्यम् | तथा यद्यसत् कार्यम्, अशक्यमपि तदा कार्यं जायेत, कारणस्य शक्तत्वात् | न चासति कार्ये तत्रैव शक्तिरिति वक्तुं न शक्यते, असत्त्वेनाविशेषादिति | कारणत्वाच्च सत् कार्यम् | यदि कार्यं कारणे न स्यात् तदास्य कारणत्वमपि न स्यात्, इतरसाधारण्यात् | तद् दृष्टमतः सत् कार्यमिति | तदुक्तम्- असदकरणादुपादानग्रहणात् सर्वसंभवाभावात् | शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् || इति | (सां० का० ९) न च सत्कार्यवादे कारणवैयर्थ्यप्रसङ्ग इति वाच्यम्, कारणानामभिव्यक्त्यर्थत्वात् | यथात्रघातदोहनापीडनैस्तण्डुलक्षीरतैलानामुत्पत्तिः, तथा कालाद्यवन्यन्ततत्त्वानां ताद्विकारभूतघटादीनां चोद्भव इति | विनाशश्च तेषां तिरोभाव एव, नासत्त्वमिति | न चाभिव्यक्तेरभिव्यक्त्यन्तराभ्यपगमेऽनवस्थेति वाच्यम्, उत्पत्तेरपि समानत्वात् | तथा पटोत्पत्तिः स्वकारणसमवायः स्वसत्तासमवायो वा नोत्पद्यते, तथापि तदर्थानि कारकाणि व्यापार्यन्ते | एवं सत एव घटादेः स्वत एवाभिर्भावाय कारणापेक्षेति युक्तम् | तदुक्तं भगवता विष्णुना- नासतो विद्यते भावो नाभावो विद्यते सतः इति | (भ० गी० २|१६) श्रीविष्णुपुराणे च- तदेतदक्षयं नित्यं जगुर्मुनिवराखिलम् | आविर्भावतिरोभावजन्मनाशविकल्पवत् || (१|२२|६०) अथवाऽङ्गाङ्गिभावविहितः कल्पितो विशेषः, हेतुमत्त्वा(न्नि?ऽनि)त्य(त्वात्?ऽत्वाऽ)व्यापित्वसक्रियत्वानेकत्वाश्रि- तत्वलिङ्गत्वसावयवत्वपरतन्त्रत्वादिधर्मः कालाद्यवन्यन्तानां व्यक्तानां विद्यत इति त्रिगुणत्वाविवेकित्वविषयत्वसामान्यत्वाचेतनत्वप्रसवधर्मित्वा-न्यव्यक्ताख्यस्य मायातत्त्वस्यापि सन्ति | चिन्मात्रस्य शिवस्य पुंसो हेतुमत्त्वादिकं त्रिगुणत्वादिकं च नास्ति, तयोः कार्यकारणभावविहितयोः कार्यकारणत्वशून्ये पुरुषेऽसंभवादिति केषाञ्चिदेवायं धर्म इति | तदुक्तम्- हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् | सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् || त्रिगुणमविवेकि विषयं सामान्यमचेतनं प्रसवधर्मि | व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् || इति | (सां० का० १०-११) अथवा अङ्गमचेतनं चेतनार्थत्वात् | तस्याङ्गी चेतनः शेषित्वात् तस्य | तयोर्भावः सम्बन्धः | तद्विपरीतो विशेष इतरेतराध्यासोऽङ्गाङ्गिभावविहितो विशेष इति | तदुक्तम्- तस्मात् तत्संयोगादचेतनं चेतनावदिव लिङ्गम् | गुणकर्तृत्वे च तथा कर्तेव भवत्युदासीनः || इति | (सां० का० २०) अथवा अङ्गाङ्गिभावः प्रधानाप्रधानभावः | बुद्धिः प्रधानभूता, पुरुषस्यातिसन्निकृष्टत्वात् तस्यास्तेनाङ्गित्वम् | बाह्येन्द्रियाण्यङ्गान्यप्रधानानि, तत्साध्यत्वात् | तयोर्भावविहितो विशेषः केषाञ्चित् कारणानामस्तीति | तदुक्तम्- एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः | कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति || सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः | सैव च विशिनष्टि पुनः प्रधानपुरुषान्तरं सूक्ष्मम् || इति | (सां० का० ३६-३७) तस्मादेव तत्त्वानामुत्पत्तिरिति || ४ || वृत्तिः कोऽसावित्याह- शब्दादीति | तन्मात्रभूतवर्गयोः शब्दादिगुणसाम्ये कार्यशब्दवाच्यतया तुल्यत्वेन च द्विविधोऽन्वयो विज्ञेयः | एषां च सर्वेषां तत्त्वानां मध्यात् केषाञ्चिद् बिन्दुमायादीनां कारणत्वेनाङ्गितया शक्त्यादीनां कार्यत्वेनाङ्गतया च विशेषो भवतीत्याह- अङ्गाङ्गीति || ६६ || तत्त्वानां स्थितिरेषा कथिता सृष्टिक्रमेण सर्वेषाम् | प्रतिलोमं परिणामाद् मायायां तानि लीयन्ते || ६७ || तात्पर्यदीपिका एवं तत्त्वानां सृष्टिक्रमं स्थितिं चोक्त्वा संहारक्रममाह- तत्त्वानामिति | एतेषां तत्त्वानामुक्तेन प्रकारेण सृष्टिः, स्वे स्वे कारणे स्थितिश्च कथिता | परिणामप्रतिलोमेन मायायां तानि स्वे स्वे कारणे लयं प्राप्य लीयन्त इति || ५ || वृत्तिः अथ तत्त्वलक्षणमुपसंहरति- तत्त्वानामिति | संहारमाह- प्रतिलोममिति | पृथिव्यादेस्तत्त्वगणस्य स्वकारणलयक्रमेण मायाया मुपसंहारः || ६७ || मायायाः परतोऽध्वा शुद्धः शक्तौ निलीयते सकलः | परमात्मनि सापि शिवे तिष्ठत्यविभागमापन्ना || ६८ || तात्पर्यदीपिका मायायाः परस्ताद् यानि तत्त्वानि तेषां कुत्र लय इत्याशङ्क्याह- मायाया इति | मायायाः परतो यस्तत्त्वाध्वा शुद्धाख्यः, स सर्वोऽपि शक्तितत्त्वे लयं याति | सा शक्तिः शिवेनैक्यं पाप्य तिष्ठति निलीयत इति, आनीदवातं स्वधया तदेकम् (ऋ० १०|१२९|२) इति श्रुतेस्तदवगमात् || ६ || वृत्तिः मायाया इति | शुद्धविद्यादेस्तु शक्तौ महामायाख्यायाम् | सकलः कालोपबृंहितोऽध्वा शुद्धः संलीयते | तदुक्तमस्माभिः- गन्धे भूः सलिलं रसे हुतवहो रूपे मरुत् स्पर्शने शब्दे स्यात् खमहङ्कृतौ पुनरिमास्तन्मात्रिकास्तामसे | कर्माक्षाणि च राजसे सह मनोबुद्धीन्द्रियैः सात्त्विके बुद्धौ तच्च गुणेषु सो गुणगणोऽव्यक्ते लयं गच्छति || तद्रागविद्ये च कलां प्रयान्ति पुंस्त्वं च कालो नियतिः कला च | मायासु विद्येशमसौ सदेशं स शक्तिमेषा शिवमेष बिन्दुः || इति | तत्र च शिवशब्देन शान्तिकलामस्तकस्थं शान्त्यतीतभुवनमुच्यते | तदानीं च परमात्मनीति सा महामाया, अपिशब्दाद् मलावृतात्मनि चिताम् | माया च शिवे निमित्तभूते अधिष्ठातरि सति परं केवलमात्मन्येव कार्यरूपे विभागरहिता कारणस्वरूपैव तिष्ठति, न तु शिवेऽविभागमापन्ना समवायं प्राप्नोतीति व्याख्येयम्, तस्याश्चित्समवाये परिणामित्वादिदोषप्रसङ्गात् | तदुक्तं श्रीमन्मृगेन्द्रे- स्वापेऽप्यास्ते बोधयन् बोधयोग्यान् रोध्यान् रुन्धन् पाचयन् कर्मिकर्म | मायाशक्तीर्व्यक्तियोग्याः प्रकुर्वन् पश्यन् सर्वं यद्यथा वस्तुजातम् || इति | (वि० ४|१५) तच्च सात्मकमाश्रित्य विश्रमायावतिष्ठते | भविनां भवखिन्नानां सर्वभूतहितो यतः | इति | ६८ || माया पुरुषः शिव इत्येतत्त्रितयं महार्थसंहारे | अवशिष्यते पुनस्तत्प्रवर्तते पूर्ववत् सृष्टौ || ६९ || तात्पर्यदीपिका ननु संहारदशायां सकलस्य विनाशेन पुनरुत्पादासंभव इत्याशङ्क्याह- मायेति | महार्थानां कालाद्यवन्यन्ततत्त्वानां शुद्धानां च विद्येशसदाशिवानां संहारे मायापुरुषशिवानां जगत्कारणानां सद्भावात् पुनरपि जगदुत्पत्तिः संभवत्येव पूर्ववदिति || ७ || वृत्तिह् ततश्च- मायेति | अयं त्रैलोक्यान्तस्य मध्यमस्य च गुणान्तस्य प्रलयस्य सद्भावान्महाप्रलयो ह्यशेषसंहारः, तत्र विद्येशानामपि मोक्षप्राप्तेः | मायादिकं त्रितयमवशिष्यते | तत्र मायाशब्देन तन्त्रोच्चारान्मायामहामायात्मकमुपादानद्वयमुच्यते | पुरुषशब्देन जात्येकवचनेन मलयुक्ताः सर्वे बद्धात्मानः, शिवशब्देन समवेतशक्तियुक्तः शिवः, मुक्तात्मानश्च | पुनः संहारान्ते तच्छिवादिवस्तुसृष्ट्यर्थं प्रागुक्तवत् प्रवर्तते || ६९ || संसारे खिन्नानां निखिलानां प्राणिनां प्रभुः कृपया | कुरुते महार्थसंहृतिमेतेषामेव विश्रान्त्यै || ७० || तात्पर्यदीपिका ननु तर्हि किं प्रलयेनेत्याशङ्क्याह- संसार इति | अनवरतमुपजायमानशरीरेन्द्रियविषयसंपर्कजातसु- खदुःखानुभवव्यापारसंजातश्रमाणां प्राणिनां विश्रान्त्यर्थं करुणानुन्नहृदयः प्रभुर्महार्थसंहा-रं करोतीति | तदुक्तम्- कार्यव्यासक्तचित्तानां विश्रान्त्यै रजनी यथा | संहारं भवखिन्नानां कृपया कुरुते शिवः || इति || ८ || इति तत्त्वप्रकाशतात्पर्यदीपिकायां सामान्यवादः पञ्चमः परिच्छेदः || वृत्तिः अथास्य महासंहारस्य प्रयोजनमाह- संसार इति || ७० || कर्मविपाचनहेतोः पशुदयया पुनरपीह परमेशः | सृष्टिं विधाय तेषां कर्म विपाचयति देहभृताम् || ७१ || तात्पर्यदीपिका अथ षष्ठः परिच्छेदः अथ तर्हि पुनः सर्गकरणमयुक्तम्, विश्रामस्यैव पुरुषार्थत्वादित्याशङ्क्याह- कर्मेति | अयमभिप्रायः- निःशेषदुःखनिवृत्तिनित्यनिरतिशयानन्दात्मकापवर्गविहीनान् पशुतयाऽनधिगतपुरुषार्थान् कर्मबद्धान् दयार्हान् पशूनवलोकयन् भगवान् भोगेन कर्मबन्धविनिवृत्तये तत्साधनदेहेन्द्रियविषयसृष्टिं विधत्ते | तेषां कर्मबन्धविनिवृत्तिश्च मोक्षार्थेति मोक्षार्था सृष्टिरुपपन्नेत्यर्थः || १ || वृत्तिः कर्मेति | विश्रमायाखिलात्मनां कर्मणां च पाकार्थम्, उपलक्षणत्वादस्यानवरतमनन्तशरीरादिजनने-नापचितशक्तेर्मायायाश्च सामर्थ्योत्पादनार्थं संहार इत्यर्थः | सृष्टिरपि मोक्षायेत्याह- पशुदययेति | कर्म विपाचयति विशेषेण पाचयति, प्रागर्जितानि कर्माणि पाकक्रमेण कर्मार्थं भोग्यतयोपस्थापयतीत्यर्थः || ७१ || भोगेन कर्मपाकं विधाय दीक्षाख्यया शक्त्या | मोचयति पशूनखिलान् करुणैकनिधिः सदा शम्भुः || ७२ || तात्पर्यदीपिका ननु केन तर्हि कर्मपाकः, कथं वा मोक्षसंभव इत्यत आह- भोगेनेति | अयमाशयः- भोगेन कर्मणः पाकं विनाशं कुर्वन् भगवान् कालं प्रतीक्षमाणः कर्मसाम्ये सति शक्तिं मोचिकां पाचयित्वाऽऽचार्यो भूत्वा दीक्षां विधाय अपवर्गार्हान् पशूनखिलान् सर्वदा सदा परमकारुणिकः शम्भुर्मोचयतीति | ननु न मोक्षाख्यः पुरुषार्थोऽस्थि, नापि स्वर्गाख्यः, तयोः सद्भावे प्रमाणाभावात् | न चानुमानागमाभ्यां तयोः सद्भावसिद्धिरिति वाच्यम्, अनुमानागमयोरप्रमाण्यात् | तत्रानुमानस्याप्रामाण्यं व्याप्तिग्रहणसापेक्षस्यानुमानस्य तदसंभवात् | स च देशान्तरकालान्तरगततयाऽनध्यक्षयोः साध्यसाधनयोः, साहित्यनियमात्मकस्याविनाभावस्याध्यक्षतो ग्रहणासंभवात् | न चानुमानात् तदविनाभावग्रहणमिति वाच्यम्, अन्योन्याश्रयप्रसङ्गात्- व्याप्तिग्रहणे सत्यनुमानप्रवृत्तिः, अनुमानप्रवृत्तौ व्याप्तिग्रहणमिति | न चानुमानान्तरेण व्याप्तिग्रहणम्, अनवस्थाप्रसङ्गात् | न चागमाद् व्याप्तिग्रहणम्, तस्य सन्दिग्धत्वात् तदनुपलम्भाच्चेति | न चागृहीताविनाभावात् साधनात् साध्यसिद्धिरिति वाच्यम्, अतिप्रसङ्गात् | तस्मात् प्रत्यक्षमेव प्रमाणम् | तच्च स्वर्गापवर्गौ नवगमयतीति काम एव मुख्यः पुरुषार्थः, अर्थश्च तत्साधनत्वादिति | तदुक्तम्- वृत्तिसाध्या प्रीतिः पुरुषार्थः, स काम एव नान्यो मोक्षादि, दृष्टहान्यदृष्टकल्पनाप्रसङ्गात् इति | तथा पृथिव्यप्तेजोवायव एव तत्त्वानि, शरीरेन्द्रियविषयाणां तत्समुदायरूपतया तत्त्वान्तराभावात् | न च ज्ञानं तत्त्वान्तरम्, तस्य रजनीचूर्णसम्बन्धादुपजायमानरागवद् भूतसमवायजन्यतया तद्धर्मत्वनिश्चयादिति चार्वाकः | तदयुक्तम्, अनुमानागमाप्रामाण्ये सन्दिग्धं विपर्यस्तं वा प्रतिपाद्यं प्रति प्रतिपादकस्य शब्दप्रयोगासम्भवप्रसङ्गात् | तथाहि- अस्याज्ञानं सन्देहो विपर्यासो वा विद्यत इति प्रतिपाद्यशब्दादिना लिङ्गेनानुमाय मयोच्चारितेन शब्देनास्य यथार्थप्रतिपत्तिर्भविष्यति | सा तदज्ञानादिकं निर्णुदस्यतीत्याद्यनुमानपूर्वको हि परं प्रतिपाद्यं प्रति प्रतिपादकस्य शब्दप्रयोगः | अतत्पूर्वकत्वे शब्दप्रयोक्तुरुन्मत्तवदुपेक्षणीयताप्रसङ्गेन च परगताज्ञानसन्देहविपर्यासाः प्रत्यक्षतोऽवगन्तुं शक्यन्ते | अतोऽनिच्छतापि चार्वाकेणानुमानस्य चागमस्य च प्रामाण्यमभ्युपेतव्यम्, शब्दस्याप्रमासाधकत्वे प्रयोगासम्भवप्रसङ्गात् | न च व्याप्तिग्रहणासंभवादनुमानाप्रामाण्यम्, सामान्योपग्राहकवशादखिलव्यक्तिषु सम्बन्धग्रहणवत् तदुपपत्तेः | तथाहि- व्याप्तिग्रहणवेलायामल्पत्वादिविशेषं परित्यज्य धूमजातीयमग्निजातीयं न व्यभिचरतीति सामान्योपग्राहकवशादजाताऽतिवृत्तप्रत्युत्पन्नाखिलव्यक्ती-नां तत्तज्जातीयतया तथा व्याप्तिग्रहणे व्याप्तेर्गृहीतत्वान्न व्याप्तिग्रहणासंभव इति सामान्ययोरेव व्याप्तिग्रहणम्, अधिकरणसिद्धान्तन्यायेन विशेषसिद्धेरिति तदपास्तम्- विशेषेऽनुगमाभावात् सामान्ये सिद्धसाधनात् | तद्वतोऽनुपपन्नत्वादनुमानकथा कुतः || इति | यतो व्याप्तिग्रहणादिसंभवस्योक्तत्वात् | तथा भोजनादिसर्वक्रियासंभवश्च, तासामनुमानपूर्वकत्वात् | किञ्च, अवगताविनाभावस्य पुरुषस्य धूमदर्शनादग्निज्ञानमुपलभ्यते | तत् किंरूपमास्थेयम् ? न तावद् विपर्ययरूपम्, बाधकाभावात्, प्रत्यक्षसम्भवाच्च | नापि विकल्परूपम्, शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः (यो० सू० १|९) इत्युक्तलक्षणाभावात् | नापि निद्रा, सुषुप्त्यभावात् | न च स्मृतिरूपम्, धूमादिसंभवसंस्कारमात्रजन्यत्वाभावात्, इदन्तया भासमानत्वात्, तथाविधपूर्वानुभवाभावाच्चेति | नापि संशयरूपम्, अनवधारणज्ञानं संशय इत्युक्तसंशयलक्षणाभावात् | तस्मादेतज्ज्ञानं प्रमाणमेव | न च तत् प्रत्यक्षम्, अर्थेन्द्रियसंप्रयोगाजन्यत्वात् | न चाग्नेरर्थस्य चक्षुरादिना सम्प्रयोगोऽस्ति, आवृतत्वादित्यग्निज्ञानकारणधूमज्ञानविष्पादनार्थं चक्षुर्विज्ञानमग्निज्ञानार्थम्, स्वर्गादिज्ञानकारणशब्दज्ञानार्थश्रोत्रव्यापारवदिति | न चानुमितानुमानादौ चक्षुराद्यपेक्षेति प्रमाणान्तरमेवानुमानाख्यमिति सिद्धमनुमानमिति | आगमप्रामाण्यं च पूर्वमुपवर्णितमित्यलमतिप्रसङ्गेन | तथाहि- शरीरेन्द्रियवृत्तिसङ्घातः परार्थः, भोगसाधनत्वात्; भोगसाधनं च जडत्वात्, जडं च कार्यत्वात्, गृहक्षेत्रादिवदिति भूतव्यतिरिक्तः पर आत्मा सिद्धः | तस्य नित्यत्वम्, शरीरनाशेऽप्यविनाशात् | स च जातिस्मृत्यादिनाऽवगम्यते | तस्य मोक्षो बद्धत्वात् | अतो मोक्षस्य कादाचित्कतया कारणापेक्षा | कारणं च हिंसालक्षणधर्माधर्मसंयुतात्- अहिंस्यदेहाद्युद्भूतिर्मोक्षमाहुर्दिगम्बराः इति | तथाहि- नित्यतायां ग्रहः, अनित्यत्वे च द्वेष इत्युभयपरिहारार्थाने-कान्तभावना | तथाहि- घटादिर्मृदादिरूपेण नित्यः, सर्वावस्थासूपलम्-भात् | घटादिरूपतयाऽनित्यः, तदपायात् | एवं स्वदेशकालकारणाधा-रतया सत्त्वमर्थानाम्, अन्यदेशादिष्वसत्त्वम्, स्वकार्ये कर्तृत्वं कार्यान्तरे चाकर्तृत्वम्, स्वशब्देनाभिधेयत्वमन्येशब्देनानभिधेयत्वम्, इत्याद्युह्यमर्थानामनेकान्तत्वमिति दिगम्बराः | तदिदमनुपपन्नम्, अनेकान्तभावनाया मिथ्यारूपतयाऽपवर्गसा- धनत्वासंभवात् | तच्च स्वदेशादिषु सत्त्वादिनियतरूपस्यैवोपलम्भात् | तथा घटादेश्च कार्यस्य नित्यत्वाद् मृदादेः कारणस्य च नियमेन नित्यत्वाच्च नोभयात्मकत्वम् | एवं स्वशब्देनाभिधेयत्वमेवान्यशब्देन चाभिधेयत्वमेवेति नानेकान्तत्वमिति | या चेयमुभयरूपता प्रोक्ता तत्र विवादः, इतरेतराभावाभ्युपगमेनास्माभिरप्यभ्युपगतत्वात् | यदि च स्वदेशादिष्वप्यसत्त्वादिकं स्यात्, तदा स्यादर्थानामनेकान्तता | न च तदस्ति | तस्मान्नानेकान्तत्वमर्थानामिति मिथ्याभूतत्वान्नापवर्गकारण-मनेकान्तज्ञानमिति | न चानेकान्तताभावनावशाद् विशिष्टप्रदेशेऽक्षय-शरीरादिप्राप्तौ प्रमाणमस्ति | न च तेषामागमः प्रमाणम्, तस्य प्रमाणमूलत्वाभावात् | न च प्रत्यक्षानुमाननित्यागमाऽमूलानाम- नित्यागमशब्दानां प्रामाण्यं संभवतीत्युक्तम् | न च शरीरेन्द्रियविष-याणां कार्याणां नित्यत्वं संभवति, अतिप्रसङ्गात् | यच्च शरीरपरिमि-तस्यात्मनः शरीरनाशे नक्षत्रादिवदवस्थानं निःश्रेयसमित्यार्हतैअक-देशीयैरुक्तम्, तदपि न चतुरस्रम्, देहपरिमितस्यात्मनो देहवन्मूर्ततयाऽ-नित्यत्वप्रसङ्गात् | तथा गजशरीरावस्थितस्य मशकशरीरप्रवेशे मृदङ्गपिहितप्रदीपप्रभाया घटपिधान इव सङ्कोचविकासाश्रयणेन परिणामित्वप्रसङ्गः | तस्माद् रूपरसगन्धस्पर्शशब्द[वि]ज्ञानात्मकेषु षट्पदार्थेषु यद् दुःखसमुदयनिरोधमार्गाख्यं पदार्थचतुष्कं तस्मिन् क्षणिकादिभावनाऽपवर्गकारणम्, शुद्धचित्तसन्तानोत्पत्तिरपवर्ग इति सौगताः | दुःखं रूपादिस्कन्धपञ्चकम् | तच्च रूपस्कन्धो वेदना-स्कन्धः संज्ञास्कन्धः संस्कारस्कन्धो विज्ञानस्कन्धश्चेति स्कन्धपञ्चकम् | तत्र वर्णगन्धरसस्पर्शात्मना चतुर्विधो रूपस्कधः | सुखा वेदना दुःखा वेदना मध्यमा वेदनेति त्रिविधो वेदनास्कन्धः | चक्षुःसंज्ञा जिह्वासंज्ञा श्रोत्रसंज्ञा घ्राणसंज्ञा स्पर्शसंज्ञा [मनःसंज्ञा] इति षट् प्रकारःसंज्ञास्कन्धः | संस्कारस्कन्धो द्विप्रकारः, कुशलाकुशलभेदात् | तत्राकुशलो दशविधो मनोवाक्कायभेदैः | तत्र मानसा मिथ्यादर्शनाभिलाषप्रद्वेषास्त्रयऽः | वाचिका अमृतवचनपैशून्यपरनिन्दाविप्रलम्भवचनानि चत्वारि | कायिका हिंसापरस्वहरणमैथुनयोगास्त्रय इत्यकुशलाः | कुशलाश्च दश विपरीताः | एवं संस्कारस्कन्धो विंशतिप्रकारः | चक्षुर्विज्ञानं श्रोत्रविज्ञानं घ्राणविज्ञानं स्पर्शविज्ञानं जिह्वाविज्ञानं मनोविज्ञानं चेति षट्प्रकारो विज्ञानस्कन्धः | इत्येष दुःखकारणत्वाद् दुःखमिश्रत्वात् सुखमपि दुःखम् | तस्य कारणं समुदयः | तयोर्निरोधो विनाशः | तस्योपायो मार्गः | क्षणिकादिभावेनैव क्षणिकमिति भावनावशाद् रागादिनिवृत्तिः, ममेदमिति सम्बन्धाभावात् | तथा निरात्मकभावनातश्च रागादिनिवृत्तिः, स्वपरसम्बन्धाभावात् | एवं सर्वं शून्यमिति भावनया रागादिनिवृत्तिः, असत्त्वात् | नहि गगनकुसुमवन्ध्यासुतादौ रागादिसम्भव इति शुद्धचित्तसन्तत्युद्भवोपपत्तिरिति वैभाषिकसौत्रान्तिकज्ञानाद्वैतवादिनो बौद्धाः | शुद्धंचित्तसन्ततेरपि विनाशोऽपवर्ग इति शून्यवादिनः | तदिदमनुपपन्नम्, क्षणिकादिभावनानां मिथ्यारूपतया निःश्रेयससाधनत्वासम्भवात् | न च सर्वे भावाः क्षणिकाः सत्त्वाद् विज्ञानवद् इत्यनुमानात् पदार्थानां रूपरसगन्धस्पर्शविज्ञानानां क्षणिकत्वसिद्धेः क्षणिकत्वभावनाया न मिथ्यात्वमिति वाच्यम्, तस्याग्न्यनुष्णतासाधककृतकत्वामानवत् स एवायं घट इत्यादिप्रत्यक्षबाधयाऽप्रामाण्यात् | न च स एवायं नखः, त एवामी केशा इत्यादिप्रत्यभिज्ञावदस्यापि न प्रामाण्यमिति वाच्यम्, अस्य बाधकाभावात् | न चानेनैवानुमानेनास्य बाध इति वाच्यम्, अनुमानस्य प्रत्यक्षमूलस्य स्वमूलबाधकत्वासम्भवात् | न चानुष्णतासाधकेनोष्णताग्राहिप्रत्यक्षं बाध्यत इति | तथा विज्ञानस्य त्रिक्षणस्थायितया क्षणिकत्वाभावात् साध्यविकलो दृष्टान्त इति | नन्वक्षणिकस्यार्थक्रियाकारित्वलक्षणसत्त्वासम्भवादुप-लभ्यमानं सत्त्वं पृथिव्यादिक्षणिकतां साधयेत् | तथाहि- क्षणिको यदि स्वनिष्पाद्यं सर्वं युगपदेव करोति, न ह्युत्तरादिक्षणेष्वपि, तदैव सर्वं ज्ञायेत, तत्कारणस्य विद्यमानत्वात् | नहि कारणे सति कार्यानुत्पत्तिर्घटत इति | नापि क्रमेण, प्रथमक्षण एवोत्तरादिक्षणभाविनां कार्याणां कारणभूतस्यास्य सद्भावेन विलम्बनासम्भवात् | न च सहकारिप्राप्त्यनुरूपेण कार्यजननमिति वाच्यम्, सहकारिणा क्रियमाणस्य कारणातिशयविनाशस्य वा कारणाद्भिन्नत्वे तदितरविश्ववदुपेक्ष्यत्वात् | तथाऽनतिशय- निवृत्त्यतिशयाधानहेतुत्वे सहकार्यपेक्षकारणभिन्नत्वेऽतदुत्पत्तौ तदुत्पादप्रसङ्गः | अतिशयाधानानतिशयानिवर्तकत्वे तदितरविश्ववत् सहकारिणामप्युपेक्ष्यत्वप्रसङ्ग इति | तस्मादर्थक्रियाकारित्वलक्षणसत्त्वविरहादसन्तोऽक्षणिका इति | अत्र प्रयोगः- यत् क्रमाक्रमाभ्यामजनकं तन्नास्ति यथा खरविषाणम्, क्रमाक्रमाभ्यामजनकाश्चाक्षणिका इति, तस्मात् पृथिव्यादिषु पक्षभूतेषुपलभ्यमानं सत्त्वं विपक्षे वृत्त्य-सम्भवात् सपक्षाभावेऽपि क्षणिकत्वं साधयतीति | नैवम्, अक्षणिकाना-मपि क्रमाक्रमाभ्यां सहकारिप्राप्तौ तथैव जनकत्वोपपत्तेः | ननूक्तं सहकारिणातिशयाधानं तदनतिशयनिवृत्तिर्वेति विकल्पोक्तं सत्त्वादनुपपन्नम्, अस्यैवातिशयत्वात् | यद् यस्य सद्भावे कार्यं करोति, स तस्यातिशय इति मृदादिकारणं चक्रादिसहकारिसमवधाने घटादिकार्य-जनकमुपलब्धमिति तत् तदतिशय इति || २ || वृत्तिः ततश्च क्रमेण मलपरिपाके जाते सति- भोगेनेति | मलपरिपाके सति कर्मणां युगपत् पकाद् दीक्षाख्यया स्वशक्त्या आचार्यव्यापाराभिव्यक्तया केवलया वा | युगपदनेकभोगभोजनात्मककर्मनाशं विधाय मलादिभ्यः पशून् मोचयतीत्यर्थः | यदुक्तं श्रीमत्किरणे- अनेकभविकं कर्म दग्धबीजमिवाणुभिः | भविष्यदपि संरुद्धं येनेदं तद्धि भोगदम् || (वि० ६|१९) अत एव सद्योनिर्वाणदीक्षायामारब्धकार्यस्य वर्तमानशरीरारम्भकस्य कर्मणोऽपि क्षय इति सिद्धम् | दीक्षायाश्च नैष्ठिक्यादिको भेदः श्रीमन्मतङ्गादेरवधेयः || ७२ || आ प्रलयं यत् तिष्ठति सर्वेषां भोगदायि भूतानाम् | तत् तत्त्वमिति प्रोक्तं न शरीरघटादि तत्त्वमतः || ७३ || तात्पर्यदीपिका ननु न षट्त्रिंशत् तत्त्वानीति शक्यते वक्तुम्, शरीरघटादेरपि सद्भावादित्याशङ्क्याह- आ प्रलयमिति | अयमभिप्रायः- शरीरघटादेस्तत्त्वलक्षणाभावान्न तत्सद्भावेन तत्त्वाधिक्यम् | तथाहि- यद् आ प्रलयावस्थायि सर्वभूतभोगकारणं तत्त्वमिति तत्त्वलक्षणं न शरीरघटादेरस्ति, तद्देशतत्कालव्याप्त्यभावात् | तथा शरीरघटादीनां पृथिव्यादितत्त्ववृत्तिरूपतया बुद्धिवृत्तिरूपाध्य-वसायादिवत् तत्त्वान्तरत्वासम्भवाच्च न तत्त्वाधिक्यमिति | तदुक्तं गुरुदेवाचार्येण- ततत्वात् सन्ततत्वाच्च तत्त्वानीति ततो विदुः | ततत्वं देशतो व्याप्तिः सन्ततत्वं च कालतः || लक्षादियोजनव्यापि तत्त्वमा प्रलयात् स्थितम् | अन्यथा स्तम्भकुम्भादिरपि तत्त्वं प्रसज्यते || इति || ३ || वृत्तिः यद्येवं शरीरादेः कथं न तत्त्वतया परिगणनमत आह- आ प्रलयमिति | अतः सक्षात् परम्परया वा भोगदायकमा प्रलयावस्थायि च यत् तत् तत्त्वमित्युक्तम् | अत एवास्माभिः संहारक्रमेण तत्त्वानि प्रदर्शितानि | यथा- भूवार्यग्निमरुत्खगन्धरसरूपस्पर्शब्दान् भगं पायुपादकरास्यनासिरसना दृक्त्वक्श्रुतिर्मानसम् | गर्वं धीगुणमत्र रागपुरुषान् विद्यानियत्यौ कलां कालं मोहकबोधकेश्वरसदेशच्छक्तिमीडे शिवम् || इति | अत्र च रागपुरुषानिति क्रमवैपरीत्येन पुंसो नाध्वत्वमिति दर्शितम् || ७३ || तत्त्वं यतो भवेद् यत् कारणमापूरकं च तत्त्वस्य | कथिता व्यवस्थितिर्यन्निखिलानामेव तत्त्वानाम् || ७४ || तात्पर्यदीपिका प्रतिज्ञातार्थमुपसंहरति- तत्त्वमिति | अयमर्थः- शिवाद्यवनिपर्यन्तानां निखिलानां तत्त्वानां व्यवस्थितिः कथिता | तथा निखिलानां तत्त्वानामापूरकमाभीक्ष्ण्येन पूरकमध्वातीतं शिवाख्यं निष्कलं रूपं च कथितम्, तेनेदं पूर्णं पुरुषेण सर्वम् (श्वे० उ० ३|९) इति श्रुतेः | यतो भवति यत् तत्त्वं यत् कारणं चापूरकमुपकरणं वा, तच्च कथितमिति || ४ || वृत्तिः अकृतस्य करणं कृतस्य परिवर्धनं च बुद्धिधर्म इति | अथ प्रकरणमुपसंहरति- कथिता व्यवस्थितिरिति || ७४ || तत्त्वानामपि तत्त्वं येनाखिलमेव हेलया कथितम् | श्रीभोजदेवनृपतिर्व्यधत्त तत्त्वप्रकाशं सः || ७५ || तात्पर्यदीपिका शास्त्रस्वीकरणाय कर्तारं स्वात्मानमभिद्योतयति- तत्त्वानामिति | तत्त्वानामपि तत्त्वं स्वरूपं येनाखिलं कृत्स्नमेव हेलयाऽश्रमेण पूर्वं कथितम्, स एव तत्त्वप्रकाशं व्यधत्त विभागेन कृतवानिति | नन्वाप्तकृतत्वावबोधेन न शास्त्रस्वीकारः, शास्त्रस्वीकारस्य युक्तियुक्तावबोधपूर्वकत्वात् | तदुक्तं भट्टाचार्येण- कणान् वा भक्षयेत् कामं माहिषाणि दधीनि वा | युक्तियुक्तनिबन्धश्चेत् तद्धि ग्राह्यं मनीषिभिः || इति | नैतदेवम्, इतरेतराश्रयदोषप्रसङ्गात् | श्रवणे प्रवर्तमानस्य युक्तियुक्तावबोधः, युक्तियुक्तावबोधे सत्येव श्रवणे प्रवृत्तिरिति | तस्मादाप्तकृतत्वावबोध एवादौ श्रवणे प्रवृत्तिहेतुः | यथा हि मनुना प्रणीतं व्यासेन प्रणीतमित्यादिकर्तृबहुमानात् प्रवृत्तिरिति युक्तं कर्तृसंकीर्तनमिति | अत्र निवृत्तिः कलाध्वा | तत्त्वाध्वा पृथिवी | भद्रकाल्यादिकालाग्न्यन्तान्यष्टोत्तरशतं भुवनाध्वा | क्षकारो वर्णाध्वा, लकारो वा | अष्टाविंशतिपदानि पदाध्वा | सद्योजातहृदयाख्यौ मन्त्राध्वा | पदोद्धार उच्यते- चतुर्वर्णं समुद्दिष्टं महादेवपदं हि यत् | सद्भावेश्वरसंज्ञं तु पञ्चार्णं मुनिसत्तम || महातेज इति प्रोक्तं पदं वर्णचतुष्टयम् | पदं पञ्चार्णमुद्धिष्टं योगाधिपतिसंज्ञितम् || मुञ्च मुञ्च चतुर्वर्णं षड्वर्णं प्रथमात्मकम् | शर्वशर्वपदं चात्र बोद्धव्यं चतुरक्षरम् || भवयुग्मं तथा तद्वद् भवोद्भवपदं पुनः | पदमष्टाक्षरं चान्यत् सर्वभूतसुखप्रदम् || सर्वसान्निध्यपूर्वं तु करान्तं सप्तवर्णकम् | पदमष्टाक्षरं ब्रह्मविष्णुरुद्रपरं परम् || अनर्चितं द्विरभ्यस्तमष्टार्णं पदमुच्यते | असंस्कृतपदं तद्वत् पूर्वस्थितपदं तथा || साक्षिन् तुरुपदे तद्वच्चतुर्वर्णे द्विरुक्तितः | षट्पतङ्गपदे वर्णाश्चत्वारः पिङ्गसंज्ञके || तद्वज्ज्ञानपदं शब्दसूक्ष्माख्ये चतुरक्षरे | द्व्यक्षरं स्याच्छिवपदं तथा शर्वपदं विभोः || त्र्यक्षरं सर्वदपदं प्रणवादि नमो नमः | पञ्चवर्णं शिवायेति त्र्यक्षरं समुदीरितम् || नतियुग्मं पञ्चवर्णं सतारं पदमुत्तमम् || इति | ननु कुतः कथं कलानामुत्पत्तिः | शिवेच्छया बिन्दोरिति ब्रूमः | तदुक्तं गुरुदेवपद्धतौ- बिन्दोर्नादात्मकात् तस्माच्छिवेच्छातः प्रवर्तिताः | कलाः पञ्च निवृत्त्याद्या यासु विश्वं प्रतिष्ठितम् || मन्त्राः पदैस्तानि वर्णैर्व्याप्तानीह समन्ततः | वर्णास्तु भुवनैर्व्याप्तास्तत्त्वैर्व्याप्तानि तानि च || कलाभिस्तानि तत्त्वानि व्याप्तानीह कलाः क्रमात् | सदाशिवादिभूम्यन्तं शक्तितत्त्वं व्यवस्थितम् || सदाशिवादिकं त्वेवं स्वकार्यं व्याप्य संस्थितम् | चतुर्युगमहापादं पृथिवीतत्त्वकन्दरम् || कालतत्त्वात्तनाभं तत् पञ्चाशद्भावकण्टकम् | मायातत्त्वबृहद्ग्रन्थि शुद्धविद्याब्जशोभितम् || विद्येश्वरदलच्छन्नं शक्तिकेसरसंयुतम् | पीठमेवंविधं कल्प्यं मातृकाबीजसंभवम् || इति | कालाध्वोक्ताङ्गसम्पूर्णो भुवनाध्वोक्तरोमधृक् | वर्णाध्वोक्तत्वचोपेतो मन्त्राध्वरुधिरान्वितः || पदाध्वोक्तशिरामांसशुक्लमज्जास्थितत्त्वगः || सदाशिवषडध्वात्मा तस्य प्राणः शिवः स्मृतः | परावरो महादेवो ध्याने सकलरूपधृक् || निष्कलस्तदभावे तु अष्टत्रिंशत्कलात्मकः | आसनं मूर्तिरावाह्यमेतत् त्रितयमध्वनि || व्याप्यव्यापकभावेन ज्ञात्वा यजनमारभेत् | आसनं शुद्धविद्यान्तं मूर्तिः शक्त्यन्तगोचरा | आवाह्यं शिवतत्त्वं स्यादेतच्छैवानुशासनम् || इति || ५ || इति तत्त्वप्रकाशतात्पर्यदीपिकायां निवृत्त्याख्यः षष्ठः परिच्छेदः || वृत्तिः केनेदं प्रकरणमित्याह- तत्त्वानामिति | तत्त्वानां प्रकाशं ज्ञानं तत्त्वानां तत्त्वस्वरूपं येन कथितं ज्ञापितमित्यर्थः || ७५ || यस्याखिलं करतलामलकक्रमेण देवस्य विस्फुरति चेतसि तत्त्वजातम् | श्रीभोजदेवनृपतिः स शिवागमार्थं तत्त्वप्रकाशमसमानमिदं व्यधत्त || ७६ || तात्पर्यदीपिका यस्याखिलं करतलामलकक्रमेण देवस्य विस्फुरति चेतसि तत्त्वजातम् | श्रीभोजदेवनृपतिः स शिवागमार्थं तत्त्वप्रकाशमसमानमिदं व्यधत्त || नमस्तस्मै भगवते भोजायाक्लिष्टकर्मणे | शिवाय शिवभक्ताय शिवैकाहितचेतसे || नमः सर्वजगज्जन्मस्थितिभङ्गैकहेतवे | सर्वदैकस्वभावाय शिवाय शिवदायिने || तत्त्वप्रकाशव्याख्यानं भक्तिनिर्भरचेतसा | अविज्ञाय कृतं यत्तु सन्तस्तत् क्षन्तुमर्हथ || इति भारद्वाजकुलालङ्करणभूतेन शङ्करसूनुना विधिविहितसोमरसास्वादनपरितोषिणा शिवाङ्घ्रिकमलद्वयासक्तमधुकरायमाणमानसेन श्रीमता श्रीकुमारेण रचिता तत्त्वप्रकाशतात्पर्यदीपिका परिपूर्णा || वृतीः तदेव प्रपञ्चयति- यस्येति | यः शास्त्रेषु शिवोदितेषु परमं व्याख्यातृभावं गतः सामान्येषु पदादिकेषु च सुधीः स्वाध्यायशिक्षोल्बणः | तेनाघोरशिवेन शैवतिलकैः सम्प्रार्थितेनादरात् संक्षेपेण गुरूत्तमेन विवृतस्तत्त्वप्रकाशः स्फुटम् || इति लक्षद्वयाध्यापकश्रीमदघोरशिवाचार्यविरचिता तत्त्वप्रकाशिकावृत्तिः समाप्ता || ########### END OF FILE #######